________________
रुचिराख्यया व्याख्यया समेतः ।
तां
विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्त्तिनीं
सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥ ५४ ॥ "
इत्यत्र 'प्रभावपिहिता' इत्यस्य 'भवेत्' इति, अस्य चानन्तरं 'नैतद्यत' इति पदानि न्यूनानि । एषां पदानां न्यूनतायामप्येतद्वाक्यव्यङ्ग्यस्य वितर्काख्यव्यभिचारिभावस्योत्कर्षा करणान्न गुणः । 'दीर्घ न सा' इत्यादिवाक्यजन्यया प्रतिपत्त्या ' तिष्ठे' दित्यादिवाक्यप्रतिपत्तेबधिः स्फुटमेवावभासते इति न दोषः ।
२४ गुणः काप्यधिकं पदम् ।
यथा - " आचरति दुर्जनो यत् सहसा मनसोऽप्यगोचरानर्थान् ।
तन्त्र न जाने जाने स्पृशति मनः किन्तु नैव निष्ठुरताम् ॥ ५५ ॥ " इत्यत्र " न न जाने" इत्यन्ययोगव्यवच्छेदाद्विच्छित्तिविशेषः ।
२५ समाप्तपुनरात्तत्वं न दोषो न गुणः क्वचित् ॥ २७ ॥
परिच्छेद: ]
e?
रक्षस्तां हरेदित्याशङ्कयाह-न च । तामुर्वशीम् । मे मम पुरूरवसो महावीरस्येति भावः । पुरोवर्त्तिनीम् अक्षिगोचरां सतीमिति भावः । हर्त्तुम् । विबुधद्विषो विबुधा देवास्तेषां द्विषः दैत्या राक्षसा वा इति भावः । अपि 'किं पुनरन्ये' इति शेषः । शक्ताः । तर्हि अत्रैव कुत्रचित् स्थिता स्यादित्याह - सा । च । नयनयोः । अत्यन्तम् । अगोचरमविषयम् । याता प्राप्ता । इति । अयम् । कः । विधिः प्रकारः ? पुरूरवस उक्तिरियम् । विक्रमोर्वश्याः पद्यमिदम् । शार्दूलविक्रीडितं वृत्तं तलक्षणं चोक्तं प्राक् ॥ ५४ ॥
न्यूनानि पदानीत्याशङ्कायां तानि दर्शयन् तेषां च लक्ष्यसङ्गत्यर्थं गुणदोषाभावं दर्शयति- इत्यत्र । after' इत्य | पञ्चादिति शेषः । 'भवेत्' इति, अस्य । च पदस्येति शेषः । अनन्तरं पश्चात् 'न । एतत् । 'प्रभा 'युक्त' मिति शेषः । यतः' । इति पदानि । न्यूनानि । एषां न्यूनानाम् । पदानाम् । न्यूनतायाम् । अपि । एतद्वाक्यव्यङ्ग्यस्यैतद्वाक्यं 'तिष्ठेदित्यादि, तद्वयज्ञयस्य । वितर्काख्यव्यभिचारिभावस्य । उत्कर्षकरणात् उत्कर्षो रसस्कृतिस्तस्याकरणं तस्मात् । गुणो गुणस्वरूपत्वम् । न । तर्हि दोषत्वं स्यादित्याह - 'दीर्घ न सा' इत्यादिवाक्यजन्यया । प्रतिपत्त्याऽध्यवसायेन । 'तिष्ठे' दित्यादिवाक्यप्रतिपत्तेः । बोधः । तत्-स्फुटमनायासं सुसिद्धम् । एव । अवभासते । इति । न । दोषो दुष्टत्वम् ।
अधिकपदत्वस्य गुणत्वं क्वचित्सम्भवतीत्याह - २४ गुण इत्यादिना ।
२४ क्वापि । 'रसस्योत्कर्षकत्वे सती 'ति शेषः । अधिकम् । पदम् । गुणः ।
उदाहरति-- यथा-" यत् । दुर्जनः । मनसः । अपि 'किं पुनर्वचस' इति शेषः । अगोचरानर्थान् परोsक्षान् अनर्थान् । आचरति । तत् । 'अह' मिति शेषः । न । जाने । 'इती 'ति शेषः । न । जाने । किन्तु । मनः । निष्ठुरताम् । सहसा । नैव । स्पृशति । आर्याच्छन्दः ॥ ५५ ॥ "
ser | 'न जाने ।' इत्यन्ययोगव्यवच्छेदात् । विच्छित्तिविशेषश्चमत्कारातिशयः । ' अतो जाने इत्यधिकं पदं गुण: ।' इति शेष: । अयम्भावः - 'न न जाने' इत्यनेन 'न जाने' इत्यस्यान्यस्य योगस्य व्यवच्छेद इति । 'जाने' इत्यनेन पुनश्चमत्कारातिशय इति गुणत्वमेवेति । अत्र तर्कवागीशाः - 'अस्य शुद्धोदाहरणं तु " याहि माधव याहि केशव ! मा वद् कैतववादम् । तामनुसर सरसीरुहलोचन ! या तव हरति विषादम् ॥” अत्र माधव केशव सरसीरुहलोचनपदानामन्यतमेनैवान्वयोपपत्तौ सर्वेषामुपपादनमर्थान्तरबोधकत्वाद् गुण एव, तथा हि माधवशब्देन लक्ष्मीपतित्वेऽपि त वैदग्ध्यं नास्तीति केशवपदेन वीरत्वेऽपि रतिसामर्थ्य नास्तीति सरसीरुहलोचनपदेन विलक्षणचक्षुः सत्त्वेऽपि मम रूपलावण्यातिशयं न पश्यसीति व्यज्यते' इत्याहुः |
समाप्तपुनरात्तत्वस्य प्रतिप्रसवमाह - २५ समाप्तेत्यादिना ।
१५ समाप्तपुनरात्तत्वम् । क्वचित् वाक्यान्तरस्य पुनरुपादाने । न । दोषः । गुणः। ' चे 'ति शेषः । न॥२७॥ * ११