________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । इत्यत्र इन्द्रपक्षे पवित्रशब्दो निहतार्थः । सिंहपक्षे मतङ्गशब्दो मातङ्गार्थ प्रयुक्तः।
११ गुणः स्यादप्रतीतत्वं ज्ञत्वं चेद्वक्तृवाच्ययोः। यथा"त्वामामनन्ति प्रकृति पुरुषार्थप्रतिनीम् । तदर्शनमुदासीनं त्वामेव पुरुषं विदुः ॥ ४७॥"
१२ स्वयं वाऽपि परामर्श अप्रतीतत्वं गुण इत्यनुषज्यते । यथा
"युक्तः कलाभिस्तमतां विवृद्धयै क्षीणश्च ताभिः क्षतये य एषाम् । शर्ट निरालम्चपदावलम्बं तमात्मचन्द्र परिशीलयामि॥४८॥"
इत्यत्रोदाहते पद्ये । इन्द्रपक्षे । पवित्रशब्दः । निहतार्थो वज्रधराधऽप्रसिद्धत्वात् निहतार्थदोषदुष्ट इत्यर्थः। सिंहपक्षे । मतइशब्दः । मातङ्गाथै गजार्थे । अपयुक्तः 'कविभिरनाढतत्वात्' इति शेषः । अथाऽपि इलेषवशान दुष्ट इति भावः ।
अप्रतीतार्थत्वस्य गुणत्वं निर्दिशति-११ गुण इत्यादिना ।
११ चेत् । वक्तृवाच्ययोर्वतुर्बोद्धव्यस्य चेत्यर्थः । ज्ञत्व सङ्केताभिज्ञत्वम् । तर्हि-अप्रतीतत्वमप्रतीतार्थत्वं नाम दोषः । गुणः । स्यात् ।
उदाहरति-यथा । “पुरुषार्थप्रवर्तिनी पुरुषार्थी धर्मार्थकाममोक्षास्तान् प्रवर्तयतीति तां तथोक्ताम् । प्रकृति प्रधानम् । 'प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे।' इति यादवः । त्वाम् । आमनन्ति कथयन्ति । 'महात्मान' इति शेषः । तथा.-तहशिनं तां प्रकृतिं पश्यति साक्षित्वेन विलोकते इत्येवंशीलस्तं तथोक्तम् । उदासीनं कूटस्थम् । स्वाम् । एव 'नत्वन्य'मिति एवकारार्थः । पुरुषम् । विदुः विदन्ति । तथा च श्रुतिः-'अजामका लोहितशुक्लकृष्णां बद्रीः प्रजाः सृजमानां सरूपाम् । अजो ह्येको जुषमाणोऽनु शेते...'इति । इदं बोध्यम्-प्रकृतिपरुपयोरभेदव्यपदेशः साइख्यमतेन, वेदान्तसिद्धान्ते हि 'प्रकृतिश्च दृष्टान्तानुपरोधात् ।' इत्यायुक्तदिशा ब्रह्मण: प्रकृतित्वमवेति । कुमारसम्भवे देवाना ब्रह्मणः स्तुतिवाक्यमिदम् । अत्र च प्रकृतिपुरुषों योगशास्त्रमात्रप्रसिद्धत्वेन अप्रतीतार्थावपि देवानां ब्रह्मणश्च प्रतीतार्थाविति न दुष्टौ, प्रत्युत गुणौ चमत्कारपोषकत्वात् । इति बोध्यम् ॥ ४७ ॥
अप्रतीतार्थत्वस्य प्रकारान्तरेण प्रतिप्रसवं निर्दिशति-१२स्वयमित्यादिना।।
१२ स्वयं स्वात्मनः । वा। परामर्श पर्सालोचने । अपि । अप्रतीतार्थत्वं गुण इति पूर्वतोऽनुवृत्तम् । तदेवाहअप्रतीतत्वमित्यादिना । स्पष्टम् ।
उदाहरति-यथा । “युक्त..." इत्यादौ ।
"यः । कलाभिः रजःसत्त्वतमोगुणरूपाभिर्मायाविभूतिभिः । युक्तो विशेषितविशेषणः । तमसामज्ञानानां तत्प्रधानानामविद्याकााणामिति यावत् । विवृद्धयै 'प्रभवतीति शेषः । ताभिः कलाभिः । क्षीणो हीनो निर्गुण इति यावत् । च। एषां तमसामित्यर्थः । क्षतये तिरोभवाय यः प्रभवतीति भावः । तम । शहं निर्विकारम् । निरालम्बपदावलम्ब निरालम्बपदमुपास्योपासकत्वोज्झितं स्वस्वरूपभूतं मोक्षाध्य पदं तदवलम्बयते प्रापयतेऽवलम्बते आश्रयते वेति तं तथोक्तम् । चन्द्रपञ्चे तु-कलाभिः तत्प्रकाशापादकोतिर्विशेषैः । यः। युक्तः । तमसा तिमिराणाम् । विवृद्धये । यावद्रात्रितमःसत्त्वादिदमुक्तम् । ताभिः कलाभिः । क्षीणः काऱ्यांक्षमत्वेन नष्टप्रभावः । च । यः। एषां तमसाम् । क्षतये । दिने हि चन्द्रः क्षीणकल इव भवति, तदा च तिमिराणामभाव इति दृष्टचरम् । तम् । शुद्धं शुभ्रप्रकाशम् । निरालम्वपदावलम्बं निरालम्बपदमाकाशमवलम्बो यस्य तं तादृशम् । इत्यर्थः । आत्मचन्द्रमात्मैव चन्द्र आत्मा चन्द्र इव वेति तं तथोक्तम् । परिशीलयामि चिन्तयामि वेदा. न्तनिष्ठस्येयमुक्तिः । कलाऽऽदिपदानां स्वशास्त्रमात्रप्रसिद्धार्थकतयाऽप्रतीतार्थत्वदोषग्रस्तत्वेऽपि वक्तः परामर्शकत्वाद गुणावहत्वम् । उपजातिश्छन्दः ॥४८॥"
* १०