________________
९८
साहित्यदर्पण: ।
४० वर्गस्याद्यतृतीयाभ्यां युक्तौ वर्णौ तदन्तिमौ ॥ ३७ ॥ उपर्यधोद्वयोर्वा, स-रेफौ टठडढैः सह ।
शकारश्च षकारश्च तस्य व्यञ्जकतां गताः ॥ ३८ ॥ तथा समासो नहुलो घटनौद्धत्यशालिनी ।
यथा - 'चच-' इत्यादौ ।
[ अष्टमः
पुनरोज: स्फुटम् । आये पुनरोज : अन्त्ययोः पुनमाधुर्यमस्फुटम् । अन्ये तु शृङ्गाराङ्गविभावादिप्रभवत्वे माधुर्य, वीरायतन भवत्वे तु तेषामोजः प्रधानम् ।' इत्याहुः ।
1
अथ यथौजोऽभिव्यज्यते इति निर्दिशति ४० वर्गस्येत्यादिना ।
ין
४० वर्गस्य । 'कुटुतुपु' इत्येते वर्गाः । तेषां मध्ये यस्य कस्यापि सजातीयस्य विजातीयस्य वा विन्यासो भवेत्तस्यैकतमस्येत्यर्थः । भाद्यतृतीयाभ्यामाद्यश्च तृतीयचेति ताभ्याम् । प्रथमवर्णेन तृतीयवर्णेन वेति भावः । प्रथमस्ताव - द्वर्णः - 'कचटतपे' त्येतेषामेकतमः । तृतीयः पुनः - 'गजडदवे' त्येतेषामेकतमो वर्ण: । सहेति शेषः । 'सहयुक्तेऽप्रधाने ।' २।३।१९ इति तृतीया । यद्वा-' इत्थम्भूतलक्षणे' २।३।२१ इति तृतीया । यद्वा- 'कर्तृकरणयोस्तृतीया ।' २।३।१८ इत्य नैव तृतीया । तदन्तिमौ तयोरन्तिमाघन्त्यौ । 'कुचुतुपु ' वर्गाणां मध्ये कस्यापि वर्गस्याद्यतृतीयवर्णयोरन्त्यौ द्वितीयचतुर्थी व इति भावः । तत्र द्वितीयः 'खछटथके' त्येषामेकतमो वर्ण, चतुर्थः पुनः - 'घझढधभे त्येषामेकतमो वर्ण: । युक्तौ । सङ्गतौ संयुक्त संपृक्तौ इति वा भावः । वर्णौ । तथा उपरि शिरोभागे । यथा तर्कोदर्कोर्जितोक्तिरित्यत्र । अधोऽधोभागे । यथा - शुभ्राम्रैरित्यत्र । वा । पक्षान्तरसम्भवे त्वित्यर्थः । द्वयोरुपर्यधश्चेत्यर्थः । यथा - मुहुर्भ्रान्त इत्यत्र । सरेफौ रेफेण रकारेण सह वर्त्तमानौ तौ च वर्गस्याद्यतृतीय द्वितीयचतुर्थी वा निर्देक्ष्यमाणौ शकारसकारौ वाऽन्यावेव वयथातथमवगन्तव्य । च तथा । टउडदैष्टकारठकारडकार ढकारे माधुर्यतिरोधार्थकैरिति भावः । एतचोपलक्षकम् । तेनमाधुर्याननुगुणानां वर्णादीनामोजोऽनुगुणत्वमिति द्योतितम् । शकारः । च । षकारः । तथा । बहुलो दीर्घः । समासः 'समासबहुला' इति समस्तपाठे तु समासैर्बहुलेति घटनाविशेषणमवधेयम् । औद्धत्यशालिनी उद्धतस्थ भावस्तेन शालते इत्येवंशीला | औद्धत्यशालित्वं च क्वचिद्वर्णवैकल्येन क्वचिदर्थकौटिल्येन सम्भवति । घटना गुम्फः । तस्य निरुक्तलक्षणस्योजस इत्यर्थः । व्यञ्जकताम् । गताः प्राप्ताः । व्यञ्जका इतिमता इति भावः ॥ ३७ ॥ ३८ ॥
अत्रेदं निरुक्तम्- खघछझठढथधफभेत्येते वर्णाः, कगचजटडतदपबेत्येतैर्युक्ता उपरिष्टादधस्तादुभयत्रैव रकारालिङ्गिता वर्णाटसहितौ रकारेण वा परिष्वक्तौ शकारषकारौ समासबाहुल्यं दुःश्रवत्वाधायिका घटना च कारणभूता ओजसोsभिव्यक्तेः । दुःश्रवत्वं च घटनाया नैकटयेन बहुत्र वा संयुक्तानां वर्णानां निवेशात् संहिताऽऽदिना समासादिना वा वैरू ध्यापादनाज्जिह्वामूलीयोपध्मानीययोश्च सम्पर्कात् सम्भवतीति । तथोक्तं पण्डितराजै: - 'नैकटयेन द्वितीयचतुर्थवर्गवर्णटवर्गजिह्वामूलीयोपध्मानीय विसर्गस कार बहुलैर्वणैर्घटितो झय्फान्यतरघटितसंयोगपर हस्वैश्च नैकटयेन प्रयुक्तैरालिङ्गितो दीर्घवृत्यात्मको गुम्फ ओजसः । अस्मिन् पतिताः प्रथमतृतीयवर्गा गुणस्यास्य नानुकूला नापि प्रतिकूलाः संयोगाघटकाचेत् । तास्त्वनुकूला एव । एवमनुस्वारपरसवर्णा अपि ।' इति ।
तत्रोदाहरणमुपस्थापयति-यथेत्यादिना ।
यथा । तचेति शेषः । ' चञ्चद्भुज' - इत्यादौ ।
अत्रेदम्बोद्धव्यम् -'चञ्चद्भुजभ्रमितचण्डगदाऽभिघातसञ्चूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनद्धधनशोणितशोणपाणि हत्तंसयिष्यति कचांस्तव देवि ! भीमः ॥ इतीदं पद्यं षष्ठे परिच्छेदे परिन्यासोदाहरणप्रसङ्गे निवेदितं व्याख्यातं चेति मात्र व्याख्यायते । किन्तु स्फुटं संयुक्ता वर्णाः प्राचुर्य व तेषां समासस्य पुनदर्घत्वमिति व्यक्तमेवौजः । यथा वा हनुम नाटकेऽष्टमे - 'मूर्ध्नामुत्तकृत्ताविरलगलगलद्रक्तसंसक्तधाराधौ ते शाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिनाम् । कैला