________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । सम्भोगादिशब्दा उपलक्षणानि । तेन-सम्भोगाभासादिष्वप्येतस्यावस्थितिज्ञेया।
३७ मूर्ध्नि वर्गान्त्यवर्णेन युक्ताष्टठडढान् विना ।
रणौ लघू च तद्वयक्तौ वर्णाः कारणतां गताः ॥ ३५ ॥
अभिलाषादौ प्रियानुरागमात्रसम्भवः प्रियसङ्गमाभावश्च तुलामेकामधिरोहतः । अथ प्रियानुरागोद्गारेऽपि प्रियस्यैव सङ्गमनिवृत्तौ यादृशश्चेतोद्रवीभावो न तथा सर्वानुरागनिवृत्तौ सर्वथाऽवच्छेदेन तत्तत्सङ्गमनिवृत्तावपि निर्वेदावसरे सहृदयहृदय साक्षिकः ।' इत्याहुश्च । अपरे पुन: 'शोकाभिलाषादि-निर्वेदेषु चेतोद्रवीभावस्य न तारतम्यम् । शोकादीनां तारतम्यानुपलम्भात् ।' इत्याचक्षते । तत्र-'सम्भोगे करुणे शान्ते विप्रलम्भेऽधिकं क्रमात् ।' इति 'सम्भोगाल्करुणे शान्ते ( विप्रलम्भे शान्ते) विप्रलम्भेऽधिकं पुनः ।' इति च पाठभेदः कल्पनीयः ।' इति ।
अथ 'सम्भोगे'-इत्यत्र निर्दिष्टैः सम्भोगादिशब्दैस्तदाभासाद्यर्थोऽपि बोद्धव्य इत्याह-सम्भोगादि इति ।
सम्भोगादिशब्दाः सम्भोग आदौ येषां ( करुणविप्रलम्भशान्तानाम् ) ते सम्भोगादय एव शब्दास्ते । उपलक्षणानि तदात्मका इति यावत् । उपलक्ष्यतेऽन्योऽप्यर्थोऽनेनेत्युपलक्षणम् । अत्र करणे ल्युट् । उपलक्षणं नाम स्वस्य स्वसम्बन्धिनश्चाजहत्स्वार्थया वृत्त्या बोधनम् । तेन सम्भोगादिशब्दानामुपलक्षणात्मकत्वाङ्गीकारणेत्यर्थः । सम्भोगाभासादिषु सम्भोगाभास आदौ येषां (करुणाभासतत्तद्भावाभासादीनाम् ) तेषु तथोक्तेषु । अपि । अपिरत्र सम्भावनायाम् । नत्वेवार्थे । तेन-सम्भोगादिषु तूत्तरोत्तरमस्त्येव सातिशयमुत्कर्षवन्माधर्यम्, किन्तु तदाभासादिष्वपि तथैवेति निष्कटोऽर्थः । अथ-यथा सम्भोगाभासापेक्षया करुणाभासे नतु सम्भोगापेक्षयैव करुणाभासेऽपीति नियमः सर्वत्रैव बोद्धव्यः । एवं च-'अपिरेवार्थे' इति व्याचक्षाणास्तर्कवागीशाः परास्ताः । एतस्य माधुर्यस्य । अवस्थितिः स्थितिः । ज्ञेया।
ननु रसधर्माणां तेषां माधुर्यादीनां कथमभिव्यक्ति: शब्दधर्मत्वाभावादिति चेद् गुणवृत्त्येत्याह ३७ मूनीत्यादि ।
३७ मनिं शिरसि अग्रभागे इति यावत् । टठडढान टकारठकारडकारढकारान् । 'पृथग्विनानानाभिस्तृतीयाsन्यतरस्याम् ।' २।३।३२ इति द्वितीया । विना । विहायेति यावत् । दुःश्रवत्वावहत्वात् । वर्गान्त्यवर्णेन वर्गस्य 'कुचुटुतुपु' इत्येतेषां वर्गाणा म्मध्ये यस्य कस्यापि सनिवेशस्तस्य तत्सम्बन्धिन इति यावद् अन्त्योऽन्ते भव इत्यसौ वर्णोऽक्षरं 'अणनमे'त्येष्वन्यतममिति यावद् इति तेन । 'दिगादिभ्यो यत् ।' ४ । ३ । ५४ इति यत् । 'वर्णो द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न स्त्रियां भेदरूपाक्षरविलेखने ॥' इति मेदिनी । यथा-'अनङ्गमङ्गलभुवः ।' इत्यत्र कुवर्यो गकारः स्वान्त्येन 'हु' कारेण । 'वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । १ । २ । ६५ इत्यत्र 'वृद्धो यूनेति निर्देशात्ततीया। युक्ताः समन्विताः। च पुनः । लय । अत्रानेके पक्षाः । तत्र-'हस्वान्तरितो' इति काव्यप्रकाशकाराः, 'वर्णान्तरयोगराहित्येन लघुप्रयत्नोच्चार्यो नतु गुरुविपरीतौ'इति व्याख्यातारः । 'विसर्गवर्णान्तरा युक्तावयुक्तान्तौ च' इत्यन्ये,'ह्रस्वान्तौ'इति बहवः प्राहुः । अथ-'ह्रस्वान्तरितौ'इति चेन्न । 'पुरोरेवापारे गिरिरतिदुरारोहशिखरो धनुष्पाणिः पश्चाच्छबरनिकरो धावति पुनः । शरः सव्येऽसव्ये दवदहनदाहव्यतिकरो व यामः किं कुर्मो हरिणशिशुरेवं विलपति ॥' इत्यादौ रेफस्य माधुर्यव्यजकत्वानुपपत्तेः । एवं वर्णान्तरयोगराहित्येन लघुप्रयत्नोच्चार्यों ।' इति चेन्न । 'स्मरः खलः खरः कालः' इत्यादौ रेफस्य माधुर्यव्यञ्जकत्वोपपत्तेः । 'विसर्गवर्णान्तरायुतावयुक्तान्तौ चेति चेन्न । 'अनङ्गरङ्गप्रतिमं तरङ्ग भङ्गीभिरङ्गीकृतमानताझ्याः ।' इत्यादौ रेफस्यायुक्तत्वाभावेन माधुर्यव्यञ्जकत्वानुपपत्तेः । नन्वेवं पुनः कोऽर्थः ? इति चेत् वर्गान्त्यवर्णसङ्घटितसंयोगान्तत्वातिरिक्तसंयोगान्तत्वशून्यौ विसर्गाभ्यां वर्णान्तरेण चाविहितान्तरालसम्पकौं लघ इति । रणौ रेफणकारी । यद्यपि 'ठडढा'तिरिक्तान वर्गान्तर्गतानां वर्णानामजीकारेण णकारस्याङ्गीकार आपाततः सङ्गच्छते तत्पुनर्णकारोल्लेखष्टठडढसाहचर्येण तेषां निषेधेन नास्थ निषेधः शङ्कनीय इति भ्रमापनोदाय । रेफस्य पुनरुपादानं वर्गान्तर्गतत्वाभावेन तस्योपादानासम्भवे तस्य चौपादानस्य चावश्यमपेक्षितत्वादित्येके, परे तु न केवलं वर्गवर्णानामेव माधुर्यव्यञ्जकत्वसौभाग्यम्, किन्तु परेषामपि 'टठडढा'तिरिक्तानामिति द्योतनार्थ रेफोपादानमित्याहः । अत एव-'अपसारय घनसारं कुरु हारं दूर एव किं