________________
७६
साहित्यदर्पणः ।
" दीधीवेवीसमः कश्चिद् गुणवृद्धयोरभाजनम् । विप्रत्ययनिभः कश्चिद् यत्र सन्निहिते न ते ॥ ५१ ॥”
इत्यत्रार्थः कष्टः, वैयाकरणश्च वक्ता । एवमस्य प्रतिपाद्यत्वेऽपि । "अस्मामुपाध्याय ! त्वामहं न कदाचन ।" इत्यत्र दुःश्रवत्वैवैयाकरणो वाच्यश्च ।
एवमस्य वक्तृत्वेऽपि ।
१६ ग्राम्यत्वमघमोक्तिषु ।
गुण इत्येव । यथा-
[ सप्तम:
उदाहरति यथा । "दोधी" त्यादौ ।
"कश्चित् । 'पुरुष' इति शेषः । दीधीवेवीसमो दीधीवेवीभ्यां समः । ' दीधी' दीप्तिदेवनयो'वी' वेतिना तुल्ये इति धातुद्वयसदृश इति भावः साम्यमेवाह ) । गुणवृद्धयो: 'अदेङ् गुणः ।' १ । १ । २ वृद्धि - रादैच् ।' १ । १ । १ इति सूत्राभ्यां परिभाषितयोः सञ्ज्ञयोः शौर्याद्यभ्युदययोर्वा । अभाजनमपात्रम् ( धातुपक्षे 'दीधीवेवीटाम् ।' १ ।१। ६ इतिसूत्रेण गुणवृद्धयोनिषेधः । पुरुषपक्ष तु दैवहतत्वेन गुणवृद्धोरनाश्रयकत्वमिति बोध्यम् ) । किञ्च कश्चित् पुरुषः, क्वित्प्रत्ययनिभः क्विप्प्रत्ययेन सदृशः, तद्वत् सर्वतः प्राप्तलोप इति यावत् । ( 'वेरपृक्तस्य । ' ६ । १ । ६७ इत्यनेन सूत्रेण क्किपो लोपः, अन्यत्र सर्वथा दुष्टत्वात् लोपार्हत्वं बोध्यम् ) । यत्र यस्मिन् क्विप्प्रत्यये पुरुषेवेत्यर्थः । सन्निहिते समीपस्थे सतीत्यर्थः । ते गुणवृद्धी इत्यर्थः । ' अन्यस्ये 'ति शेषः । धात्वन्तरस्य पुरुषान्तरस्य वेत्यर्थः । ( धातुपक्षे—क्ङिति च।' १ । १ । ५ इति सूत्रेण निषेधात् ) । न । “ तादृश” इति शेषः । अत्र की निवसन्तीति पृष्टवन्तं प्रति कस्यापि वैयाकरणस्योत्तरवचनमिदम् ॥५१॥" इत्यत्र । अर्थः । कष्टो दुर्बोध्यः तथा चकष्टत्वेऽपि वक्तुर्व्याकरणव्युत्पत्त्यतिशय प्रत्यायकत्वाद्गुणत्वम् इति निष्कर्षः । अत एवाह-वैयाकरणः । च । वक्ता ।
प्रतिपाद्यत्वे उदाहरणमूह्यमित्याह - एवमित्यादि ।
एवम् । अस्य वैयाकरणस्य । प्रतिपाद्यत्वे बोधनीयत्वे । अपि 'उदाहाय्य मिति शेषः । अत्र विवृतिकाराः - 'आत्मनेपदसंयोगियजिकर्त्ता गुरुर्भवान् ।' ( इत्यत्र ) आत्मनः स्वर्गार्थ यागं करोषीत्यर्थः कष्टः ( गुणत्वमापन्नः ) ।' इति ।
दुःश्रवत्वस्य गुणत्वमुदाहरति- " अत्रे " त्यादिना ।
"अत्रास्मिन्विषये । हे उपाध्याय ! त्वाम् । कदाचन कदाऽपि । न । अहम् । अस्मार्ष त्वत्साहाय्यमन्तरेणैव मया सर्वमुत्तरितमितिभावः ।" इत्यत्र । दुःश्रवत्वम् । 'गुण' इति शेषः । ननु सर्वत्रैवं तर्हि स्यादित्याहअत्र, वैयाकरणः | वाच्यो बोध्यः । केचित्तु - ' यदा त्वामहमद्राक्षं पदविद्याविशारदम् । उपाध्याय तदाऽरमा समस्प्राक्षं च सम्मदम् ॥' इत्यत्र वक्तृबोद्धव्ययोरुभयोरपि वैयाकरणत्वेन कष्टत्वदुः श्रवत्वोभयस्य गुणत्वमित्याहुः ।
वक्तृत्वेऽप्यस्योदाहरणान्तरमूह्यमित्याह एवम् । अस्य वैयाकरणस्य । वक्तृत्वे । अपि 'दुःश्रवत्वं गुण ऊप इति शेषः । तथा च - " सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट पितृनतासांत सममंस्त वन्धून् । व्यजेष्ट षङ्घर्गमस्त नीत समूलघातं न्यवधीदथ ||" इत्यत्र वैयाकरणस्य वक्तृत्वेन दुःश्रवत्वं गुण इति बोध्यम् । वैयाकरणेत्युपलक्षणं नार्किकस्य, तेन - 'न्यायानुमानविगुणं कुयशस्ते महीपते ! हेत्वाभासवदुद्भाव्यं विदुषो याति निग्रहम् ॥' इत्यादौ कष्टत्वादेर्गुणत्वम् ।
प्राम्यत्वस्य गुणत्वमाह - १६ ग्राभ्यत्वमित्यादिना ।
१६ अधमोक्तिषु अधमानां विदूषकादीनामुक्तयस्तासु । ग्राम्यत्वम् । 'गुण' इति पूर्ववत् ।
किं प्राम्यत्वं स्यादित्याह - गुण इत्यादि । स्पष्टम् ।