________________
परिच्छेद: ]
हचिराख्यया व्याख्या समेतः ।
" नयने तस्यैव नयने च ।" इत्यादावर्थान्तरसङ्क्रमितवाच्यो ध्वनिः । एवमन्यत्र । १४ सन्दग्धत्वं तथा व्याज - स्तुतिपर्य्यवसायि चेत् ॥ २० ॥ गुणइत्येव । यथा
"पृथुकार्त्तस्वरपात्र भूषित निःशेषपरिजनं देव ! विलसत्करेणु गहनं सम्प्रति सममावयोः सदनम् ॥ ५० ॥ " १५ वैयाकरणमुख्ये तु प्रतिपाद्येऽथ वक्तरि । कष्टत्वं दुःश्रवत्वं वा
७५
गुण इत्येव । यथा
कत्वात् कथितपदत्वं गुणः । " तस्य । एव । नयने । नयने । च । “सुभगः स एव सुभगः सुस्मितसुधयाऽसि यस्य मोदाय । जनुरिह जनुरयि सुषमे ! नयने तस्यैव नयने च ॥” इति समस्तं पद्यम् । आर्यावृत्तम्।” इत्यादौ । अर्था न्तरसङ्क्रमितवाच्यः । ध्वनिः । अतश्चमत्कार विशेष धायकत्वेन कथितपदत्वं गणः इति भावः ।
क्रोधादौ कथितपस्य गुणत्वमवबोधितमपि नोदाहृतमित्याशङ्कयाह - एवमित्यादि ।
एवम् | अन्यत्र क्रोधादावित्यर्थः । 'कथितं पदं गुण' इति शेषः । तथा चेदम्बोध्यम्-क्रोधादौ तावद्गुणत्वमुदाहतमेवास्माभिः अथ हर्षावधारणयोः क्रमेण यथा - " कथय कथय दूत ! क्वागतो रामभद्रो नवजलदगभीर स्निग्धभव्योदितश्रीः । क ननु सस सुमित्रानन्दनो लक्ष्मणो वा सुविमलपरिपूर्णप्रस्फुरत्सोमसौम्यः ॥ " " तद्वचनाहितमतिर्बहुचागर्भ कार्योन्मुखः खलु जनः कृतकं ब्रवीति । तत् साधवो न नु विदन्ति, विदन्ति किन्तु कर्तु वृथा प्रणयमस्य न पारयामि ॥” इति ।
सन्दिग्धत्वस्य गुणत्वमाह - १४ सन्दिग्धत्वमित्यादिना ।
चेत् । व्याजस्तुति पर्यवसायि व्याजस्तुतौ पर्यवस्यतीत्येवंशीलमिति तथोक्तम् । तर्हि तथा । सन्दिग्धस्वम् । 'गुणः' इति पूर्ववदन्वेति ॥ २० ॥
अनुवर्तनीय माह-गुण इत्यादिना । स्पष्टम् ।
उदाहरति यथा । "पृथुका ''त्यादौ ।
'हे देव राजन् ! पृथुकार्त्तस्वरपात्रं पृथूनि विपुलानि कार्तस्वरपात्राणि सुवर्णपात्राणि, यत्र तादृशं पृधुकानां बालानां भोज्याभावात् आर्त्तखरः कातरध्वनिस्तस्य पात्रमिति वा । ' रुक्मं कार्त्तखरं जाम्बूनदमष्टापदोऽस्त्रियाम् ।' इति 'पृथुकः शावकः शिशुः ।' इति चामरः । भूषित निःशेषपरिजनं भूषिता अलङ्कृता भुवि पृथ्व्यामुषिताः स्थिता आसनाभावाद्वा निःशेषाः परिजना यत्र तादृशम् । विलसत्करेणुगहनं विलसन्त्यः करेणवो हस्तिन्यस्ताभिर्गहनं सङ्कीर्ण व्याप्तमिति यावत्, बिले सीदन्तीति बिलसत्का मूषकास्तेषां रेणवस्तैर्गहनं व्याप्तम् इत्ति वा । 'करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे ।' इति मेदिनी । ( बवयो: सावर्ण्य चेत्यालङ्कारिकाः )। अत एव - आवयोः तव मम चेत्यर्थः । सदनं स्थानम् । सम्प्रति यावत् भवता न दीयते तावत्' इति शेषः । ( दानलाभानन्तरं वैषम्यस्यावश्यम्भावित्वादिदमुक्तम् । ) समम् । आयछन्दः । याचकस्य कस्यापि कवे राजानं प्रति स्वदशाद्योतनपरं वाक्यमिदम् । अत्र चपृथुकार्तस्वरपात्रादीनि विशेषणपदानि - सन्दिग्धानि अपि राज्ञो व्याजस्तुतिपर्य्यवसायीनीति गुणतामापन्नानीति बोध्यम् ॥ ५० ॥ "
कष्टत्वदुः श्रत्वयोर्गुणत्वमाह-वैयाकरणेत्यादिना ।
वैकरण मुख्ये व्याकरणमधीयते विदन्ति वेति वैयाकरणाः, तेषु मुख्यस्तस्मिन् । तु । प्रतिपाद्ये बोद्धव्ये । अथ । वक्तरि । सतिसप्तमीयम् । कष्टत्वम् । वा । दुःश्रवत्वम् । 'गुणः' इति शेषः ।
अध्याह, लक्षयति-गुण इत्यादिना । स्पष्टम् ।