________________
[ भष्टमः
साहित्यदर्पणः। अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा ।
कमलैः । अलमलमालि ! मृणालैरिति वदति दिवानिशं वाला ॥' इत्यादौ शरामपि माधुर्यव्यञ्जकत्वं सङ्गच्छते । तदक्तं रसगङ्गाधरकारैः 'तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शर्मिरन्तःस्थैच घटितानकटयेन प्रयुक्तैरनुस्वा. रपरसवर्णः शुद्धानुनासिकैश्च शोभिता वक्ष्यमाण: सामान्यतो विशेषतश्च निषिद्वैः संयोगाद्यैरचुम्बिता अवृत्तिमृवृत्तिा रचनाऽऽनपात्मिका माधुर्यस्य व्यक्षिका । द्वितीयचतुर्थास्तु वा गुणस्यास्य नानुकूला, नापि प्रतिकूला; दूरतया सनिवेशिताश्चेत् । नैकटथेन तु प्रतिकूला अपि भवन्ति, यदि तदायत्तोऽनुप्रासः ।' इति । वर्णा अक्षराणि । तथा । अवृत्तिन वृत्तिः समास इति । समासाभाव इत्यर्थः । वाऽथवा । अल्पवृत्तिरल्पा मृदुला वृत्तिरिति । मधुरा दुःश्रवत्वदोषेण सर्वथाऽस्पृष्टा मृदुलपदघटितानुप्रासादिभी रुचिरेति यावत् । अत एव-मधुरातीति वा । रचना समाहितेन चेतसा समुद्भाविता सहृदयस्य कविवरस्य कृतिः । तदुक्तम् 'अनौचित्याहते नान्यद रसभअस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥' इति । तदध्यक्तौ तस्य माधुर्यस्य व्यक्तिस्तत्र । तनिमित्तमिति यावत् । माधुर्यव्यसननिमित्तमित्यर्थः । 'निमित्तात् कर्मयोगे* ।' इति सप्तमी। कारणताम् । गताः । प्राप्ताः । अत्रायं पर्यालोकः- 'कादयष्टवर्यविहीना रेफणकारसमेताः स्वस्ववर्गान्त्य वर्णसंवलिता वर्णा माधुर्याभिव्यक्तेः कारणानि ।' इति प्राञ्चः । 'टवर्गविहीनाः शषससंयुक्ता यरलवयुता वर्णा माधुर्यव्यन्नका' इति पण्डितराजप्रमुखाः । 'टठडडै' रेख विहीनाः स्वस्ववर्गान्त्यवर्णकृतसंश्लेषातिरिक्तसंयुक्तत्वशून्या माधुर्य व्यञ्जयन्ति वर्णा' इत्यपरे । समासस्य सर्वथा परिहारस्तदसम्भवे मृदुल: समासश्च सहृदयेन कविवरण समाहितेन चेतसा विहिता शब्दानां मधुरा सङ्कलना माधुर्यव्यक्तेः कारणानीति सर्वे प्राहुः । यत्तु-पण्डितराजै:-'तां तमालतरुकान्तिलचिर्नी किङ्करीकृतनवाम्बुदत्विषम् । स्वान्त ! मे कलय शान्तये चिरं नैचिकीनयनचुम्बितं श्रियम् ॥' यथावा-'स्वेदाम्बुसान्द्रकणशालिकपोलपालिरन्तःस्थितालसविलोकनवन्दनीया । आनन्दमकुरयति स्मरणेन काऽपि रम्या दशा मनसि मे मदिरेक्षणायाः ॥' प्रथमे पद्येऽतिशयोक्त्यलङ्कृतस्य भगवद्ध्यानौत्सुक्यस्य भगवद्विषयकरतेर्वा ध्वन्यमानायाः शान्ते एव पर्यवसानात्तद्गतमाधुर्यस्याभिव्यञ्जिका रचनेयम् । द्वितीधे तु स्मृत्युपटब्धशृङ्गारगतस्य इत्युक्तम् । तत्रदमभिधीयते-उभयत्र पूर्वभागयोः समाससङ्कलना, त्वश्रव्यादिसंयुक्तवर्णाश्च माधुर्यव्यञ्जका ओजोव्यजका वेति तु सहृदयेभ्य एव निवेद्यते । किन्तु पूर्वस्मिन् पद्ये भगवद्विषयकरते+ननं व्यञ्जनं वा, न तावद् व्यजनमित्यभिधातुं शक्यम् 'भगवविषयकरतेर्वा ध्वन्यमानायाः शान्ते एव पर्यवसानात् ।' इत्यभिहितस्य विस्मृतत्वापत्तेः । नच ध्वननमिति वचः शरणम् । उभयोरेव भगवद्ध्यानौत्सुक्यस्य भगवद्विषयकरतेश्च व्यज्यमानत्वे प्रतिबन्धादर्शनेऽन्योऽन्यमहाङ्गित्वाद् ध्वन्यमानत्वानुपपतेः । अन्यथा 'न ध्वनियंत्र वा तस्य प्राधान्यं न प्रतीयते।' इति सिद्धान्तस्तिरोहितः स्यात् । न च ध्वननव्यञ्जनयोरपरपर्यायत्वं वक्तुं शक्यम् । ध्वननव्यञ्जनयोर्भेदावगमकस्य निरुक्तसि. द्धान्तस्यैव जागरूकत्वात् । शान्तपर्यवसायिनो वा भगवद्धयानौत्सुक्यस्य भगवद्विषयकरते तत्त्वेनैव गुणीभूतत्वात् । इति । ननु तत्र न नैकटयेन संयुक्ता वर्णा न च दीर्घः समासः, यद् भज्येत माधुर्यम् । इति चेत् । न । नचिकी'त्यत्र नेकटयेन द्वितीयचतुर्थवर्ययोर्वर्णयोः सन्निवेशस्य त्वश्रव्यादीनां च संयुक्तानां नैकव्याभावेऽपि दुःश्रवत्वावहत्वे माधुर्य"श्चत्पन्नादर्शनात । न च तादृशः समासोऽपि मृदुल इति सुवचम् । लम्बायमानस्य तस्य तत्त्वानुपलम्भात् । अन्यथा समानदयनीयवेव सावर्णयोरिति बोध्यम् । अन्यथा 'गगन गगनाकार मिलादीपा रस्ताळगवहितोत्तरं सकदेकपदे सन्निविष्टा वर्णाः किञ्चिदश्रव्याः । यथा-'ककुभसुरभिः, विततगात्रः, पललमिवाभातपित्यादा असकृदाधि, एनमकदावे ते । यथा-'शुक ! करोषि कथं विजने रुचिम् ।' इत्यादौ । असकृदथानेकेषु पदेषु यदि ते ततोऽप्यधिकम् । यथा'पिक ! ककुभो मुखरीकुरु प्रकामम् ।' इत्यादौ । असकृद् यदि पुनरधिकम् । यथा-"वितथतरं तव वचनं प्रतीमः ।' इत्यादौ । एवं च वया॑नां वर्णानां स्वसमानवयंवर्णाव्यवहितोत्तरं सन्निवेशेनाश्रव्यत्वमुदाहृतम्, तद्वर्गाणां प्रथमद्वितीययो. स्तृतीयचतुर्थयोरेख वा वर्णयोरिति बोध्यम् । अन्यथा 'गगनं गगनाकार'मित्यादावपि तत्त्वापत्तिः स्यात् । अथ-प्रथमतृतीययोर्द्वितीयतृतीययोर्वा वर्ग्यवर्णयोरव्यवहितोत्तरं सनिवेशः किञ्चिदश्रव्यः।एष यदि सकृत् । एतस्यापि पुनरसद्भावे