________________
परिच्छेदः 1 रुचिराण्यया व्याख्यया समेतः ।
४१ चित्तं व्यामोति यः क्षिप्रं शुष्कन्धनमिवानलः ॥ ३९ ॥
स प्रसादः समस्तेषु रसेषु रचनासु च । व्यानोति आविष्करोति । सोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदोंडुराणां दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत् प्रयासः ॥' इति पद्यम् । असौ च वानरैरावेष्टितां पुरीमवलोकयतस्तद्रक्षणं चापारयतः कुप्यतो राक्षसेन्द्रस्योक्तिः । अर्थः पुनरेतस्य-'उत्तकृत्ताविरलगलगलद्रक्तसंसक्तधाराधौतेशाङघ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नामदत्तं निर्मयादं यत् कृत्तं कर्तनं छेदनमिति यावत, तेनाविरलं गेलात् करण्ठाद्गलन्तो प्रवहन्तो या रक्तसंसक्तधारा तया धौतौ प्रक्षालितौ पूजितौ इति यावद् यौ ईशाङ्घ्री महे. शचरणौ तयोः प्रसादेन प्रसन्नतया कृपयेति यावदुपनतो यो जय उत्कर्षस्तेन जगति जातो मिथ्या महिमा येषां तेषामित्यर्थः । एषामेतेषाम् । मनी मस्तकानाम् । च पुनः एषाम्-कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदपोद्धराणां कैलासस्य पर्वतेन्द्रस्योल्लासनमुद्घाटनं तत्र तस्य वा या इच्छा तस्या व्यतिकर अधिकत्वं तस्य पिशुनाः सूचकास्तादृशा ये उत्सर्पिणोत्कटेन दर्पणोद्धरा दृढास्तेषाम् । दोष्णां: भुजानाम् । इहास्मिन् वानरापादानके इति यावत् । नगरीरक्षणे । यत् । प्रयासः । तद्-एतदेवेति शेषः । किम् । फलम् ।' इति । ननु नगरीरक्षणे प्रयासो भुजानामेव भवितुमर्हति न पुनर्मूमिति न स्या 'मी' मित्युपात्तं पदम् । इति चेन्न । तथाभूतानां मूर्धा तथाभूतोत्कटक्लेशसोढ़तयाऽलौकिकशौर्यव्यञ्जकत्वान । अत्र चानेकानेके: संयुक्ता वर्णाः समासदैय तादृशवर्णनपरतया चावटितौद्धत्यसम्पन्ना घटना च स्फुटमोजो व्यञ्जयन्ति । इति ।
अथ समस्तानां काव्यानां जीवनभूतं प्रसादं स्वरूपतो निर्दिशति-४१ चित्तमित्यादिना ।
४१ अनलः पावकः । 'कृशानुः पावकोऽनलः ।' इत्यमरः । शुष्कन्धनं शुष्कं यदिन्धनं तत् । तत्रैव झटिल्यग्नेः प्रसारसम्भवात् । इव । इदं सामान्यन, विशेषेण तु 'जलौघो विमलं वसनमिवेत्यभिधातुमुचितम् । अत एव प्रकाशकारैः 'शुल्केन्धनामिवत् खच्छजलवत्सहरीव यः । इति 'यदा वीररौद्रादिषु । यदा झारकरणादिषु तदा खच्छजलवदिति तु तद्याख्याकारैरुक्तम् । यः । 'येन हि रसश्चित्तं व्याप्नोती'ति वक्तव्ये करणभूतस्यापि गुणस्य 'य' इति निर्देशः खातन्त्र्यविवक्षया। अन्यथा रसमात्रधर्मत्वेऽपि वक्ष्यमाणेन प्रकारेण रचनामात्रेष्वप्यवस्थानस्यानिष्पत्तिः स्यादिति बोध्यम् । चित्तम । क्षिप्रं झटिति । व्याप्नोत्याविशति । सः । समस्तेषु । रसेषु । आधेयतयेति शेषः । च । समस्ताखिति शेषः । रचनास। व्यङ्गयतयेति शेषः । प्रसादः । सम्भवतीति शेषः ॥ ३९॥
अत्रायम्भावः-येन हि व्याथानामास्वाद्यत्वं सोऽयं प्रसादो नाम गुणः । एनमेव समस्तेषु रसेषु समस्तासु च रचनासु विराजमानमाहुः । नहि रसो रचना वा काचित् प्रसादमन्तरा यस्य यस्या वा कमनीयत्वम् । न चौजोमाधुर्ययोरिवैतस्य तयोरन्यतरेण सममेकाधिकरणत्वं व्याहन्यते । सर्वत्र तस्य साधारण्यात् । अत एव शुष्के इन्धनेऽग्नेरिव विमले वसने च जलौघस्येव चेतस्येतस्यापि व्यापकत्वम् । शुष्कत्वं विमलत्वं च तयोर्व्याप्योपयोगित्वमभिधातुम् , एवं च-सहृदयस्यैव सामाजिकस्य चेतसि स्फुरति नान्यत्रायमित्यभिहितम् । वीरबीभत्सरौद्रेषु, सति शुष्कन्धनेऽग्नरिव चेतसि व्याप्तिरेतस्य शृङ्गारकरुणशान्तेषु विमलवसने जलौघस्येव । अन्यत्राप्येवं यत्र माधुर्य तत्र विमलवसने जलौघस्येव यत्र पुनरोजस्तत्र शुष्कन्धनेऽग्नरिवास्यापि । व्याप्तिश्च पूर्वत्र संयोगानुकूलो व्यापारः, उत्तरत्र तु विषयान्तरेभ्यो व्यासङ्गनिराकरणेन तस्योज्ज्वलत्वविधायकत्वम् । अत एव 'शुष्कन्धनमिवानलः ।' इत्युक्तम् ।
____ अथानलपक्षे व्यापनं स्फुटं मन्वानो रसादिपक्ष तदर्थ स्फुटयति-व्याप्नोतीति पदस्येति शेषः। आविस्करोती. त्यर्थ इति शेषः । इति।
यथोक्तं तर्कवागीशैः-'अनलपक्षे व्यापनं संयोगानुकूलो व्यापारः । गुणपक्षे त्वाह-व्याप्नोतीति । आविष्करोति व्यासङ्गनिराकरणेन निर्मलं करोति' । इति ।