________________
१०३
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः। अत्र च तन्मतानुसारेण रसानुसन्धानमन्तरेणैव शब्दप्रौढिमात्रेणौजः । प्रसाद ओजोमिश्रितशैथिल्यात्मा । यथा'यो.यः शस्त्रं बिभर्ति स्वभुजगुरुमदा पाण्डवीनां चमूनाम् ।' इति ।
४५ माधुर्यव्यञ्जकत्वं य-दसमासस्य दर्शितम् ॥ ४२ ॥
पृथक्पदत्वं माधुर्यं तेनैवाङ्गीकृतं पुनः। यथा-'श्वासान् मुश्चति-' इत्यादि।
ननु कथमत्रौजो रसस्यासम्भवादित्यत आह-अवचेत्यादि ।
अत्र उदाहते नीरसे पद्यार्धे । च पुनः । तन्मतानुसारेण । रसानुलधान रसस्यानुसन्धान गवेषणमिति तत् । 'अन्तराऽन्तरेण युक्ते ॥' २।३।४ इति द्वितीया ॥ रससद्भावपर्यालोचनमित्यर्थः । अन्तरेण विना । उपेक्ष्येति भावः । एव । वामनस्य दुर्घहिलतावशादिति शेषः । शब्दप्रौढिमात्रेण शब्दानां प्रौढिराडम्बरानुकूलो यत्नस्तन्मात्रेण। ओजः । वस्तुतस्तु नात्रौजः किन्तु तद्व्यञ्जकवाँडम्बरः । अतोऽत्रैवैतादृशस्य गुणस्यापि पर्यवसानमवसेयम् । यक्षानुरूपबलिन्यायेन हि कल्पितस्यास्यौदार्यगुणस्यापि भवेदनुरूपे कल्पिते एवौजस्यन्तर्भाव इति युक्तमिति भावः ।
अथ प्रसादस्यापि गुणस्यौजस्यन्तर्भाव विवक्षुस्तत्स्वरूपं प्रथममाह-प्रसाद इत्यादिना ।
ओजोमिश्रितशैथिल्यात्मौजसा गाढत्वेन मिश्रितमुपसर्जनीभूतं यच्छैथिल्यं बन्धगाढत्वाभावस्तदेवात्मा स्वरूप यस्य सः । यत्र-हि बन्धस्य गाढत्वं शैथिल्यं च तथाभूत इत्यर्थः । प्रसादः । उक्तं च वामनेन 'शथित्य प्रसादः ॥ ३॥१॥५॥००० नन्वयमोजोविपर्ययात्मा, तत् कथं गुण इत्याह-गुणः संप्लवात् ॥ ३ । १ । ७ गुणः प्रसादः । ओजसा सह संप्लवात् ( संमिश्रणात् ) । न शुद्धः ॥ ३।१।८' इति ।
उदाहरति-यथा-'योयः शस्त्रं विभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनाम् ।' इति ।
अत्रायम्भाव:-'यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां,योयः पाचालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । योयस्तत्कर्मसाक्षी, चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्॥' इति वेणीसंहारतृतीयाङ्कगतमिदं पद्यमुदाहृतं च षष्ठे परिच्छेदे उदाहरणोदाहरणावसरे । व्याख्यातं च तत्रैव । पाञ्चालहतकेनायुध्यमानस्यापि स्वगुरोः कृपाणसात् कृतं मौलिमवधार्य कुपितस्याश्वत्थाम्न उक्तिः । अथ-'योयः' इति शैथिल्यम्, 'शस्त्र'मित्योजक, 'बिभती'ति शैथिल्यम्, 'पाण्डवीना मिति पुनरोजः 'योय' इति शैथिल्यम्, 'गोत्रे' इत्योजः पुनः शैथिल्यमिति अत्र शैथिल्यं प्रधानं दोषपरिहारार्थमोजः पुनर्गुणीभूतम् । तदपि तीव्रप्रयत्नोच्चार्याणां वर्णाना. माधिक्यात् समुचित एवौ जोव्यञ्जकवर्णेष्वस्यान्तर्भावः ।
अथ माधुर्यं नाम गुणान्तरं माङ्गीकर्तव्यमित्याह-४५ माधुर्यव्यञ्जकत्वमित्यादिना ।
४५ यत् । असमासस्य समासाभावस्य । माधुर्यव्यञ्जकत्वं माधुर्यस्य व्यञ्जक इति तत्त्वम् । दर्शितम् । 'अवृत्तिरल्पवृत्तिर्वा ।' इत्यनेनेति शेषः । तेन दर्शितेनासमासस्य माधुर्यव्यञ्जकत्वेनेति यावत । समासाभावस्य माधुर्यव्यअकत्वप्रदर्शनेनेति भावः । एव । पथक्पदत्वं पृथक्पृथग्भूतानि विभिन्नानीति यावत् पदानि यत्र तत्त्वम् । माधुर्यम् । अङ्गीकृतम् । इयानेवात्र भेदः-अस्मन्मतेन केवलं समासाभावस्य माधुर्यव्यञ्जकत्वं, त्वन्मते च तन्मात्रस्यापीति माधुर्यस्य यथातथं व्यञ्जके समासाभावे एव त्वन्मतेनैवोपष्टब्धं पृथकूपदत्वं माधुर्यमन्तर्भूतमिति मन्तव्यमिति भावः । अस्य लक्षणं चोक्तं वामनेन 'पृथक्पदत्वं माधुर्यम् ॥ ३।१।२१॥' इति । ___किं तत्रोदाहरणमित्याह-यथा-श्वासात् मुश्चति...' इत्यादि । उदाहरणमिति शेषः ।
अत्रेदमुक्तम्-'श्वासान् मुञ्चति, भूतले विलुठति त्वन्मार्गमालोकते दीर्घ रोदिति, विक्षिपत्यत इतः क्षामां भुज - वल्लरीम् । किञ्च प्राणस मान ! काङ्कितवती खप्नेऽपि ते सङ्गमं निद्रां वाञ्छति, न प्रयच्छति पुनर्दग्धो विधिस्तामपि ॥'