________________
[ सप्तम:
- साहित्यदर्पणः। - - १३ कथितं च पदं पुनः॥ १८ ॥ विहितस्यानुवाधत्वे विषादे विस्मये क्रुधि । दैन्येऽथ लाटानुप्रासे-नुकम्पायां प्रसाधने ॥ १९ ॥
अर्थान्तरसङ्क्रमित-वाच्ये हर्षेऽवधारणे । गुण इत्येव । यथा"उदेति सविता ताम्रस्ताम्र एवास्तमेति च । सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥४९॥" इत्यत्र विहितानुवादः। "हन्त हन्त गतः कान्तो वसन्ते सखि ! नागतः।" इत्यत्र विषादः । "चित्रं चित्रमनाकाशे कथं सुमुखि ! चन्द्रमाः।" इत्यत्र विस्मयः । 'सुनयने ! नयने निधेहि' इत्यत्र लाटानुप्रासः।
कथितपदत्वप्रतिप्रसवमाह-१३ कथितमित्यादिना ।
१३ विहितस्योद्दिष्टस्य । अनुवाद्यत्वे प्रतिनिर्देश्यत्वे । "उद्देश्यप्रतिनिदेश्यस्थले उक्तपदप्रयोगादर्थान्तरप्रतीत्यभावेन झटित्येव शाब्दबोधः, ततो रसादिधीरविलम्बेनैवेत्यत्र कथितपदत्वस्य गुणत्व"मित्यन्यत्र विवृतम् । विषादे । विस्मये। ऋधि क्रोधे । दैन्ये दीनतयोक्तौ । अथ । लाटानप्रासे तदाख्ये शब्दालटारे । अनुकम्पायां दयायां ध्यजनी यायाम् । प्रसादने प्रसन्नताऽऽपादने । अर्थान्तरसङ्क्रमितवाच्ये तदाख्ये ध्वनौ । हर्षे प्रमोदे । अवधारणे निश्चितताप्रतिपादने । पुनः । कथितम् । पदम् । चापि 'गुण' इति पूर्वतोऽनुवृत्तम्॥१८॥ १९॥
पूर्वतोऽनुवर्तनीयमर्थ लक्षयति-गुण इत्यादिना । स्पष्टम् । उदाहरति-यथा। "उदेती"त्यादौ ।
"सविता सूर्यः । ताम्रस्तद्वत् प्रतीयमानः । उदेति । ताम्रस्तादशवर्णः । एव । च । अस्तम् । एति प्रतिपद्यते । कथमेवमित्याह-महताम् । सम्पत्तौ। च । विपत्तौ। च । एकरूपताऽभिन्नस्क्रूपत्वम्भवतीति भावः ॥ ४९॥" इत्यत्र । विहितानुवाद उद्दिष्टप्रतिनिर्देशः 'अतः कथितपदत्वं गुण' इति प्रसक्तोऽर्थः । “हन्त हन्त कटं कष्टम् । हे सखि ! गतः 'परदेश'मिति शेषः । कान्तः । वसन्ते 'प्राप्तेऽपी'ति शेषः । न । आगतः । 'प्राप्तेऽपि विरहिप्राणनिस्सारणपरायणे ॥'इति शेषः ।"इत्यत्र । विषादः अतोऽस्यातिशयव्यञ्जकत्वाद् गुणत्वम् । इति शेषः । "हे समखि ! चित्रंचित्रमाश्चर्यमाश्चर्य्यम् । अनाकाशे आकाशाद्विरुद्धमनाकाशं तत्र । कथम्। चन्द्रमाः? 'विभाति परिपूर्णोऽयं सदा विमलमण्डलः॥ इति च शेषः । कस्यापि प्रियां प्रति तन्मुखं चन्द्राभेदेन वर्णयत उक्तिरियम् । अत्राभेदातिशयोक्तिः ।" इत्यत्र । विस्मयः 'अतस्तदतिशयव्यञ्जकत्वेन कथितं पदं गुणः ।' इति शेषः । एवम्-"यातु. यातु किमनेन तिष्ठता मुञ्चमुच्च सखि ! सादरं वचः । पामरीवदनलोलुपो युवा नैष वेत्ति कुलजाधरासवम् ॥” इत्यत्र कोपातिशयस्य । “एष त्वदेकशरणः पश्यैनं गतचेतसम् । हन्तहन्त प्रपद्यापि शरण्यां कथमीदृशः ॥" इत्यत्र दैन्यातिशयस्य च व्यजकत्वात् ,कथितं पदं गुणः । इति बोध्यम् । “सुनयने ! नयने । निधेहि स्थापय । “कान्ते ! पदाम्बुजयुगं शरणं त्वदीय मत्वैष हन्त ! सुभगे समुपस्थितोऽद्य । अस्मिंस्तथाऽपि हतके न दयां तनोषि चेत्तन्मनाक सुनयने ! नयने मिधेहि।" इति समस्तं पद्यम् । वसन्ततिलकं वृत्तम् ।" इत्यत्र । लाटानुप्रासः । 'अस्य च कथितं पदमुपकारक' मिति तन्यासमन्तरा तस्य वैचित्र्यानुदयादिति कथितमपि पदं गुणः । इति भावः। एवम्--"वत्सवत्स ! स्तवेनाद्य कृतं कृतमनेन ते । यद्यत्स्वाभिमतं तसत् खैरं सर्वे गहाण मत् ॥” इत्यत्रानुकम्पाऽतिशयस्य "मुश्चमञ्च ननु नेत्रमुद्रणं न क्षमा मयि पदानतेऽक्षमा । निर्जितोऽपि बहुशः सुधाकरस्त्वन्मुखं जयति हन्त मानिनि ॥" इत्यत्र प्रसादनातिशयस्य च व्या