________________
१०४ साहित्यदर्पणः।
[अष्टमः४६ अर्थव्यक्तः प्रसादाख्य-गुणेनैव परिग्रहः ॥१५॥
अर्थव्यक्तिः पदानां हि झटित्यर्थसमर्पणम् । स्पष्टमुदाहरणम् ।
४७ ग्राम्यदुःश्रवतात्यागात् कान्तिश्च सुकुमारता ॥ ४४ ॥ 'अङ्गीकृते'ति सम्बन्धः । कान्तिरौज्ज्वल्यम् । तच्च हालिकादिविन्यासवैपरीत्येनालौकिकशोभाशालित्वम् । सुकुमारताऽपारुष्यम् । अनयोरुदाहरणे स्पष्टे ।
इतीदं पद्य तृतीये परिच्छेदे तपनोदाहरणप्रस्तावे उपायनीकृतं व्याख्यातं च पूर्वम् । अत्र प्रायः सर्वाण्येव विभिन्नानि पदानि । इति समासाभावेन माधुर्यव्यञ्जकतयाऽस्यापि तत्रान्तर्भावः । माधुर्यव्यञ्जकस्य समस्तस्य लक्षणस्य चादर्शनान्न प्रकृते माधुर्यम्, किन्त्वेकदेशेन तद्वयञ्जकत्वमात्रमिति ।
अर्थव्यक्तः प्रसादेनैकात्म्यं दर्शयंस्तां गतार्थयति-४६ अर्थव्यक्तरित्यादिना । ४६ प्रसादाख्यगुणेन प्रसाद इत्याख्या यस्य तादृशेन गुणेन । एव अर्थव्यक्तेस्तदभिधेयस्य वामनेनाभिमतस्य पेति भावः । परिग्रह एकतरस्वीकारेऽन्यस्यापि स्वतः स्वीकारात् । हि यतः । पदानाम् । झटिति त्वरितम् । अर्थसमर्पणम् । अर्थव्यक्तिस्तदभिधेयः कल्पितो गुणः । इति ।
उदाहत्तुं प्रवृत्त आह-उदाहरणम् । स्पष्टम् । प्रसादोदाहरणेनैतदुदाहरणस्यं सहाभिन्नत्वादिति नोदाहियत इति भावः।
कान्तिसुकुमारत्वयोर्दोषाभावत्वमात्रमङ्गीकुर्वन्नाह-४७ ग्राम्यदुःश्रवतात्यागादिति ।
४७ ग्राम्यदुःश्रवतात्यागाद ग्राम्यताया दुःश्रवतायाश्च त्यागात् परिहारात् । कान्तिः। च । सुकुमारता । गतार्थ इति शेषः । ग्राम्यत्वदोषपरिहारमात्रा कान्तिः, दुःश्रवत्वदोषपरिहारमात्रा पुनः सुकुमारतेति भावः ।
अत्र 'अङ्गीकृते' त्यध्याहार्यमित्याह-'अङ्गीकृते'ति पदस्येति शेषः । सम्बन्धः पूर्वेणेति शेषः । तथा चप्राम्यत्वदोषत्यागात् कान्तिरङ्गीकृता । दुःश्रवत्वदोषत्यागाच्च सुकुमारताऽङ्गीकृतेति निष्कृष्टोऽर्थः ।
कथमेवमिति तत्स्वरूपमाह-कान्तिरित्यादिना ।
औज्ज्वल्यं बन्धस्येति शेषः । कान्तिस्तदभिधयः शब्दगुण: । च। तदौज्ज्वत्यमित्यर्थः । हालिकादिविन्यासवैपरीत्येन हलं प्रहरणमस्य हलेन खनतीति वा हालिकः, स आदी येषां (प्राम्याणां वालादीनां च ) तेषां पदानि तत्प्रयोज्यानि पदानि तेषां यो विन्यासस्तस्य वैपरीत्यं परिहार इति यावत्तेन । 'हलसीराहक ।' ४।३। १२४ इत्यतः, 'तेन दीव्यति खनति जयति जितम् ।'४ । ४ । २ इत्यतो वा ठकि हालिकः । अलौकिकशोभाशालित्वमलौकिका क्षुद्रलोकासम्भवा या शोभा पदसौन्दर्य तच्छालित्वम् । उक्तं च वामनेन 'औज्ज्वल्य कान्तिः ॥ ३।१।२५ इति, रसगङ्गाधरकारैः पुनः-'अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयोज्यमानेषु पदेषु लोकोत्तरशोभा. रूपमौज्ज्वलं कान्तिः।' इति विवृतम् । अथ-अपारुष्यं बन्धस्येति शेषः । पदानां परुषत्वपरिहारेण सङ्घटनमित्यर्थः । सुकुमारता । उक्तं च वामनेन-'अजरठत्वं सौकुमार्यम् ॥ ३ । १ । २२' इति ।
हालिकादिपदविन्यासो ग्राम्यत्वं नाम दोषः, तत्परिहारः पुनः कान्तिः तथा जरठ (परुष) त्वावहत्वेन श्रुतिकटुत्वं दुःश्रवत्वं नाम दोषः, तत्परिहारः पुनः सौकुमार्यम् । इति ग्राम्यत्वपरिहारमात्रेण कान्तेर्दुःश्रयत्वपरिहारमात्रेण पुनः सौकौमार्यस्य गतार्थत्वानोदाहार्ये इत्यभिप्रेत्याह-अनयोः कान्तिसौकौमार्ययोः । उदाहरणे। स्पष्टे । 'कामान्धमनुसर्पन्तं गां जवाद् वृषभं यथा । त्वां स्थूललोचने तद्वत् पश्येमां कष्टभोगिनम् ॥' इत्यत्र ग्राम्यत्वम्, 'अयि कमलाय. तनयने ! सफलय निजलोचनेन जनम् । मदनमहीपतिकरदीकृतमादृशमोक्षदान यदा॥' इत्यत्र पुनर्माम्यत्वपरिहार