________________
-
साहित्यदर्पणः ।
[सप्तमः
यथा-"अन्यास्ता गुणदोषरोहणभुवः.." इत्यादौ । प्रथमार्धेन वाक्यसमाप्तावपि द्वितीयार्धवाक्यं पुनरुपात्तम् । एवं च-विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरातत्वं, न वाक्यान्तरस्यः । इति विज्ञेयम् ।
२६ गर्भितत्वं गुणः कापि यथा-"दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा साऽपि वदन्त एव हि वयं रोमाञ्चिताः पश्यत । विप्राय प्रतिपाद्यले किमपरं रामाय तस्मै नमो
यस्मात् प्रादुरभूव कथाऽद्भुतमिदं यत्रैव चास्तं गतम् ॥ ५६ ॥" इत्यत्र 'वदम्त एव' इत्यादिवाक्यं वाक्यान्तरप्रवेशाच्चमत्कारातिशयं पुष्णाति ।
२७ पतत्प्रकर्षता तथा। तथेति-क्वचिद्गुणः। यथा-'चश्चद्भुजभ्रमित...' इत्यादौ चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः ।
उदाहरति-यथा। "अन्यास्ता." (इति च व्याख्यातपूर्व पद्यम् । ) ननु कथमिह तस्य प्रतिप्रसव इत्यत आह-इत्यादावित्यादि । स्पष्टम् । इदं तत्त्वम्-विशेषणस्य पुनरुपादाने प्रतीतिविलम्बे निराकाङ्क्षत्वं च, वाक्यान्तरस्य पुनरुपादाने तदभाव इति, अस्यादुष्टत्वं, चमत्कारातिशयानाधायकत्वाचागुणत्वम् । इति ।
गर्भितत्वस्य गुणत्वमाह-२६ गर्भितत्वमित्यादिना । २६ गर्भितत्वम् । क्वापि चमत्काराधायकस्थल इति भावः । गुणः । 'मत' इति शेषः ।
उदाहरति-यथा-"दिडूमातङ्गघटाविभक्तचतुराघाटा दिङ्मातज्ञा दिग्गजास्तेषां घटा समूहस्तया विभक्ताः परिच्छिन्नाश्चत्वारः आघाटाः सीमा यस्यास्तादृशी। मह। पृथिवी। साध्यते खवशीक्रियते । सा तादृशी मही। सिद्धा। अपि । वदन्तः कथयन्तः । एव । हि । वयम् । रोमाञ्चिताः । इति-पश्यत । नात्र किश्चिदपरोक्षमिति भावः । विप्राय ब्राह्मणाय कश्यपायेति भावः । प्रतिपाद्यते प्रदीयते । किम् । अपरमितरदितोऽधिकं वाच्यमिति यावत् । यस्मात् । इदम् । कथाद्भुतम् । प्रादुरभूत् । यत्र यस्मिन् । एव 'नतु अन्यस्मिन्निति शेषः। च । अस्तम । गतम् । तस्मै । रामाय जमदग्निनन्दनाय । नमः । भट्टप्रभाकरस्येदं पद्यम् । शार्दूलविक्रीडितं वृत्त, तत्तल्लणं बोक्त प्राक् ॥ ५६ ॥
- ननु किं वाक्यमिह गर्भितं गुण इत्याशङ्क्याह-इत्यत्र । 'वदन्त एव' इत्यादिवाक्यम् । वाक्यान्तरप्रव. शात 'सिद्धा साऽपि विप्राय प्रतिपाद्यते' इति वाक्यान्तः प्रवेशस्तस्मात् । चमत्कारातिशयम् अभिधेयार्थस्य युद्धचीरदानवीरपर्यवसायितयाऽतिशयितं चमत्कारम् । पुष्णाति । तथा चन तेन तुल्यो योद्धा, न च तेन समो दानी भूतो, भवन, भविष्यन् वेति व्यङ्गयोऽर्थोऽतिशयित इति निष्कर्षः ।
पतत्प्रकर्षताया गुणत्वमाह-२७ पतदित्यादिना। २७ पतत्प्रकर्षता । तथा । 'क्वचिद् गुणः' इति पूर्वतोऽनुवृत्तम् । अन्यत्स्पष्टम् ।
उदाहरति-यथा । "चश्चद्धजभ्रमिते''त्यादिना । व्याख्यातपूर्वमेतत्पद्यम् । ननु कथमिह गुणत्वमित्याहइत्यादौ । चतुर्थपादे। सुकुमारार्थतया द्रौपदीकेशोत्सनरूपस्यार्थस्यानुद्धतत्वेन । शब्दाडम्बरत्यागः । गुणः। इदं बोध्यम्-अभिधेयस्यानुद्धतत्वेन तथा पतत्प्रकर्षों युक्त इति-अस्यादुष्टत्वम् , देव्यां च सौकुमार्यप्रकाशनस्यात्यन्तमुचित स्वंम चास्य गुणस्त्रम् । इति ।