________________
१०२
साहित्यदर्पणः ।
[ अष्टम:
अयं बन्धबैकट्यात्मकत्वादोज एव । समाधिरारोहावरोहक्रमः । भारोह उत्कर्षः । अवरोहोऽपकर्षः । तयोः क्रमो वैरस्यतानावहो विन्यासः । यथा - ' चञ्चद्भुज-' इत्यादौ । अत्र च पादत्रये क्रमेण बन्धस्य गाढता चतुर्थपादे त्वपकर्षः । तस्यापि तीव्र प्रयत्नोच्चार्यतयौजस्विता उदारता विकटत्वलक्षणा विकटत्वं पदानां नृत्यत्प्रायत्वम् । यथा-
'सुचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झणि ( टि ) ति रणितमासीत्तत्र चित्रं कलं च ।' इति ।
समासवशाद् भिन्नान्यपि पदानि न तथा प्रतिभासन्ते । इति बन्धस्य गाढत्वसम्भवादोज एव ॥ ६४ ॥
तदेवाह - अयं श्लेष उदाहृतपद्यस्थ इति शेषः । बन्धवैकट्यात्मकत्वाद् बन्धस्य गुम्फस्य सन्दर्भस्य वा यद् वैकट विकटत्वं तदेवात्मा स्वरूपं यस्येति तत्त्वात् । ओजः । एव । बन्धगाढमात्रत्वमोज इति स्वेनैव निरूपितत्वान्नात्रास्माकं वक्तव्यान्तरमित्यर्थमेवोपादानमिति बोध्यम् ।
समाधिमन्तर्भावयितुं तत्स्वरूपमाह - समाधिरित्यादिना ।
आरोहावरोहक्रम आरोहावरोहयो बन्धगाढत्वा गाढत्वयोः क्रमो विन्यासविशेष इति तथोक्तः । समाधिस्तदभिधेयो युष्मन्मते शब्दगतो गुण इति भावः । उक्तं च वामनेन 'आरोहावरोहक्रमः समाधिः ॥ ३ । १।१३ इति ।
आरोहावरोहपदार्थमभिदधानस्तत्स्वरूपं निगमयति-आरोह स्तत्पदवाच्यः । उत्कर्षः । स च प्रकृते बन्धस्यैव । अवरोहस्तत्पदवाच्यः । अपकर्षः शैथिल्यम् । तयोरारोहावरोहयोः । क्रमस्तत्पदवाच्यः । वैरस्यतानावहो विरसस्य नीरसस्य सरसताऽभावस्येति यावद् भाव इति वैरस्यं तस्य तानः सन्तानस्तदवहस्तदप्रापकस्तदजनक इति यावत् । वस्तुतस्तु ‘वैरस्यानावहः ।' इत्येव पाठो युक्तः । विन्यासः पदानां निवेशः । समाधिः ।
उदाहरति-यथा- 'चञ्चद्भुज' इत्यादौ ।
1
कथं सङ्घटते इत्याह-च पुनः । अत्र - ' चञ्चद्भुजभ्रमितचण्डगदाऽभिघात संचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनद्धघनशोणितशोणपाणि - रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥' इत्युदाहृते पद्ये इत्यर्थः पादत्रये ‘शोणपाणि' रित्यन्तम् । क्रमेण । बन्धस्य गुम्फस्य । गाढता शैथिल्याभाव इत्यारोहः । चतुर्थपादे 'उत्तंसयिष्यती' त्याद्यात्मके । तु । तस्य बन्धस्य । अपकर्षोऽवरोहः । तादृशारोद्दस्याप्रतीतेः । च । तस्य । चतुर्थपादस्यापकर्षापरपर्यायस्यावरोहस्य । अपि । तीव्रप्रयत्नोच्चार्यतया । ओजस्विता । गाढतेति भावः । अतस्त्वन्मतेनौजसि, अस्मन्मतेन तु तद्वयंजकवर्णादौ समाथेरपि युक्त एवान्तर्भावः । औदार्य निर्दिशति - विकटत्वलक्षणा विकटकत्वस्वरूपा । उदारता । ननु किं नाम विकटत्वमित्याह - विकटत्वं नाम | पदानाम् । नृत्यत्प्रायत्वम् । उक्तं च वामनेन 'विकटत्वमुदारता । ३।१।२३ बन्धस्य विकटत्वं यदसावुदारता । यस्मिन् सति नृत्यन्तीव पदानि ।' इति ।
उदाहरति-यथा। ‘तत्र नृत्याङ्गणे । नर्तकीनां नर्त्तनकारिणीनाम् । स्त्रियामिति शेषः । सुचरणविनिविष्टेः मुचरणेषु विनिविष्टानि लग्नानि सङ्गतानीति यावत् तैः । नूपुरैः पादाङ्गदै: 'नेवरी'ति प्रसिद्धैराभूषणैः । झणिति । 'झण्' इति तेषां शब्दानुकरणम् । क्वचित् ' झटितीत्यपि पाठः । तत्र - शीघ्रमित्यर्थः । च । कलं मनोरमं भवणं यथा भवेत्तथा । रणितं ध्वनिः । आसीत् । इति-चित्रमाश्चर्यम् । यद्वा- 'चित्र' मिति 'रणित' मिति योज्यम् । तत्र-'विचित्र' मित्यर्थः । पद्यार्द्धमिदं 'वामनरचित एव 'काव्यालङ्कारसूत्रे | मालिनी चात्र छन्दः । उक्तं च तलक्षणं प्राक् ।
१ स्थूलदृशेदमभिहितम् । सूक्ष्मदृशा तु 'सञ्चूर्णिते 'त्यन्तमारोहः 'सुयोधनस्ये 'त्यन्तं पुन 'स्तवान्त' मारोहः तत् पुनरवरोहः । इति ।