________________
७२
साहित्यदर्पणः।
[ सप्तमः
तथा पुनरिति गुण एव । यथा-- "करिहस्तेन सम्बाधे प्रविश्यान्तर्विलोडिते । उपसर्पन ध्वजः पुंसः साधनान्तर्विराजते॥४५॥"
अत्र हि सुरतारम्भगोष्ठयां "व्यथैः पदैः पिशुनयेच्च रहस्यवस्तु ।" इति कामशास्त्रस्थितिः । आदिशब्दात् शमकथाप्रभृतिषु बोद्धव्यम् ।
१० स्यातामदोषौ श्लेषादौ निहतार्थाप्रयुक्तते ॥ १७ ॥ यथा-"पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम् । . हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतनमत ॥ ४६॥"
कारिकाऽर्थ सुगमयितुमाह-तथेत्यादि । स्पष्टम् । उदाहरति-यथा 'अश्लीलत्वं गुणः । "पुंसः पुरुषस्य वारस्येति यावत् (का मिन इति तु गोपनीयोर्थः)। ध्वजः पताका (लिङ्गमिति तु गोपनीयोऽर्थः )। "ध्वजः पूर्वदिशो गृहे । शिश्ने चिह्न पताकायां खदाङ्गे शौण्डिकेऽपि च ।' इति मेदिनी । सम्बाधे नराश्वादिभिर्दुर्गमे । ( सङ्कचिते इति गोपनीयोऽर्थः)। करिहस्तेन कारणां हस्तिनां हस्तः शुण्डादण्डस्तेन ("तर्जन्यनामिके युक्ते मध्यमा स्यादहि कृता । कारहस्तः समुद्दिष्टः कामशास्त्रविशारदैः ॥” इत्युक्तदिशा कठिनयोनिशैथिल्यापादकेन बहिस्कृतमध्यमाश्गुलीकेन तर्जन्यनामिकासंयोगेनेति गोपनीयोऽर्थः)। अन्तः सेनायाम् । (योन्यामिति गोपनीयोऽर्थः )। प्रविश्य । विलोडिते। साधनान्तः साधनं सैन्यं तस्यान्तः (योनेरन्तरिति गोपनीयोऽर्थः ) । उपसर्पन । विरजते ॥४५॥' अत्रहि। सुतारम्भगोष्ठयाम् । (विषये सप्तमी)। "द्वयथःप्रकाशनीयाप्रकाशनीयार्थक: । पदैः ।च। रहस्य वस्तु गोपनीयमर्थम् । पिशुनयेत् व्यञ्जयेत् ।" इति । कामशास्त्रस्थितिः कामशास्त्रस्य नीतिः । अतो गुणः ।
कारिकाया आदिपदस्य सार्थकतां ध्वनयति-आदिशब्दादित्यादिना । स्पष्टम् । तथा च-"उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे । क्लेदिनि स्त्रीवणे सक्तिरकमेः कस्य जायते ॥” इत्यत्र शमकथायामश्लीलत्वं गुणः । “उत्कृत्योत्कृ. स्यः..." इत्यत्र बीभत्से, “निर्वाणवरदहनाः प्रशमादरीणाम्" इत्यत्र छद्मोक्तौ । इत्येवं यथातथं बोद्धव्यम् ।
निहतार्थत्वाप्रयुक्तत्वयोः प्रतिप्रसवमुपदिशति-१० स्यातामित्यादिना।
१० निहतार्थाप्रयुक्तते निहतार्थताऽप्रयुक्तता चेत्यर्थः । श्लेषादौ । आदिना-यमकादीनां प्रहणम् । अदोषौ परित्यक्तदुष्टताको । स्याताम् ॥१७॥
उदाहरति-यथा। "पर्वतमेदिपवित्रं पर्वतान् भिनत्ति वज्रेण विनाशयतीत्येवंशील: पर्यतभेदी, सोऽसौ पवित्रस्तम् । पविं वज्रं त्रायते रक्षति दधातीति यावत् पवित्रः । शैलानां पक्षच्छेदनपरं वज्रधरमिति भावः । नरकस्य नराणां कं शिरो मौलिरिति यावत् तस्य । जैत्रं जयशीलम्। 'जैत्रस्तु जेता' इत्यमरः । बहुमतम् । गहनं दुर्जयम् । हरिमिवेन्द्रमिव । 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ।' इत्यमरः । पर्वतभेदि पवित्र पर्वतस्य भेदश्छेदो गुहेति यावत् आश्रयत्वेनास्यास्तीति पर्वतभेदी,सोऽसौ पवित्रस्तम् । पवि दिशां स्वाधिष्ठितं देशमिति यावत, त्रायते दुर्गम्यताविधानेन रक्षतीति पवित्रः । 'दिक तु स्त्रियां दिशा दान्ती ककुबू देववधूः पविः।' इति शब्दार्णवः । नरकस्य मनुष्याणाम् । जातावेकवचनम् । जैत्रं जयशीलम्।बहुमतङ्गहनम्बहवो मतङ्गामातङ्गा हस्तिन इति यावत्,तान् हन्तीतितं तथोक्तम् । मतङ्गस्य गोत्रापत्यानि मतगाः । 'वाहादिभ्यश्च ।' ४।५।९६ इतीञ् । 'बहच इञः प्राच्यभरतेषु ।' २।४।६६ इति लुक च । 'किप च ।' ३।२१७६ इति क्विप् । हरिमिव सिंहमिव । पर्वतभेदिपवित्रं पर्वतभेदीन्द्रस्तस्य पविर्वजं तस्मात्, त्रायते गोकुलं रक्षतीति तं तथोक्तम् । नरकस्य तदाख्यस्यासुरस्य । जैत्रम् । बहुमतम् । गहनं दुर्बोधम् । हरिमिव विष्णुमिव । पर्वतभेदि पर्वतान् वृक्षान् भिनत्त्युन्मूलयतीत्येवंशीलमिति तत्तथोक्तम् । 'पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः । देवमुन्यन्तरे शैले' इति मेदिनी । पवित्रं पावनम् । नरकस्य निरयस्य । जैत्रं विनाशकम् । बहुमतमत्यन्तं महितम् । गहनं दुर्विगाह्यम् । पतत् । सुरसारदम्भः सुरसरिद् गङ्गा तस्या अम्भो जलं तत् । 'भो मुमुक्षवः' इति शेषः । नमत प्रणमत । त्रिविक्रमस्येदं पद्यम् । आर्याछन्दस्तल्लक्षणं चोक्तं प्राक् ॥ ४६ ॥