________________
परिच्छेदः ]
चिराख्यया व्याख्यया समेतः ।
केनचिदुक्तम्- 'माधुर्यं द्रुतिकारणम् ।' इति तन्न । द्रवीभावस्यास्वादस्वरूपाह्लादाभित्र त्वेन कार्यत्वाभावात् । द्रवीभावश्च स्वाभाविकात विष्टत्वात्मक काठिन्यमन्युक्रोधादिकृतदीप्तत्ववि महासापहितविक्षेपपरित्यागेन रसाद्याकारानुविद्धानन्दोद्बोधेन सहृदयचित्तार्द्रप्रायत्वम् ।
९१
टिन्यायपगमेन सहृदयचित्तस्याहादमात्रतयाऽवस्थानं माधुर्यम् । यत्तु 'सामाजिकानुभवसिद्धः सुकुमारचित्तस्यावस्थाविशेषो हुति: ( तत्पदवाच्य इत्यर्थः ) स च ( अवस्था विशेष : ) मधुररसाखादादेव मनः काठिन्यापगमे जायते, न तु माधुर्यमेव सः' इति सङ्गच्छते 'आह्लादकत्वं माधुर्य शृङ्गारे द्रुतिकारणम् ।' इति काव्यप्रकाशोतमिति समर्थितं तद्वयाख्याकारैः । तन्न विचारपेशलम् । तत्र हि 'आहादयतीत्याह्लादकस्तत्वमानन्दहेतुत्वमिति यथाश्रुतस्तावत् सर्वथैव विरुध्यतेऽर्थः । शृङ्गारस्याहादरूपत्वेनाहादजनकताऽनुपपत्तेः, "शृङ्गार' इत्यस्यासङ्गतत्वापत्तेः । अथ - आह्लाद एवेत्याह्लादकस्तत्त्वमिति समर्थनं शरणम् । नैतदनाविलं क्लिष्टकल्पनालभ्यत्वात् । यच्च तच्च द्रुतेः कारण' मित्युक्तम्, तत्र माधुर्यस्य द्रुतिकारणत्वं किम्मूलम् । नहि मधुररसास्वादाज्जायमानो मनसोऽवस्थाविशेषो द्रुतिरिति सुवचम् | मधुरस्य तदतिरिक्तत्वापत्तेः । न च तत् । नहि मनसो द्रवीभावाद् द्राक् कश्चनाह्लादः किञ्चिद्वा मधुरास्वादत्वं सम्भ वति । निर्मलत्वानाविलत्वयोरिव द्रवत्वमधुरत्वयोरपृथग्भावात् । एवं च 'यद्रशेन श्रोतुर्विमनस्कतेव सम्पद्यते, तदाहादकत्वस्वरूपं माधुर्यमिति व्याख्यानमपि दत्तोत्तरम् । इति
अथ 'आह्लादकत्वं माधुर्य शृङ्गारे दुतिकारणम् ।' इत्यत्रा' ह्रादकत्व' मित्युपेक्ष्य 'श्रुतिकारण' मित्येव मीमांसितुमुपक्रान्त आह-यत्विति ।
तु पुनः । अस्मन्निर्णीत विरुद्धमिति भावः । 'तु स्याद्भेदेऽवधारणे ।' इत्यमरः । केनचित् । अत्र नामानुल्लेख स्तद्विचारस्य क्षोदाक्षमत्वेंऽपि प्रकृतोपकृतत्वं समवधार्यैव प्रवर्त्यत इति सूचयति । अत एव तंत्रकत्वेनापि निर्देशः । माधुर्यं तदाख्यो गुणः । द्रुतिकारणं द्रुतेद्रवीभवनस्य कारणं जनकमित्यर्थः । इति । यत । उक्तम् । तत् । न क्षोदक्षममिति शेषः । कुत इत्याह- द्रवीभावस्य न तु द्रवस्य द्रुतत्वस्येति वा । साक्षात्तया तदनुपपत्तेः । 'कृभ्वस्तियोगे सम्पद्यकतर च्विः।' ५ ।४ । ५० इति च्चौ 'अस्य च्चौ ।' ७।४।३२ इतीत्वम् । च्व्यन्तस्य चाव्ययत्वाद्'द्रवो' त्यव्ययपूर्वकाद् भूधातोः 'भावे ।' ३।३।१८ इति घञ् । आस्वादस्वरूपालादाभिन्नत्वेनास्वादनमास्त्रादो रसानुभवः, स एव स्वरूपं लक्षगं यस्येति, सोऽसावाहादश्चित्तस्य सुखालम्बनमात्रमवस्थानमिति, तेनाभिन्नत्वमभेदस्तेन तथोक्तेन । कार्यत्वाभावात् कार्यत्वानुपपत्तेः । जन्यत्व- जनकत्वयोर्विभिन्नाधिकरणकत्वस्यैव दृष्टचरत्वाद् द्रवीभावाभिन्नाहादात्मकस्य माधुर्यस्य द्रवीभाव जनकत्वं न सङ्गच्छते इति भावः । उक्तं च तर्कवागीशैः - ' आहदातिरिक्तस्य द्रवीभावस्य निर्वक्तुमशक्यतयाऽऽहादे एव पर्यवसानम् । एवमाह्लादजनकत्वापेक्षया लघुन आह्लादस्यैव माधुर्यपदशक्यता ऽवच्छेदकत्वमुचितमित्याहाद एव माधुर्यपदार्थ इति भावः ।' इति । यत्तु पण्डितराजै: - 'शृङ्गारकरुणशान्तानां माधुर्यवत्त्वेन द्रुतिकारणत्वं प्रातिस्विकरूपेण कारणत्वकल्पनापेक्षया लघुभूतमिति तु न वाच्यम् । परेण मधुरतरादिगुणानां पृथग्द्रुततरत्वादिकार्य तारतम्यप्रयोजकतयाऽभ्युपगमेन माधुर्यवत्त्वेन कारणताया गडभूतत्वात् । इत्थं च प्रातिस्त्विकरूपेणैव कारणत्वे लाघवम् ।' इत्युक्तम् । तन । तथाऽपि तारतम्यातिरिक्तप्रयोजकत्वकल्पनागौरवानपायात् । ननु रसद्रवीभावयोराहादात्मकत्वेनैव स्वीकारे कथं तयोर्धर्मिधर्मत्वोपपत्तिरित्यत आह-च पुनः । द्रवीभावस्तत्पदार्थः । स्वाभाविकाना विष्टत्वात्मक काठिन्यमन्युक्रोधादिकृतीमत्व विस्मयद्दासाद्युपहितविक्षेपपरित्यागेन स्वाभाविकं यदनाविष्टत्वं गूढविषयसञ्चाराक्षमत्वमिति, तदेवात्मा येषां ते स्वाभाविकाना विष्टत्वात्मका एव काठिन्य ( कोमलत्वाभाव ) मन्यु ( शोक ) क्रोधादयः ( क्रोध जुगुप्साप्रभृतयः ) इति तैः कृताः समर्पिता इति, ते च ये दीप्तत्व ( दग्धप्रायत्व ) विस्मय ( अदृष्टश्रुतपूर्वदर्शनप्रवणजन्यचित्तापूर्वावस्थान ) हासादय: ( हासभयादयः ) इति, तैरुपहित आलिङ्गितोऽनुगृहीतो यो विक्षेपस्तत्परित्यागेनेत्यर्थः । विक्षेपो विषयान्तराग्रहित्वम् । रत्याद्याकारानुविद्वानन्दोद्बोधेन रत्यादीनां रतिहासादीनामाकारः परिणामो ज्ञानं तग्मयीभवनमिति यावत्तेनानुविद्धः संवलितो य आनन्दस्तस्योद्बोधोऽनुभवविशेषस्तेनेत्यर्थः । सहृदयचित्तार्द्वप्रायत्वं सहृदयाः काव्यभावनासु परिपक्कान्तःकरणास्तेषां यचितं तस्यार्द्रप्रायत्वं विगलितत्वेनेवावस्थानम् । इति । एवं च -
1