________________
परिच्छदः ]
चिराख्यया व्याख्यया समेतः ।
गुणाश्चिरन्तनैरुक्ताः ओजस्यन्तर्भवन्ति ते ।
ओजसि भक्त्या ओजःपदवाच्ये शब्दधर्मविशेषे । तत्र - श्लेषो बहूनामपि पदानामेकपदव द्भाबनात्मा ।
१०१
यथा--' उन्मज्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धताः सर्वाः पर्वतकन्दरोदर भुवः कुर्वन् प्रतिध्वनिनीः । उच्चैरुच्चरति ध्वनिः श्रुतिपथोत्माथी यथाऽयं तथा प्रायः प्रेङ्खदसङ्खयशङ्खधवला वेलेयमुद्गच्छति ॥ ६४ ॥ "
ये । शब्दगता इति शेषः । श्लेषः । समाधिः । औदार्यम् । पुनः । प्रसादः । इति इत्येवमभिधेयाः । गुणाः । उक्ताः । ते शब्दगता गुणाः । ओजखि तत्पदवाच्ये गुणे | अन्तर्भवन्ति गतार्थं भवन्ति । तदेकतराङ्गीकारेण तेषामङ्गीकारस्य व्यर्थत्वात् ॥ ४१ ॥
ओजश्चत्तस्य विस्ताररूपं दीप्तत्वमित्युक्ते ओजसि श्लेषादीनामन्तर्भावासम्भवात्तत्पदवाच्यमाह - ओजसीत्यादि । भक्त्या गुणवृत्त्या लक्षणयेति यावत् । ओजसि । ओजः पदवाच्ये । शब्दधर्मविशेषे शब्दस्य धर्मविशेषो बन्ध गाढत्वात्मा तत्र । तदभिव्यञ्जकवर्णादिषु । श्लेषादयोऽन्तर्भवन्तीति पूर्वेणान्वयः । इतिभावः ॥
अत्रेदमभिहितम्-व्यवहारप्रवृत्तिर्हि द्वेधा औपचारिका वास्तविका च । तत्र - ' अयो दहति' इत्यादौ 'पश्यास्य बाह्वोर्बलम् ।' इत्यादौ च दाहकत्ववीर्यवत्त्वादिव्यवहारप्रवृत्तिर्यथौपचारिकेति विद्वांसः, वास्तविकेति भ्रान्ताः स्वीकुर्वन्ति । तथैव 'मधुरः शब्दः मधुरोऽर्थः, मधुरेयं रचना, उद्धतः शब्दः, उद्धतोऽयमर्थः, उद्धता पुनरसौ रचना ।' इत्यादौ माधुर्यादिसम्बन्धिनी । अस्तु भ्रान्तानां चर्चा, किन्तु विदुषां विवारेण यथा वहात्माद्यभावे ' अयोदहती'त्यादौ 'पश्यास्य बाह्वोर्बलम्' इत्यादौ च दाहकत्ववीर्यवत्त्वादर्शनाद् वद्यात्मादिसत्त्वे च तत्रतत्र दाहकत्ववीर्यवत्त्वादिदर्शनाच्चेत्यन्वयव्यतिरेकानुविधायिनौपचारिकेत्यसौ निर्णीयते व्यवह्रियते च तथा प्रकृतेऽपीति निर्विचिकित्सितम् । अथौपचारिक पक्षे ओजः पदवाच्ये शब्दधर्मविशेषे श्लेषादीनामन्तर्भावः । शब्दघटितानां शब्दघटनाविशेषे एवान्तभांवसम्भवात् । इति । -
- अथ यथातथं श्लेषादीनामोजस्यन्तर्भावं विवक्षुस्तेषां लक्ष्यलक्षणव्यवस्थामपि दर्शयति - तत्रेत्यादिना ।
तत्र शब्दगुणेषु । बहूनाम् । अपि । पदानाम् । एकपदवदेकपदस्येव । ' तत्र तस्यैव । ' ५।१ । ११६ इति वतिः । भासनात्मा भासनं प्रतीतिस्तदेवात्मा यस्य सः । श्लेषः । तथोक्तं वामनेन 'मसृणत्वं श्लेषः ॥ ३।१।११ मसृणत्वं नाम यस्मिन् बहून्यपि पदान्येकवद्भासन्ते ॥' इति ।
उदाहरति यथेत्यादिना ।
यथा
'उन्मज्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धताः उन्मज्जन्त उद्विकसन्तो ये जलकुञ्जरेन्द्रा जलसञ्चारिणो गजेन्द्रा मकरेन्द्रा इति यावत्, यद्वा-उन्मज्जन्तो ये जलकुञ्जरेन्द्राः कुञ्जरेन्द्ररूपाणि साडम्बराणि जलानीति यावद्, इति, तेषां रभसो हर्षो वेगो वेति तस्य तेनेति वा आस्फाल आस्फालनं ताडनजन्यः शब्दविशेषस्तेनोद्धताः । जलस्य कुञ्जरेन्द्रा इति, जले कुञ्जरेन्द्रा इति वा । जलान्येव कुञ्जरेन्द्रा इति वा । 'रभशो वेगहर्षयोः ।' इति विश्वः । सर्वाः । पर्वतकन्दरोदर भुवः पर्वतानां कन्दरास्तासामुदराणि मध्यप्रदेशास्तेषां भुवः स्थलानि इति ताः । प्रतिध्वानिनीः प्रतिध्वानः प्रतिध्वनिस्तद्वतीः । कुर्वन् । श्रुतिपथोन्माथी श्रुत्योः कर्णयोः पथो रन्ध्रमिति श्रुतेः श्रवणस्य पथो द्वारमिति वा तस्योन्माथी । 'श्रुतिः श्रोत्रे तथाssनाये वात्तयां श्रोत्रकर्मणि ।' इति विश्वः । ' वाटः पथश्च मार्गश्वे 'ति त्रिकाण्डशेषः । अयमनुभूयमानः । ध्वनिः । यथा । उच्चैः । उच्चरति । तथा । प्रायः प्रेङ्खदसङ्ख्यशङ्खधवला प्रायो वाहुल्येन प्रेङ्खन्त उच्छलन्तो येऽसङ्ख्यशङ्खा इति तैर्धवला । इयम् । वेला । उद्गच्छत्युचैरुत्तिष्ठति । इदं च पयं प्रलयकालीन समुद्रवर्णनपरम् । छन्दचात्र शार्दूलविक्रीडितम् ।
तथा