________________
१००
साहित्यदर्पणः ।
४२ शब्दास्तद्वयञ्जका अर्थ-बोधकाः श्रुतिमात्रतः ॥ ४० ॥
यथा - ' सूचीमुखेन सकृदेवकृतव्रणस्त्वं मुक्ताकलाप ! लुठसि स्तनयोः प्रियायाः । airः स्मरस्य शतशो विनिकृत्तमर्मा स्वप्नेऽपि तां कथमन विलोकयामि ॥ ६३ ॥” ४३ एषां शब्दगुणत्वं च गुणवृत्त्योच्यते बुधैः ।
शरीरस्य शौर्यादिगुणयोग इव इति शेषः ।
( अष्टम:
४४ श्लेषः समाधिरोदार्थ प्रसाद इति ये पुनः ॥ ४१ ॥
अस्य व्यञ्जकानाह - ४२ शब्दा इत्यादिना ।
४२ श्रुतिमात्रतः श्रुतिः श्रवणमेवेति तस्मात् । अर्थबोधका अर्थस्य वाच्यस्य लक्ष्यस्य व्यङ्गयस्य वा बोधका अभिमतानुकूल्येन प्रत्यायकाः । अत्र त्रिविधस्यैवार्थस्य सङ्ग्रहाय बोधका इत्युक्तम् । शब्दा वाचका लक्षका व्यञ्जका । तद्व्यञ्जकास्तस्य निरुक्तलक्षणस्य प्रसादाभिधेयस्य गुणस्येति यावद् व्यञ्जका अनुग्राहकाः । भवन्तीति शेषः ॥ ४० ॥ उदाहरति-यथा' सूचीमुखेनेत्यादिना ।
'मुक्ताकलाप ! मुक्तानां मौक्तिकानां कलापो गुच्छस्तत्सम्बुद्धौ । हारेति भावः । सकृत् । एव न तु पुनरपि । सूमुखेन सूच्यभागेन । कृतव्रणो विद्धः । त्वम् । तत एव निवृत्तसमस्तप्रत्यवाय इति भावः । प्रियायाः । यत्र क्वापि विराजमानायाः । स्तनयोः । लुठसि न तु विलोकनाद्यैव करोषि । पुनः - अहम् । स्मरस्य स्मरणमात्रेण प्रभवतो मनसिजस्य कन्दर्पदेवस्म । बाणैर्नतु सूच्यादिनैव । शतशोऽनेकशतावृत्त्या । विनिकृत्तमर्मा विनिकृत्तानि नितरां कृतितानि मर्माणि यस्य सः । अहम् । नतु अभ्यः । तां यस्याः स्तनोपरि यत्र क्वापि नितरां विराजसे न वन्याम् । कथम् | केन हेतुना । स्वप्ने । अपि कुतः पुनरन्यदा । न । विलोकयामि व पुनर्लुठनमिति को नाम मदीयः प्रत्यवायस्तत्र प्रतिबन्धको येन स्वप्नेऽपि तद्दर्शनमात्र सौभाग्यमपि निरुद्धमिति त्वमेव सुकृतित्वेन वणयोपदिशेति वा ।' पद्यमिदं श्रीकृष्णानन्दविरंचिते सहृदयानन्दे द्विती । वसन्ततिलं छन्दः । लक्षणं चोक्तं प्राक् ॥६३॥
नन्वेषां रसवर्त्तित्वे कथमिव पुनर्वामनादिभिः 'ये खलु शब्दार्थयोर्धर्माः काव्यशोभां कुर्वन्ति ते गुणाः ।' इति शब्दार्थधर्मत्वं स्वीकृतमित्याशङ्कयोपचारादित्युत्तरमवतारयति - ४३ एषामित्यादिना ।
४३ च पुनः । बुधैर्विद्वद्भिः ( कर्तृभिः ) । गुणवृत्त्योपचारेण ( हेतुना ) । एषां गुणानाम् । शब्दगुणत्वम् । अत्रार्थस्याप्युपलक्षकः 'शब्द 'शब्दः । तेन शब्दगुणत्वमर्थगुणत्वं चेति निष्कृष्टोऽर्थः । (कर्म) । उच्यते नतु तथाऽङ्गीक्रियते । नचायमुपचारो दृष्टचर इति शङ्कनीयमित्याह - 'शरीरस्येत्यादि ।
'शौर्यादिगुणयोगः शौर्यौदार्यादीनां गुणानां योगः सम्बन्ध इत्यर्थः । शरीरस्याकारस्येति यावत् । इव ।' इति । शेषोऽध्याहृत्य कारिकया संयोक्तव्य इति भावः । तथा च - यथा शौर्यादयो गुणा आत्ममात्रधर्मा अपि शरीरसम्बन्धित्वेनापि उपचारवशादुपकल्प्यन्ते व्यवह्रियन्ते च तथा माधुर्यादयो रसमान्त्रवर्त्तिनोऽपि शब्दार्थधर्मत्वेनोपकहृप्यन्ते व्यवह्रियन्ते च । इति निष्कृष्टोऽर्थः । इदमपरमवसेयम् - शौर्यादीनां शरीरेण परम्परासम्बन्धः स्वसमवाय्यात्मावच्छेदकत्वम् । ननु गुणानां रसवृत्तित्वस्य निरुक्त परम्परासम्बन्धस्य च कल्पने गौरवमिति शब्दार्थवृत्तित्वमेवैषां कल्पनोयमितिचेन्न । क्वचिन्नीरसे काव्ये गुणाभिव्यञ्जकयोः शब्दार्थयोः सत्त्वेऽपि माधुर्याद्यनुपलम्भात्, क्वचित् पुनर्गुणाभिव्यञ्जकशब्दार्थवत्त्वाभावेऽपि रसवशादेव गुणसम्भवोपपत्ते रसान्वयव्यतिरेकानुविधायित्वेन रसवृत्तित्वकल्पनाया अतिरोहितत्वात् । इति ।
मनु भवता त्रय एव गुणा अङ्गीकृताः, वामनादिभिः पुनरधिका इत्याशङ्कयाह - ४४ श्लेषइत्यादि । ४४ चिरन्तनैः प्राचीनैर्वामनादिभिरिति यावत् । ' सायंचिरंप्राहेप्रगे ऽव्ययेभ्यष्टयुट घुलौ तुटू च । ४ । ३ । २३ ।