________________
साहित्यदर्पणः।
[ सप्तमःपादाघातादशोक विकसति बकुलं योषितामास्यमद्ययूनामङ्गेषु हाराः स्फुटति च हृदयं विप्रयोगस्य तांपैः। मौर्वी रोलम्बमाला धनुरथ विशिखाः कौसुमाः पुष्पकेतो. भिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ॥ २४ ॥ अयम्भोजं निशायां विकसति कुमुदं चन्द्रिका शुक्लपक्षे मेघवानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं स्यात् । न स्याज्जाती वसन्ते न च कुसुमफले गन्धसारद्रुमाणा
मित्यायुन्नेयमन्यत्कविसमयगतं सत्कवीनां प्रबन्धे ॥ २५ ॥ एषामुदाहरणान्याकरेषु स्पष्टानि ।
२० धनुयादिषु शब्देषु शब्दास्तु धनुरादयः । आरूढत्वादिबोधाययथा-"पूरिता रोदसी ध्वानर्धनुर्ध्याऽस्फालनोद्भवैः।" ।
इत्यत्र ज्याशब्देनापि गतार्थत्वे धनुः शब्देन ज्याया धनुष्यायतीकरणं बोध्यते। शेषम् । यान्ति तथात्वेन वर्ण्यन्ते । योषिताम् । पादाघातात् । अशोकमशोकपुष्पमित्यर्थः । विकसति । योषिताम्- आस्यमद्यैर्गण्डूषपातैः । बकुलं केसरपुष्पम् । विकसति । यूनां युवतीनां यूनां चेत्यर्थः । अङ्गेषु कण्ठवक्षःस्थलेषु । हाराः 'कविभिर्वर्ण्यन्त इति शेषः । विप्रयोगस्य विरहस्य । तापैः सन्तापैः । च । हृदयम् । स्फुटति विदीय॑ते । पुष्पकेतोः कामस्य । मौर्वी ज्या । रोलम्बमाला भ्रमरपङ्क्तिः । 'रोलम्बो मधुपो भङ्ग'इति धनदः । धनुः। अथ । विशिखा वाणाः । कौसुमाः पुष्पसम्बन्धिनः । 'कविसमयख्याता' इति शेषः । अस्य कामदेवस्य । बाणः । तद्धत् तथा । स्त्रीकटाक्षेण तत्पातरिति भावः । युवजनहृदयं यूनां हृदयम् । भिन्नं स्फुटितम् । स्यात् 'तथा वर्ण्यत' इति शेषः । अहि दिवा । अम्भोज कमलम् । तथा-कुमुदम् । निशायाम् । विकसति । शुक्लपक्षे न तु कृष्ण पक्षे इति भावः । चन्द्रिका । मेघवानेषु मेघगर्जितेषु सत्सु च । शिखिनां मयूराणाम् । नत्यम् । भवति । अशोके । फलं फलसद्भावः । नापि नैव । स्यात् । वसन्ते। जाती मालती । न । स्यात् विकसितत्वेन वय॑माने ति शेषः । गन्धसारदमाणां चन्दनवृक्षाणाम् ।कुसुमफले । च । न 'वयेते' इति शेषः । इत्यादि कविसमयख्यात'मिति शेषः । उन्नेयम् । अन्यत् । कविसमयगतम् । ख. कवीनां महाकवीनाम् । प्रबन्धे । 'द्रष्टव्य'मिति शेषः । तथा च--'गजमूर्धसु मुक्तानां रत्नानां गिरिषूदयः । आकरेषु च हेमादेर्यत्र तत्र निरूप्यते ॥' इत्यादेर्ग्रहणम् ॥ २३ ॥ २४ ॥
एष निनु कुत्रोदाहरणानि दृष्टानीत्याशङ्कयाह-एषामित्यादि। आकरेषु महाप्रबन्धेषु । स्पष्टमन्यत् । पुनरुक्तस्य प्रतिप्रसवमाह-२० धनुज्येत्यादिना।
२०धनाऽऽदिषु । शब्देषु । तु।धनुरादयः। शब्दाआरुढत्वादिवोधाय।आदिपदेन-सङ्गतत्वादीनां ग्रहणम् । अत:-'पुनरुक्तत्वमदुष्टतां प्रतिपद्यत' इति भावः । केचित्त्वेतेनापुष्टार्थत्वस्यापि प्रतिप्रसवमङ्गीकुर्वन्ति । तथाहिप्रदीपकाराः, "अवतंसादिपदैर्जात्यादिपुरस्कारेण कर्णाभरणादीन्येवोच्यन्ते इत्यर्थतः प्राप्तौ कर्णादीनां पदानां यद्यपि अपुष्टार्थत्वं पुनरुक्तत्वं वा युज्यते, तथाऽपि क्वचित् कर्णेऽवतंस इत्यादिव्युत्पत्त्या क्वचिलक्षणादिना कर्णादिरूपस्याधि. कस्य विवक्षितार्थस्य प्रतिपत्तरदोषत्वम् ।” इति ।
उदाहरति-यथा-"पूरिते"त्यादौ ।
"धनुर्ध्याऽऽस्फालनोद्भवैवर्धनुषि(आरोपिता ) या ज्या सौर्वी तस्या आस्फालनं तदेवोद्भव उत्पत्तिस्थानं येषां तस्माद्वोद्भवन्तीति तथोक्तैः। ध्वानैः शब्दैः । रोदसी द्यावाभूमी। भूद्यावौ रोदस्यौ रोदसी च ते ।'इत्यमरः । पूरिता। 'रथहस्तिपदात्यश्च भीषणोन्नादबृंहितैः ॥' इत्युत्तरार्द्धम् ।" इत्यत्र । ज्याशब्देन ज्यापदप्रयोगमात्रेणेति भावः । अपि ।