________________
साहित्यदर्पणः।
( अष्टमः
३६ सम्भोगे करुणे विप्र-लम्भे, शान्तेऽधिकं क्रमात् ॥ ३४ ॥
शृङ्गारकरुणशान्तरसोदोधानन्तरं जायमानो रत्याद्यविषयकः सहृदयहृदयद्रवीभावात्मकसम्बन्धान्तरानालिङ्गिताहादसन्दोह एव माधुर्यपदवाच्यः, तस्य च जनकतासम्बन्धेन रससम्बन्धितया रसधर्मत्वमपि निर्बाधम् इति निर्गलितोऽर्थः । इति विवृतौ स्पष्टम् । यत्तु केनापि 'गुर्जर्यादिवृत्तिारव रसवृत्तिर्धर्मः कश्चित् स एव माधुर्याभिधयो गुणः, येन सहृदयानां हृदय द्रवीभवति । रत्यादिनां रसात्मकतया परिणामेन तस्य रसवृत्तित्वमवसेयमि' त्युक्तम् । तन्नातिरुचिरं प्रतिभाति । तत्र हि तादृशधर्मसत्त्वे मानस्यासत्त्वात् । न पुनर्द्रवीभवनरूपस्यैव कार्यस्यान्यथाऽनुदयात् कल्प्यतां नाम तादशोऽन्यो धर्मः । इति सुवचम् । तस्य रसस्वभावेनैव लब्धसत्ताकत्वे, तत्कृते धर्मान्तरं कल्पनीयमित्यभिधानस्य साहसिकमात्रत्वाभ्युपगमात् । अथ गुर्जर्यादौ तादृशो धर्मः स्वत एव सम्पन्नसत्ताक इति न तत्रापि कल्पनान्तरातिदेशः । इति । अत एव तर्कवागीशैर्विवृतौ 'केचित्तु 'गुर्जर्यादिरागवृत्तिारैव रसवृत्तिः कश्चिदेको धर्मोऽस्ति स एव दुतिरूपाहादस्य जनको माधुर्यमुच्यते ।' इत्याहुः । तन्न । रसस्यैव तादृशाहादजनकत्वाङ्गीकारेणैवोपपत्तौ तद्वृत्तिधर्मान्तरकल्पनाया अनाय्यत्वात् । इत्युक्तम् । यत् पुनः कश्चित् 'सुश्रवत्वमेव माधुर्य काव्यधर्मः ।' इत्याह । तदपि सुश्रवत्वमन्तराऽपि काव्ये माधुर्योपलब्धौ नात्यादरणीयम् । इत्यपि विवृतौ स्यष्टम् । वस्तुतस्तु दुःश्रवत्वस्य दोषविशेषेष्वङ्गीकृतत्वात्तदभावरूपस्यास्यापि तेनैवागीकृतत्वमत्र बीजम् । दुःश्रवत्वस्यापि क्वचिद् दोषात्मकत्वेनानुपलम्भानास्य काव्यधर्मत्वमपि वक्तुं शक्यम् । धर्मस्यानियतवृत्तित्वानभ्युपगमात् । इति ।
अथ माधुर्यस्य विषयानाह-तच्चेत्यादिना ।
च पुनः । तन्निरुक्तलक्षणं माधुर्यमित्यर्थः । तच्छब्दस्य पूर्वपरामर्शकत्वात् । ३६ सम्भोगे नायिकानायकयो: परस्परं संयोगविशेषालम्बनके शृङ्गारे । करूणे शोकप्रधाने स्वनाम्नैव प्रसिद्ध रसे । विप्रलम्भे सम्भोगप्रतिद्वन्द्वे शृङ्गारे रसे । शान्ते वैराग्यापरपर्यायनिर्वेदस्थायिभावके रसे । उपलक्षणे च तदाभासादिष्वपि । क्रमात पूर्वपूर्वापेक्षया । अधिकं सातिशयमुत्कर्षवत् । अस्तीति शेषः । सम्भोगापेक्षया करुणे करुणापेक्षया विप्रलम्भे तदपेक्षया पुनः शान्ते सातिशयमुत्कर्षवन्माधुर्यम् । केचित्त 'शान्तापेक्षयाऽपि विप्रलम्भेऽधिकं स्फुटं माधुर्य' मित्याहः, परे पुनः सम्भोगापेक्षया करुणे विप्रलम्भे शान्ते चाधिकमेव स्फुटं माधुर्यम् , न च तत्र तारतम्यमित्याचक्षते । यत्तूक्तं केनापि'करुणे' इति विप्रलम्भे' इत्यस्यैव विशेषणम् । तेन करुणवदश्रुपातादिकारणभूते विप्रलम्भे इति, नतु करुणे विप्रलम्मे चेति निष्कृष्टोऽर्थः।' इति तन्न मनोरमम्, 'अश्रुपातादयस्तत्र द्रुतत्वाच्चतसो मताः। इति करुणेऽपि चित्तद्रवीभवनस्याङ्गीकारेण सहृदयहृदयसाक्षिकत्वेन च 'करुणसदृशे विप्रलम्भे' इति स्वेनापि तथाऽङ्गीकृतत्वाच्च स्फुटमुपलब्धेः ॥ ३४॥ .
अत्रेयमुपपत्तिः-शृङ्गारस्तावद्रतिप्रधानः, सम्भोगो विप्रलम्भश्चेति द्विविधः । तत्र रतिर्नायिकानायकयोः परस्परं हृदयमात्रगम्योऽनुरागविशेषः । सम्भोग: पुनरेकत्रावस्थानमालोकनालिङ्गनादिप्रतिबन्धकीभूतदुरितविशेषानुपस्थितिका. लिकः स्वस्खानुरागविशेषाविष्कारः । अतस्तत्रैव माधुर्यम् । अथ करुणः शोकप्रधानो निवेदसञ्चारिभावात्मा । निर्वेदस्य पुनविषयेष्वलंप्रत्ययहेतुत्त्वात् प्रतिबन्धकीभूततत्तद्विषयानुरागोच्छेदकत्वाच्च चेतसोऽतिद्रवीभूतत्वात्तत्र सम्भोगापेक्षया सातिशय माधुर्यम् । अथ-विप्रलम्भः सम्भोगप्रतिद्वन्द्वी एकत्रावस्थानालोकनालिजनसमुपस्थापकादृष्टविशेषविलासानवसरभवोभिलाषाद्यपक्षयाऽऽत्मसुखसमपकापनाइटरप गोतमाशा तणानरागविशेषुम्य- कोमलतया प्रियसङ्गमाशाया अनिवृत्ती
येसङ्गभिभनक्स वसङ्घः स्फुटमपलभ्यते न तादृशो निर्वेदशतेनापि । निर्वेदे हि विषयानुरागस्तत्पुनरुदयश्च न सम्भवति, विरोधिनः सम्भवाच चेतसोऽतिद्रवीभूतत्वात् सातिशयं माधुर्यम् । अथ-शान्तो निर्वेदप्रधान एव । तत्र निवदस्य चित्तविक्षेपविरोधिनः सर्वथाऽवच्छेदेन समुल्लासादनन्याधारभूतत्वाच्च सर्वात्मना विषयानुरागनिवृत्तौ निरतिशयस्यात्मसुखस्यैवानायासमुपलब्धेश्च विप्रलम्भापेक्षयाऽपि द्रवीभूतत्वाचेतसः सातिशयमुत्कर्षवन्माधुर्यम् । इति । अन्ये तु-निर्वेदस्याभिलाषाद्यपेक्षयाऽऽत्मसुखसमर्पकत्वेनोत्कृष्टत्वे भासमानेऽपि न वास्तविकमुत्कृष्टत्वं सहन्ते । अभिलाषादिना हि यादृशस्य चेतोद्रवीभावस्य प्रसङ्गः स्फुटमुपलभ्यते न तादृशो निर्वेदशतेनापि । निर्वेदे हि विषयानुरागस्तत्पुनरुदयश्च न सम्भवति,