________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
यथा-'अनङ्गमङ्ग भुवस्तदपाङ्गस्य भङ्गयः । जनयन्ति मुहुयूनामन्तःसन्ताप सन्ततिम् ।'
स्फुटमश्रव्यत्वम् । यथा-'खगकलानिधिरेष विज़म्भते।' इत्यत्र कवर्ययो: प्रथमतृतीययो: ककारगकारयोर्द्वितीयतृतीयांश्च खकारगकारयोर्वर्गयोः सन्निवेशः सकृदिति न साधारणानामप्यवगम्यः । न तु'इति वदति दिवानिशं धन्या (बाला)॥' इत्यादौ । यतः-प्रथमतृतीययो 'वंदती'ति क्रियापदस्थयोस्तकारदकारयोरेव'इतो त्यत्र 'दिवानिश'मित्यत्र च सग्निवेशवशादश्रव्यत्वम् । अथवा 'दयिते ! दयितेति नाम ते वितथं नैव यथा तथा भव ।' इति विविक्तमुदाहरणम् । अत्र हि प्रथमतृतीययोस्तकारदकारयोद्वितीयद्वतीययोश्च थकारदकारयोरसकृदिति न सहृदयहृदयैकसाक्षिकमश्रव्यत्वम् । अणनमानां पुनः सन्निवेशः स्वसमानवाव्यवहितोत्तरमनिशमपि नाश्रव्यः । तेषां माधुर्यैकस्वाभाव्यात् । अत एव कविराजमहोदयाः 'टठडढान् विना'इति निषेधपर्यवसितस्यापि णकारस्य रणौ'इत्यनेनोपदेशमानेडयन्ति । एवं तेषामेव स्वाव्यवहितोत्तर विहितः सन्निवेशो भवति किञ्चिदश्रव्य इति बोध्यम् । तत्र-'तनुते तनुतां तनौ ।' इति 'मम महती मनसि व्यथाssविरासीत्।' इति चोदाहरणम् । पूर्वत्र तवर्गान्त्यस्य नकारस्य स्वसमानवय॑तकाराव्यवहितोत्तरवती सन्निवेश इति नाश्रव्यः । उत्तरत्र तु पवर्गान्त्यस्य मकारस्य स्वस्यैवाव्यवहितोत्तरवती सन्निवेश इति किञ्चिदश्रव्यः । एतेषां पुनरश्रव्यत्वं दीर्थस्वरान्तरितत्वेन किञ्चिनिवर्तते। यथा-'हा हन्त तो तामरसाननां विना किन्नाम ते जीवित ! जीवितात् फलम् ।' इत्यत्र । क्वचित् संयोगपरत्वेनापि यथा-'भणितिषु सुकवीनामङ्गनानामिवाङ्गा-दिषु जयति मनोज्ञा काऽपि शोभाऽपरैव । तमपि पुनरनङ्गं रङ्गसङ्गं नयन्ती नवममृततरङ्गं तुझ्यन्ती प्रसङ्गे ॥' इत्यत्र । इदं त्ववश्यमवगन्तव्यम्-यदिह संयोगपरत्वं तद् वर्गान्त्ययोगविहितमेवेति । उक्तं चैवं प्रपश्य रसगङ्गाधरकारैः-'मधुररसेषु दीर्घसमासझय ( झभल, घढघष, जबगडदश, खफछठथचटतव्, कपय ) घटितसंयोगपरहस्वस्य विसर्जनीयादेशसकारजिह्वामूलीयोपध्मानीयानां टवर्गझयां ( ढडठटानाम् ) रेफहकारान्यतरघटितसंयोगस्य हलां (व्यञ्जनानाम् ) लभनभिन्नानां स्वात्मना संयोगस्य झय्घटितसंयोगस्य श-(शषस ) भिन्नमहाप्राण ( खघछझठढथधह ) घटितसंयोगस्य सकृदपि ( नैकट्येन प्रयोगं वर्जये, असकृत्तु सुतराम् ) इति संक्षेप. (विस्तरस्तु अयमेव येन यथायथा माय व्याहन्येत तथातथा तस्य सर्वहारो विधेयः )।' इति ।' इति।
उदाहरति-यथेत्यादिना । यथा माधुर्यं यत्राभिव्यज्यते तथा तदुदाह्रियते--'अनङ्गमङ्गलभुवः । इत्यादिना ।
'अनमइलभुवो नास्त्या करचरणादिशरीरमित्येव वा अस्य (महेश्वरस्य कोपानलेन दग्धत्वात् ) तथाभूतस्य मदनस्येति यावन्मङ्गलमानन्दः पुनः सञ्जीवनोत्सवस्तस्य भुवः पृथिव्य आधारभूता इत्यर्थः । 'अङ्ग गात्र प्रतीकोपाययोः पुम्भूम्नि नीति । क्लीबैकत्वे त्वप्रधाने त्रिवङ्गवति चान्तिके ॥' इति मेदिनीकरः । 'कन्दर्पो दर्पकोऽनङ्गः ।' इत्यमरः । तदपाङ्गस्य तस्याः प्रसिद्धाया बुद्धिस्थाया वा रुचिरहावभावशालिन्याः प्रियतमाया इति यावद् अपाङ्गो लोचनयोः प्रान्तवर्ती भागस्तस्य । 'अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च ।' इति विश्व: । भड्यो विक्षेपा विन्यासविशेषा इति यावत् । 'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।' इति खाभाव्यात् । 'व्याजच्छलनिभे भनिवदर्भी तनमीलिका ॥' इति रभसः । यूनां तरुणानाम् । एतेन बालादीनां व्यवच्छेदः । युवानोऽप्यत्र दुर्भगा अविहिततत्सहसोभाग्यहेतुसुकृतपुजा एव । अन्तरभ्यन्तरे । हृदयस्येति शेषः । हृदयान्तःप्रदेशे इति भावः । एतेन वाह्य प्रदेशो व्यवच्छि. द्यते । सन्तापसन्तति सन्तापानां न तु सन्तापस्य सन्तापयोरिति वा सन्ततिः सन्तान उत्तरोत्तर परिवुद्धिरिति यावत् ताम् । सन्तपनं सन्तापः । 'भावे' ३।३।१८ इति घन । सन्तन्यते इति सन्तति: । 'स्त्रियां क्तिन् ।' ३।३।९४ इति क्तिन् । मुहरसकृत् । जनयन्ति । अत्र कस्यापि दुर्मगस्य मित्रं प्रति सखी प्रति वा स्वान्तःसन्तापबीजभु. तस्य कस्याश्चित्सङ्गमाभावस्य निवर्तनायान्तारकसन्तापाविष्करणम् । इत्येवं विप्रलम्भे माधुर्यस्य व्यञ्जकाः पुन: स्वान्त्यसम्बलिताः कवाः । 'वामाऽपाङ्गस्ये ति पाठस्तु युक्तः । 'स्ते' इति संयुक्तस्य निरासात् । 'स्ये त्यपि संयुक्तो वर्णस्तस्य निरासोऽपि 'दयिताऽपाङ्गभङ्गस्य ।' इति समस्ते पाठान्तरे सम्भवति । किन्तु समासमृदुलत्वभङ्गभयान कृतम् इत्येके । अन्ये तु 'तदपाङ्गस्ये'त्यत्र तच्छन्दस्येव 'वाम'शब्दस्य रमणीयत्वानापादकत्वमिति यथास्थित एव पाठो युक्तः । इत्याहुः ॥६१॥