________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
७७
"एसो ससहरबिंबो दीसइ हेअंगवीणपिंडोबा एदे अस्ससमोद्दा पडंति आसासु दुद्धधारं ॥ ५२ ॥ ' इयं विदूषकोक्तिः । इदम्मम ।
१७ निर्हेतुता तु ख्याते ऽर्थे दोषतां नैव गच्छति ।
यथा - " सम्प्रति सन्ध्या समयचक्रद्वन्द्वानि विघटयति ।" १८ कवीनां समये ख्याते गुणः ख्यातविरुद्धता ॥ २२ ॥ कविसमयख्यातानि च
१९ मालिन्यं व्योम्नि पापे यशसि धवलता वर्ण्यते हासकीयों: रक्तौ च क्रोधरागौ सरिदुदधिगतं पङ्कजेन्दीवरादि । तोयाधाऽखिलेऽपि प्रसरति च मरालादिकः पक्षिसङ्घो ज्योत्स्ना पेया चोरैर्जलधरसमये मानसं यान्ति हंसाः ॥ २३ ॥
उदाहरति यथा । " एसो" इत्यादौ ।
" एसो एषः । अंगवीण पिंडोव्व हैयङ्गवीनपिण्ड इव । ' तत्तु हैयङ्गवीनं यद् त्यो गोदोहोद्भवं घृतम् ।' इत्यमरः । खसहरबिंबो शशधरबिम्ब: । दीसइ दृश्यते । एदे एते । अस्समोहा अंशसगृहाः । दुद्धधारंव दुग्धधारा इव । असासु आशासु दिशासु इति यावत् । पति पतंति | आयछन्दः ॥ ५२ ॥ इयम् । विषकोक्तिः । अतः - ग्राम्यत्वं गुण इति शेषः ।
अस्य पयस्य परकीयत्वभ्रमनिरासायाह - इदमित्यादि । स्पष्टम् ।
निर्हेतुतायाः प्रतिप्रसवमाह - १७ निर्हेतुतेत्यादिना ।
१७ ख्याते विख्याते । अर्थे । प्रतिप्राये सति । तु । निर्हेतुता । दोषतां दुष्टत्वम् । नैव । गच्छति । दुष्टतां जहातीति भावः ।
उदाहरति यथा । " खम्प्रती" त्यादौ ।
“सम्प्रति । सन्ध्यासमयः । चक्रद्रद्वानि चक्रवाकपक्षियुगलानि । विघटयति वियोजयति । "कमलानि निमीलयते नयते कुमुदानि सुप्रसादं च ।" इति च तत्पूर्वार्द्धम् । सन्ध्यासमयस्य कमलनिमीलनकुमुदविकासनचक्रवाकविघटनकर्तृत्वं प्रसिद्धमियहेतुकमभिधानमपि न दुष्टमिति बोध्यम् ।"
ख्यातविरुद्धताया गुणत्वमाह - १८ कवीनामित्यादिना ।
१८ कवीनाम् । समये सङ्केते । ख्याते प्रसिद्धे सति । ख्यातविरुद्धता । गुणः ॥ २२ ॥
ननु कस्कः कविसमय इत्याशङ्कयाह- कविसमयख्यातानि च 'उच्यन्ते' इति शेषः ।१९ मालिन्यमित्यादिना । १९ व्योम्न्याकाशे । तथा - शपेऽधम् । मालिन्यं मलिनता कविसमयसिद्धा । यशसि । तथा -हास की त्योंह कीत्तौ च । धवळता । वर्ण्यते ' कविभिरिति शेषः । क्रोधरागौ क्रोधोऽनुरागश्चेत्येतद्वयम् । च । रक्तौ रक्तचण'कविसमयख्यातौ' इति शेषः । सरिदुदधिगतं सरित्सु समुद्रेषु च सञ्जातम् । पङ्कजेन्दीवरादि, पङ्कजं श्वेतकमलम, इन्दीवरं नीलकमलं तदादि । अत्रादिपदेन कुमुद रत्नादीनामपि ग्रहणं बोध्यम् । 'कविसमयतः सिद्धमिति शेषः | अखिले सर्वस्मिन् विशिष्टत्वेनानिर्दिष्ट इति यावत् । अपि । तोयाधारे । मराळादिको मरालो हंसस्तदादिकचक्रवाकादिः । पक्षिरुङ्घः । च । प्रसरति प्रसारितया कविभिर्वर्ण्यते इति भावः । चकोरैः । ज्योत्स्ना चन्द्रकान्तिः । पेया पेयत्वेन वर्ण्यते । जलधरसमये वर्षर्त्तसमये । हंसाः । मानखं तदाख्यं सरोवरवि
1
१ " एष शशधरविम्बो रयते हैयङ्गवीनपिण्ड इव । एतेऽशुसमूहाः पतन्ति आशासु दुग्धधारा इव ।। ' ' इति संस्कृतम् ।