________________
साहित्यदपणः।
( अष्टम:
यथा वा मम'लताकुलं गुञ्जन्मदवदलिपुञ्ज चपलयन् समालिङ्गन्नझं द्रुततरमनङ्ग प्रबलयन् । मरुन्मदमन्दं दलितमरविन्दं तरलयन् रजोवृन्दं विन्दन किरति मकरन्दं दिशिदिशि ॥२॥'
उदाहरणान्तरमवतारयन्नाह-यथेत्यादि । यथा । वा-माधुर्यमिति शेषः । मम मदीये प्रबन्धे इत्यर्थः । तथादाहियते-'लताकुक्षमित्यादिना ।
'मरुद्गन्धवहः । 'समीरमारुतमरुज्जगत्प्राणसमीरणाः । इत्यमरः । गुञ्जन्मदवदलिपुत्रं गुञ्जन्तः शब्दं कुर्वन्तो मदवन्तो मत्ता अलिपुन्ना मधुकराणां समूहा यत्र तथाभूतम् । अत्र त्रिपदो बहुव्रीहिः । लताकुञ्ज लतानां यूथीमाधीप्रभृतीनां वल्ली विशेषाणां कुञ्जो गुच्छावष्टम्भविशेषस्तम् । 'कुञ्जोऽस्त्रियां निकुञ्जेऽपि हनौ दन्तेऽपि दन्तिनाम् ।' इति मेदिनी । चपलयंश्चपलं कुर्वन् । अझं शरीरम् । समालिडन संस्पृशन् । तेन सह परिष्वङ्गं कुर्वनिति भावः । अननं दग्धशरीरं मदनमित्यर्थः । द्रुततरमविलम्ब नतु विलम्बात् । प्रबलयन् जनयन् प्रवर्धयश्चेति भावः । दलितं दलानि पत्राणि जातानि विकसितान्यस्येति, तत् । 'तदस्य सञ्जातं तारकादिभ्य इतच ।' ५।२।३६। प्रफुल्लमिति भावः । अरविन्दं कमलम् । अत्र जातावेकवचनम् । तेन कमलवनमिति निष्कृष्टोऽर्थः। मन्दमन्दं नतु त्वरितम् । यथा न विनश्येत् सुरभिश्च लभ्येत । 'नित्यवीप्सयोः ।' ८1१।४ इति वीप्सायां द्विवचनम् । तरलयन कम्पयन् । रजोवृन्दं रजसो बुन्दम् । सुरभितकुसुमान्तर्गतं पराग ( तद्रजो) वृन्दमित्यर्थः । 'आर्तवे च परागे च रेणुमात्रेऽपि दृश्यते ।' इति मेदिनी । मकरन्द कुसुमरसम् । 'मकरन्दः पुष्परसः ।' इत्यमरः । दिशिदिशि प्रतिदिशम् । 'आनुपूर्वे द्वे वाच्ये*' इति द्विवचनम् । किरति विकिरति । अत्र शिखरिणीछन्दः । तल्लक्षणं तु प्रागुक्तम् ॥' इति । अत्र पूर्वभागे कवय॑स्य गकारस्य स्वान्येन टुकारेण संयोगभूयस्त्वमुत्तरत्र पुनस्तवय॑स्य दकारस्य नकारेण । न समासदैर्घ्यं चेति स्फुटं माधुर्यम् ॥६५॥
यथा वा मम-'बत मां दयितां च तां दया-मभगां हन्त विधाय किं विभो। कुह नाथ गतोऽसि कोऽनयोः शरणं वा तव कोऽनयोर्मतः ॥' अत्रापि पूर्ववत् । किन्तु पूर्वत्र विरहिणो नायकस्य, अत्र पुनर्नायिकायाः प्रलापः । इति भेदः । यत्तु तर्कवागीशैः-अवृत्तेर्माधुर्यव्यञ्जकत्वं यथा-'मुद्रितामिन्दुमालोक्य पद्मिनी पदय सुन्दरि । हन्त :कामस्य विच्छेद मधुरोऽपि न रोचते ॥' इति । असमासस्य यथा-'मानं विमुञ्च कल्याणि दासं मामनुकम्पय । विजहीहि रुषो रागमधरस्य च कम्पनम् ॥' इत्यभिधाय वा सुकुमारार्थप्रतिपादकरचनाया माधुर्यव्यञ्जकत्वं यथा-'उचितं गोपनमनयोः स्तनयोः कनकाद्रिधर्मतस्करयोः । अवमानितविधुमण्डलमुखमण्डलगोपनं किमिति ॥' इतीत्युक्तम् । तदवहेयम् । पूर्वत्र हि 'मुद्रिना'मित्युदाहृते पद्ये 'इन्दुमालोक्य मुद्रितां पद्मिनी'मित्यभिमतान्वयस्य पदान्तरप्रविष्टत्वात् सङ्कीर्णत्वम्, संयुक्तवर्णघटितपारुष्यवशाच दुःश्रवत्वं नाम दोषः । अपरत्र पुनः 'मान'मित्यत्र न कश्चित्कवितापरिपाकः । 'विजहीहि'इत्यत्र ग्राम्योक्तेः स्फुटमुपलब्धेः । उत्तरत्र 'उचित मिति पद्ये तु प्रसादः । न पुनर्माधुर्यम्, समासदैर्ध्यात् । अत्रायमभिप्रायः'मर्ध्नि वर्गान्त्यवर्णेने ति निरुक्तं समस्तमेव लक्षणं माधुर्याभिव्यक्तेः । नच निरुक्तानां वर्णानां समासाभावस्य समासमादेवस्य वा मधुरायाश्च रचनायाः प्रत्येकं माधुर्याभिव्यक्तिहेतुत्वमवसेयमिति वाच्यम् । तथा सति हि समासाभावस्य समासमार्दवस्य च माधुर्याभिव्यक्त्युदाहरणे 'टठडढा'नामपि निवेशस्थोपपत्तेः । नापि 'माधुर्यव्यजकत्वं यदसमासस्य दर्शितम् । पृथक्पदत्वम्माधुयं तेनैवाङ्गीकृतं पुनः ॥' इति वक्ष्यमाणनयेनासमासस्यापि माधुर्यव्यञ्जकत्वमङ्गीकर्तव्यमिति शङ्कयम् । निरुक्तलक्षणघटितवर्णानुगृहीतसमासाभावस्यैव तत्रापि तत्त्वाभिप्रेतत्वात् । ननु तर्हि 'श्वासान् मुञ्चती'त्युदाहरणं किम्मूलम् ? संयुक्तवर्णानां च ठकारस्यापि तत्र निवेशात् इति चेत् ! सत्यम् । तत्र पृथक्पदत्वमेवोदाह्रियते नतु माधुर्यव्यजकत्वमपेक्ष्यते । अन्यथा केन पामरव्यतिरिक्तेन तथात्वेऽपि माधुर्यमभिधीयेत । ओजोघटकयावन्मात्रनिबेशस्यैव माधुर्यतिरोधायकत्वेन सर्वेः स्वीकृतत्वात् । वस्तुतस्तु तत्र पृथक्पदत्वमपि माधुर्यव्यअकं भवितुमर्हति, चेन्न निरु