________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः! मादिशब्दात "भाति कर्णावतंसस्ते" इत्यत्रावतंसस्य कर्णस्थितत्ववोधनाय कर्णशब्दः । एवं श्रवणकुण्डलशिरःशेखरप्रभृतिः । तथा-निरुपपदो मालाशब्दः पुष्पसजमेवाभिधत्ते इति स्थितावपि "पुष्पमाला विभाति ते ।" इत्यत्र पुष्पशब्द उत्कृष्टपुष्पवृद्धयै । एवम्-"मुक्ताहार" इत्यत्र मुक्ताशब्देन अन्यरत्नामिश्रितत्वम् ।
२१ प्रयोक्तव्याः स्थिता अमी ॥ २६॥ धनुाऽऽदयः सत्काव्ये स्थिता इति निबद्धव्याः, नतु अस्थिताः जघनकाश्चीकरकङ्कणादयः ।
२२ उक्तावानन्दमनादेः स्यान्न्यूनपदता गुणः ।
गतार्थत्वे 'धनुष'इति शेषः । धनुःशब्देन । सहाथैय तृतीया, तथा च-धनुःशब्देन सह प्रयुक्तेन ज्याशब्देनेत्यर्थः । ज्याया मौाः । धनुषि । आयत्तीकरणम । बोध्यते । अयम्भानः-कोटिरस्याटनी इत्युपक्रम्य 'मौवी ज्या शिञ्जिनी गुणः ।' इत्यमरेण धनुर्गुणस्यैव ज्याशब्दो वाचक इति प्रतिपादितम्, तथा सति-ज्याशब्दस्यैव प्रयोगेण धनुर्गु. णस्याभिधान वस्तुतः सिद्धम्, अथ धनुरित्यधिकतयाऽभिधानं पुनरुक्ततामावहति इति यद्यपि वक्तुं शक्यते, तथाऽपिज्याया धनुःसम्बधिमुणमात्रत्वप्रत्यायकतया धनुषि आरोपितत्वस्य प्रत्यायनावशेषात् तस्य प्रत्यायनार्थ धनुइशब्दसाहचर्य युज्यते । इति । केचित्तु-'ज्या मौर्वी ज्या वसुन्धरा ।' इति शाश्वतोक्तदिशा ज्याशब्दस्यानेकार्थवाचकतया धनुरित्यभिधानमन्तरा विवक्षितार्थनिर्णयाभाव इति तदर्थ धनुःशब्दप्रयोगपूर्वकं ज्याशब्दप्रयोगः स्थाने । इति, तन्न सत्, प्रकरणेनेबान्यस्यार्थस्य नियन्त्रितत्वात् । इति दिक् ।।
कारिकायामादिशब्दस्य सार्थकतां लक्षयति-आदिशन्दादित्यादिना ।
आदिशब्दात् । "ते तव कान्तायाः । कर्णावतंसः कर्णेऽवतंस इति तथोक्तः, कर्णे निहितस्तदलङ्कारः । . भाति । “सौन्दर्य परिवर्द्धयन् । कचिजडोऽपि स्वगुणैरधः करोति चेतनम् ॥' इत्यवशिष्टोऽशः ।' इत्यत्र । अवतंसस्य 'पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे।' इत्यमरोक्त्या कर्णाभरणतया ख्यातस्य । कर्णस्थितत्वबोधनाय कर्णस्थितत्वं बोधयितुम् । कर्णशब्दः । 'प्रयुक्त इति स्थाने' इति शेषः । एवम्। श्रवणकुण्डल-शिरःशेखरप्रभृतिः। प्रभृतिशब्देन नेत्राजनादेर्ग्रहणम् । 'श्रवणादिस्थितत्वबोधनायेति शेषः । तथा । 'एव'मिति पाठान्तरम् । निरुपपदो निर्गतमुपपदं यस्य तादृशः। मालाशब्दः। पुष्पस्रजम् । एव । अभिधत्ते । तथा हि-'माल्यं मालास्रजो मूर्ध्नि' इत्यमरः । इति स्थिती। सत्यर्थेयं सप्तमी । अपि । "ते तव । पुष्पमाला। विभाति । 'चन्द्रांश मण्डलीकृत्य सेवमानोडराशिवत् । विमला शन्तमाभासा' इति शेषः ।" इत्यत्र । पुष्पशब्दः। उत्कृष्टपुष्पवृद्धये उत्कृष्टानि यानि पुष्पाणि तेषां वृद्धिराधिक्यं तस्यै तां द्योतयितुमिति यावत् । एवम्-'मुक्ताहार ! 'गुणीभूय नोपसयः स्तनस्त्वया । विभवे यस्य काठिन्यं व्यर्थं तदुपसर्पणम् ॥' इति शेषः ।" इत्यत्र । मुक्ताशब्देन अधिकेन प्रयुक्तेन' इति शेषः । अन्यरत्नामिश्रितत्वं 'प्रत्याय्यते, तस्मात्तस्यादुष्टत्वमिति शेषः । एवं च-'सकीचकैारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥' इत्यादौ 'कीचका वेणवस्ते स्युर्ये स्वनन्त्यनिलोद्धताः।' इत्युक्तदिशा 'मारुतपूर्णरन्फ्रेरित्यादि दुष्टमेव । इति बोधितम् ।।
नन्वेवम्माभूत् पुनरुक्तत्वमपुष्टार्थत्वं वा दोषः सर्वत्रैवंविधस्य तात्पर्य्यस्य सत्त्वात् । इति चेनेत्याह-२१ प्रयोक्तव्या इत्यादि।
२१ अमी पुनरुक्तत्वावहाः । स्थिता 'महाकाव्येषु' इति शेषः । प्रयोक्तव्याः । येषां पुनरुक्तत्वावहत्वेऽपि प्रयोगो बहुधा बहुत्र दृश्यते त एव प्रयोक्तव्या नान्ये इति भावः ॥ २६ ॥
तदेव विवृणोति-धनुर्ध्याऽदय इत्यादिना । स्पष्टम् । . न्यूनपदत्वस्य गुणत्वमाह-२२ उक्तावित्यादिना ।
२२आनन्दमग्नादेः, आनन्दे मग्न आनन्दप्रवाहे निमग्नवत् स्थित आदियंत्र तस्य आदिना दुःखशोकादिपरतत्रादेर्ग्रहणम् । उक्तौ । न्यूनपदता । गुणः । स्यात् ।