________________
परिच्छेदः ।
रुचिराख्यया व्याख्या समेतः। २८ क्वचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः ॥ २८॥ .
अनुभावविभावाभ्यां रचना यत्र नोचिता। यत्रानुभावविभावमुखेन प्रतिपादने विशदप्रतीतिर्नास्ति, यत्र च विभावानुभावकृतपुष्टिराहित्यमेवानुगुणं; तत्र व्यभिचारिणः स्वशब्देनोक्तौ न दोषः । यथा
"औत्सुक्येन कृतत्वरा, सहभुवा व्यावर्तमाना हिया तैस्तै बन्धुवधूजनस्य वचनैर्नीताऽभिमुख्य पुनः । दृष्वाऽने वरमात्तसाध्वसरसा गौरी नवे सङ्गमे
संरोहत्पुलका हरेण हसताऽऽश्लिष्टा शिवायास्तु वः॥५७॥" इत्यत्रौत्सुक्यस्य त्वरारूपानुभावमुखेन प्रतिपादने सङ्गमे न झटिति प्रतीतिः, त्वराया भयादिनाऽपि सम्भवात्, द्वियोऽनुभावस्य च व्यावर्त्तमानस्य कोपादिनाऽपि सम्भवात् साध्वसहासयोस्तु विभावादिपरिपोषकस्य प्रकृतरसप्रतिकूलप्रायत्वात् इत्येषां स्वशन्दाभिधानमेव न्याय्यम् ।।
२९ सञ्चार्यादेविरुद्धस्य बाध्यत्वेन वचो गुणः ॥ २९ ॥ यथा-'काकार्य....' इत्यादौ प्रशमाङ्गानां वितर्कमतिशङ्काधृतीनामभिलाषाऽङ्गमैत्सुक्यस्मृ. तिदैन्यचिन्ताभिस्तिरस्कार, पर्यन्ते चिन्ताप्रधानमास्वादप्रकर्षमाविर्भावयति ।
व्यभिचारिणः स्वशब्दवाच्यत्वे तददुष्टत्वमाह-२८ क्वचिदित्यादिना ।
२८ यत्र । अनुभावविभावाभ्याम् । रचना व्यञ्जनम् । न । उचिता । 'तत्रे'ति शेषः । क्वचित् व्यभिचारिणः । स्वशब्देन । उक्तौ । न । दोषः ॥२८॥
तदेव विवृणोति-यत्र । अनुभावविभावमुखेनानुभावद्वारा विभावद्वारा वेति भावः । 'व्यभिचारिण' इति शेषः । प्रतिपादने व्यञ्जने । विशदप्रतीतिः सम्यक् स्फुरणम् । न । अस्ति । यत्र । च। विभावानुभावकृ तपुष्टिराहित्य विभावानुभावाभ्यां कृता या पुष्टिस्तस्या राहित्यम् । एव । अनुगुणं युक्तम् । तत्र । व्यभिचारिणः। स्वशब्देन । उक्तौ। न । दोषः।। - उदाहरति-यथा-"औत्सुक्येन (दयितसमीपगमने ) उत्कण्ठया । कृतत्वरा कृता त्वरा सहसा गमनारम्भो यया तथाभूता । सहभुवा सहजया। द्विया लज्जयाव्यावर्त्तमाना परावर्तमाना । बन्धुवधूजनस्य बन्नुरूपस्य वधूजनस्य (प्रमदाजनस्य सखीजनस्य) कुबेरादिदेवानामङ्गनाजनस्येति भावः । तेस्तैः 'तत्कालोचितैरिति शेषः । वचनैः। पुनः। आभिमुख्यं साम्मुख्यम् । नीता प्रापिता । तथा-अग्रे । वरं कान्तं "दिगम्बरं व्याघ्रचर्माम्बरं ध्यक्षं कपर्दिन'मित्यादिविशेषणविशेषितं शङ्करमिति यावत् । दृष्ट्रा । आत्तसावसरसाऽऽत्तः साध्वसरसो भयोद्रेको यया तादृशी। नवेऽभिनवे । सङ्गमे। संरोहत्पुलकोद्गच्छद्रोमाञ्चा । हसता । हरेण । माश्लिष्टा । गौरी । यो युष्माकम् । शिवाय । अस्तु । रत्नावल्याः पद्यमिदम् । शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं च प्रागुक्तम्॥५७॥
ननु कस्य कथनानुभावद्वारा प्रतिपादने समुत्कर्ष इत्याशंक्याह-इत्यत्रेत्यादि । स्पष्टोऽर्थः । परिपन्थिविभावादिसङ्ग्रहस्यादोषत्वमाह-२९ सश्चार्यादेरित्यादिना।
२९ विरुद्धस्य प्रकृतरसपरिपन्थिरसाङ्गभूतस्य । सञ्चार्यादेः। आदिनाऽनुभावविभावयोग्रहणम् । बाध्यत्वेन । वचः कथनम् । गुणः। तथा च-खभावतो बाध्यत्वेन कथनं गुण इति सूचितम् ॥ २९ ॥
उदाहरति-यथा। "वाकार्य्य"मित्यादिना । व्याख्यातपूर्व पद्यमिदम् । नन्विह कस्थ कस्य केन केन बाध्यत्वेन कथनमित्याशङ्कयाह-इत्यादावित्यादि । स्पष्टम् । . यथा वा-"सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किन्तु मत्ताऽङ्गनाऽपाङ्गभङ्गलोलं हि जीवितम् ॥"