________________
साहित्यदर्पणः।
[सप्तमःयथा-"गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोगमा -
सान्द्रस्नेहरसातिरेकविगलच्छीमनितम्बाम्बरा । मामा मानद! माति मामलमिति क्षामाउरोल्लापिनी
सुप्ता किन्नु ? मृता नु कि ? मनसि मे लीना? विलीना नु किम् ॥ ५३॥" इत्यत्र "आयासय" इति "पीडय” इति च न्यूनम् ।
२३ क्वचिन्न दोषो न गुणः न्यूनपदत्वमित्येव । यथा
"तिष्ठेत् कोपवशात् प्रभावपिहिता दीर्घ न सा कुप्यति,
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावामस्या मनः ।
उदाहरति यथा-"गाढलिङ्गनवामनीकृतकुचप्रोद्भिहरोमोगमा गाढालिङ्गनेन दृढपरिरम्भगेन वामनीकृतौ खर्वीकृतौ कठोरत्वाद्वा किञ्चिन्नामितौ कुचौ यस्याः, साऽसौ प्रोद्भिना अत्यन्तमङ्कुरिता रोमोगमा रोमाञ्चा यस्याः सेति तथोक्ता । सन्द्रस्नेहरसातिरेकविगलच्छीमनितम्बाम्बरा सान्द्रो निविडो यः स्नेहरस आनन्दानुभवस्तस्यातिरेक उद्रेक आधिक्यमिति यावत् तेन विगलत् वित्रंसत् श्रीमनितम्बादम्बरं वस्त्रं यस्याः सा । हे मानद ! मानमभिमान द्यति खण्डयति,मानं सम्मानं वा ददाति इति तत्सम्बुद्धौ तथोक्त!मा माम् । मा नैवा 'आयासय'इप्ति शेषः।मा। अतिअत्यन्तम् । माम् 'पीडय' इति शेषः। अलमेतावदेव पर्याप्तम् । इति क्षामाक्षरोल्लापिनी । क्षामाणि अक्षराणि यस्मिन् कर्मणि यथा स्यात्तथोल्लापिनीति तथोक्ता । सुप्ता। किन्नु एवं निश्चलेति किं निद्रां गतेति भावः । मृता। तु । किम् सुप्तत्वेऽपि श्वासः, अस्याश्च तदभावात् किं मृतेति भावः । मे मम । मनस्ति। लीना 'किन्नु' इति पूर्वतोऽनुषक्तम् । मृतत्वेऽपि बहिरनुभवः स्यादिति किं जतुकाष्टन्यायेन मनस ऐक्यं गतेति भावः । ननु तादृशत्वेऽपि पृथकर्तुं शक्यते इत्यत आह-विलीना । नु । किम् । नीरक्षीरन्यायेन किं सर्वथा मनःसारूप्यं गतेति भावः । अमरुशतकस्येदं पद्यम् । सुरतामोदातिरेकं प्राप्तां प्रेयसीमनेकधोल्लिख्य नायकस्य वितकोऽयम् । शार्दूलविक्रीडितं वृत्तम् ॥५३॥'
इत्यत्र । “आयासय" इति 'पद'मिति शेषः ॥ “पीडय" इति । च । न्यूनम् । “पद"मिति शेषः । इदम्बोध्यम्-अत्र "मा मा” इत्यतः पुरः "आयासय माऽति माम्" इत्यतः परं च “पीडय' इति पदं च न्यूनमपि न दुष्टम् , झटिति अध्याहारेण प्रतीतेः स्फुटत्वात्, प्रत्युत गुणः; रसातिरेकव्यञ्जकत्वात् । एवम्-“त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे । इत्यादिभिः प्रियशतैरमुरुध्य मुग्धां तामेव शान्तमथवा किमिहोत्तरेण ॥” इत्यादौ 'त्यक्तवान्' इत्यादीनि न्यूनान्यपि अशक्यवकन्यत्वेन शोकातिशयव्यजकानीति गुण भूततां गतानि इति बोध्यम् ।
न्यूनपदत्वस्य दोषाभावमात्रत्वं निर्दिशति-२३ कचिदित्यादिना ।
३३ क्वचित् रसानपकर्षकत्वपुरस्कृतरसानुवर्षकत्वस्थले इति भावः । 'न्यूनपदत्व मिति पूर्वतोऽनु उत्तम् । न । दोषः । न । गुणः । 'धे'ति शेषः । दोषत्वमुज्झित्वाऽपि गुणत्वमप्राप्त इति भावः ।
कारिका सङ्गमयितुमध्याहार्य निर्दिशति-न्यनेत्यादिना । स्पष्टम् ।
उदाहरति यथा-“सा उर्वशीत्यर्थः । कोपवशात् कोपवशं प्राप्य । प्रभावपिहिता प्रभावनान्तर्धानकरणविद्यया पिहिताऽन्तर्हिता, 'सत्यत्रैव कुत्रचित्' इति शेषः । तिष्ठेत् । इति शेषः । 'कुपिता मां विहाय क्वापि तिष्ठेदिति न युज्यते यत' इति शेषः । दीर्घमत्यन्तम् । न । कुप्यति 'नैतद्यत' अतः-स्वर्गाय स्वर्ग गन्तुम् । 'क्रियाsथोपपदस्य च कर्मणि स्थानिनः ।' २।३ । १४ इति चतुर्थी । उत्पतितो गता । भवेत् । तद्यत' इति शेषः । अस्या उर्वश्याः । मनः । पुनः । मयि मद्विषये। भावाई भावन स्नेहेना, सरसमिति भावः । ननु तर्हि दैत्यो वा