________________
साहित्यदर्पणः ।
। सप्तमः३० विरोधिनोऽपि स्मरणे साम्येन वचनेऽपि वा।
भवेद्विरोधो नान्योऽन्यमङ्गिन्यङ्गत्वमाप्तयोः ॥ ३० ॥ क्रमेण यथा-'अयं स रसनोत्कर्षी...' इत्यादौ आलम्बनविच्छेदे रतेररसात्मतया स्मर्यमाणानां तदङ्गानां शोकोद्दीपकतया करुणानुकूलता। .
"सरागया स्तुतधनधर्मतोयया कराहतिध्वनितपृथूरुपीठया । मुहुर्मुहुर्दशनविलधितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ॥ ५८ ॥" इत्यत्र सम्भोगशृङ्गारो वर्णनीयवीरव्यभिचारिणः क्रोधस्यानुभावलाम्येन विवक्षितः ।
"एकं ध्याननिमीलनान्मुकुलितप्राय द्वितीय पुनः पार्वत्या वदनाम्बुजस्तनभरे सम्भोगभावालसम् ।
इत्यत्र पूर्वार्द्ध शृङ्गारस्य, परार्दै शान्तस्य विभावः । अनयोर्विरोधेऽपि पूर्वार्द्धस्य बाध्यतयोक्तत्वान्न दोषत्वम् । अपि तु परार्द्धस्य परिपोषाद्गुणत्वम् । अनुभावानां बाध्यत्वेनोक्तौ गुणत्वं तृह्यम् । नच-“पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोग सखि ! हृदन्तः॥” इत्युदाहार्य्यम् । यद्यपि-अत्र पाण्डुत्वादीनां रोगानुभावत्वेन विरुद्धत्वेऽपि विप्रलम्भेऽध्यारोपादत्वप्राप्त्या निर्दुष्टत्वम् इति वक्तुं शक्यते, तथाऽपि तेषामुभयसाधारण्याद्विरुद्धत्वस्यैवासिद्धेः ।
विरुद्धयोईयोरेकत्र समावेशे विषयविभागवशेन प्रतिप्रसवमाह-३० विरोधिन इत्यादिना ।
३०विरोधिनो विरुद्धस्य रसस्य । अपि। स्मरणे पूर्वानुभुतस्य व्यजनयाऽवगमे । साम्येन । वचने । अपि । वा। अङ्गिनि प्रधाने । अङ्गत्वं गौणत्वम् । आप्तयोः प्राप्तयोः । अन्योऽन्यम् ।विरोधः । न । भवेत् ॥ ३०॥
उदाहरति-क्रमेण यथा। "अयं स" इत्यादिना । व्याख्यातपूर्वमिदं पद्यम् । ननु कथमिह लक्षणसमन्वय इत्याशङ्कयाह-इत्यादौ । आलम्बनविच्छेदे आलम्बनस्य भूरिश्रवसो विच्छेदो विरहस्तस्मिन् सतीत्यर्थः । रतेः । अरसात्मतयाऽनास्वाद्यतया । स्मयमाणामाम्। तदङ्गानां रत्यङ्गानामनुभावानाम् । शोकोद्दीपकतया। करुणाऽनुकूलता । एतेन-शृङ्गारस्यापि स्मरणमवधेयम्, अत एव प्रकाशकारा अप्याहुः-'अत्र पूर्वावस्थास्मरण भृङ्गाराङ्गमपि करुणं परिपोषयति ।' इति ।
साम्येन विरोधपरिहारमुदाहरति “सरागया रागेण मुखलौहित्यजनकत्वेनानुरागेण वा सह वर्तते इति तया तथोतया। वृतघनघर्मतोयया खुतं धनं धर्मातोयं तापव्यञ्जकं मलं यया तया ( क्रोधोद्रेके सुरतान्ते श्रमेण च स्वेदोद्गमः स्वतः सिद्धः)। कराहतिध्वनितप्रथूरुपीठया कराघातेन ध्वनितं पृथूरुपीठं यत्र,पृथूरुरेव पीठं वा ययेति तया (क्रोधे सति वीरैरूहः पीठं च,सुरतोत्सुकाभिरूरुश्चाहन्यते इति खभावः कामशास्त्रं च)। मुहुर्मुहुः । दशनविल धितोष्ठया दशनैः खरदैः कान्तरदैर्वा विलघितो निपीडित ओष्ठो यत्र यस्या वा तया ।रुषा । प्रियतमयेव । नृपाः (कर्म) भेजिरे । वंशस्थविलं छन्दस्तल्लक्षणं चोक प्राक् ॥ ५८॥"
उदाहृते पद्ये विरोधपरिहारं दर्शयति-इत्यत्र । सम्भोगशृङ्गारः। वर्णनीयवीरव्यभिचारिणः । क्रोधस्य। अनुभावगम्येन । विवक्षितः। अयम्भावः-सरागत्वाद्यनुभावानां रतावपि सम्भवाद्रुषो न झटिति प्रत्ययः, तस्मात् तस्याः खशब्दोपादानं युक्तम्, प्रकरणादुत्साहस्यास्वाद्यमानत्वेन वीरत्वं, स्थायिनः क्रोधस्य च खशब्देनोपादानात् आस्वादाभावेन न रौद्रत्वम्, किन्तु-रौद्रस्य स्थायी भावः स्वशब्देनोपात्तो वीरस्य व्यभिचारी सन् सम्भोगशृङ्गारस्य स्वानुभावसाम्येन साम्यमावहति । इति ।
एकस्मिन्नत्वं गतानां रसानां समावेशमुदाहरति-"एकम् 'नेत्र'मिति शेषः । ध्याननिमीलनात् ध्यानेन निमीलनं तस्मात् तं प्राप्य । मुकुलितप्राय मुकुलितसदृशम् । द्वितीयम् 'नेत्रमिति शेषः । पुनः। पार्वत्यास्तदाख्यायाः स्वप्रेयस्याः । वदनाम्बुजस्तनभरे वदनाम्बुजं च स्तनभरच इत्यनयोः समाहारस्तत्र तथोक्ते । सम्भोग