________________
परिच्छेद: ]
रुचिराख्ant व्याख्येया समेतः ।
३८ ओश्चित्तस्य विस्फाररूपं दीप्तत्वमुच्यते ॥ ३६ ॥ ३९ वीरबीभत्स रौद्रेषु क्रमेणाधिक्यमस्य तु ।
अस्यौजसः । अत्रापि वीरादिशब्दा उपलक्षणानि । तेन वीराभावादिष्वप्यस्यावस्थितिज्ञेया । वर्णैर्विरुद्धम् । अन्यथा तु तस्य गुणत्वमेव न दुःश्रवत्वादिकलुषितत्वात् । 'कन्दर्पः कुटिलः करालकृतिकः काम प्रचण्डैः शरैर्विध्यन् हन्ति न यान्ति हन्त तदपि प्राणा ममामी खलाः । काचित्कापि न मादृशी हतभगा दृष्टा श्रुता केनचित् काल ! कासि झटित्युपेहि कवलीकृत्याङ्गमेतन्मृड ॥' इत्यादावपि पृथक्पदत्वेन माधुर्यव्यञ्जकोदाहरणापत्तेश्च । इति ।
अथोद्देशक्रमप्राप्तमोजःस्वरूपनिरूपणमारभते - ३८ ओज इत्यादिना ।
१७
३८ चित्तस्य सामाजिकानामिति शेषः । ते च सहृदया एवं नान्ये इत्यपि बोध्यम् । विस्ताररूपं विस्तारो वीरादिरसास्वादावसरे द्रवीभावविरुद्धो विस्मयविशेषो वृत्तिविशेषो वा स एव रूपमात्मा यस्य तदित्यर्थः । दीप्तत्वं दीप्तस्य भाव इति । तस्य च साक्षादनुपपत्तेरुपचारः । तथा च दीप्तत्वमिवेति निष्कर्ष: । भोजस्तदभिधेयो गुणो भवतीत्यर्थः । तथा च - वीरादिरसास्वादावसरे ज्वलितमिव च मनसोऽवस्थानमेव ओजो नाम गुणः । न तु चित्तस्य ज्वलितत्वमिव विस्मितत्वमिव च अवस्थानमापादयति यत्, तद्दोज इति निष्कृष्टोऽर्थः । एतेन - 'दीयात्मविस्मृतेर्हेतुरोजः ।' इति काव्यप्रकाशाभिधानं नातिपेशलमित्यभिहितमिव भवति । तत्र कार्यकारणभावानुपपत्तेः । नहि चेतो विस्तारात्मकदीप्तत्वावस्थानभिन्नं किमप्योजस्त्वं प्रतीयते, येन तयोः कार्यकारणत्वं समुपपद्येतेति दिक् ॥ ३६ ॥
एवमोजःस्वरूपमभिधाय तदधिकरणकान् रसान्निर्दिशति - ३९ वीरबीभत्स रौद्रेष्वित्यादिना ।
. ३९ तु पुनः । अस्योजोगुणस्येत्यर्थः । वीरबीभत्सरौद्रेषु वीरश्च बीभत्सश्च रौद्रश्चेति तेषु । क्रमेण पूर्वपूर्वापेक्षयोत्तरोत्तरत्रेति यावत् । आधिक्यमधिकत्वम् । तथा च वीरापेक्षया बीभत्से तदपेक्षया पुमा रौद्रे चित्ते दीप्तत्वम धिकमिति निष्कर्ष: ।
अथ कारिकास्थस्य 'अस्यै'ति पदस्यार्थमाह-अस्येतिपदस्येति यावत् । ओजसः । ' ओजसः' इत्यर्थो बोद्धव्य इति ।
अत्र चीरादिशब्दानामुपलक्षकत्वमङ्गीकृत्य तत्प्रयोजनं निर्दिशति - अत्रास्मिन् कारिकांशे इति यावत् । अपि यथा 'सम्भोगे -' इत्यत्र तथेति भावः । वीरादिशब्दाः वीरबीभत्सरौद्रशब्दा इत्यर्थः । उपलक्षणानि तद्रूपा इति यावत् । तेन वीरादिशब्दानामुपलक्षणात्मकत्वाङ्गीकारेणेत्यर्थः । अस्योजसः । वीराभासादिषु वीराभास आदौ वीरशान्त्यादीनां भावाभासभावशान्त्यादीनामिति यावत् तेषु । अपि वीरादिषु तु सुतरामित्यर्थः । अवस्थितिः स्थितिसम्भवः । क्वचित् 'स्थिति' रित्येव पाठः । ज्ञेया बोद्धव्या । क्वचिज् 'ज्ञेये' तिपाठ एव न ।
अत्रेदं निष्पन्नं तत्त्वम्-वीरे बीभत्से रौद्रे च क्रमादुत्तरोत्तरत्रौजः सातिशयं चमत्कारशालि इत्याचेदित्वरम् । ओजश्च चित्तस्य ज्वलितवदवस्थानम् । तच अनभिमतनिरीक्षणादिना जायते । इत्यपि निर्विचिकित्सितम् । वीरस्तावदुसाप्रधानो नतु क्रोधप्रधानः । बीभत्सः पुनर्जुगुप्साप्रधानः । अथ रौद्रः क्रोधप्रधानः । नतु उत्साहमात्रप्रथानः । क्रोधो यथा कर्त्तव्याकर्त्तव्यमूढत्वहेतुर्न तथोत्साहः । जुगुप्सा तु परं कथमपि परिहारेच्छा मेबोद्भावयति न तूत्साहं क्रोधं वा । अत एव तत्र जिगीषा जिहासा जिघांसा च क्रमात् । तासां च उत्तरोत्तरं चित्तस्य दीप्तत्ववत्त्वापेक्षितत्वादोजोऽपि वीराक्षायुत्तरोत्तरं सातिशयमुत्कर्षशालि । तदुक्तं काव्यप्रकाशव्याख्यायां चक्रवर्तिभट्टाचार्यैः 'वीरे तु जिजीषैव वैरिवशीकरणमात्रोद्देश्यत्वात् । बीभत्से जुगुप्सिते विषये ममताऽनास्पदत्वेन तितिक्षा नतु जिघांसा । रौद्रे त्वपकारिणि वधावधिकः प्रयास इति जिघांसैव नतु जिगीसा नवा तितिक्षेति क्रमशो दीप्तेराधिक्यम् । अयमेव रौद्रवीररसयोर्भेदोऽवसेयः । ' इति । चण्डीदासेन 'ओजसस्तावदवतारो बीभत्से, माधुर्यानुविद्धत्वान्नोत्कर्षभाक् । अथ रौद्रे वीरे च न माधुर्यानुविद्ध इत्युत्कर्षभागेव ।' इत्युक्तम् । ओजसस्तत्राधारभूता वीरादय इत्युभयथा निर्विवादम् । वीरादिशब्दाश्च लक्षणोपकृताः । सा च प्रकृतेऽजह स्वार्थैव । एवं वीरपेक्षया बीभत्सादौ यथौजस उत्कर्षस्तथा तत्तदाभासाद्यपेक्षया तत्तदाभासादिष्वपि तारतम्यमवधार्यम् । तेषां तत्तदङ्गभूतत्वात् । इति । पुनः पर्यवसिता हास्योऽद्भुतो भयानकश्चेति त्रय एव रसाः । तत्र आधे माधुर्यमन्त्यत्रो;
१३
*