________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । इत्यत्र शृङ्गारे कुपितो वक्ता। "मूर्धव्याधूयमानध्वनदमरधुनीलोलकल्लोलजालोभृताम्भःक्षोददम्भात् प्रसभमभिनभः क्षिप्त नक्षत्रलक्षम् । ऊर्ध्वन्यस्ताघ्रिदण्डभ्रमिभररभसोद्यन्नभस्वत्प्रवेगभ्रान्तब्रह्माण्डखण्डं प्रवितरतु शिवं शाम्भवं ताण्डवं वः ॥४४॥"
इत्यत्र उद्धतताण्डवं वाच्यम् । इमे पो मम । रौद्रादिरसे तु एतद्वितयापेक्षयाऽपि दुःश्रत्वमत्यन्तं गुणः। यथा- 'उत्कृत्योत्कृत्य कृति...।' इति । अत्र बीभत्सो रसः। .
- ९ सुरतारम्भगोष्ठ्यादावश्लीलत्वं तथा पुनः।
करालितः प्रोद्दामात्यन्तं प्रचण्डं यन्नेत्रानलज्वालाजालं तेन करालितो दग्ध इति भावः । पुनः। समस्तात्मना। आस्ताम। यद्यपि प्राक् शम्भोर्नेनाग्निना दग्धः तथाऽपि न समस्तात्मना; अतः पुनः समस्तात्मनाऽसौ दग्धः स्यादिति भावः । शार्दूलविक्रीडितं वृत्तम्॥४४॥"इत्यत्रेत्यादि । स्पष्टम् । अयम्भाव:-प्रियाविरहे मदनपीडितस्येयमुक्तिरिति मदनोपरि वक्तः कोपस्तस्मात् कुपितस्य तस्योक्तौ दुःश्रवत्वमौचित्यावहत्वाद् गुणः । इति । "मूर्धन्याध्यमानः...मूर्ध्नि शिरसि व्याधूयमानाऽत्यन्त कम्पमानाऽत एव-ध्वनन्ती शब्दायमानाऽसावमरधुनी गङ्गा, तस्या लोलाश्वश्वलाः कल्लोला महान्तस्तरङ्गास्तेषां जाल तस्मादुद्भूता उत्क्षिप्ता येऽम्भःक्षोदा जलबिन्दवस्तेषां दम्भश्छलं तस्मात् । प्रसभम् । अभिनभो नभसि । विभक्त्यर्थेऽव्ययीभावः । क्षिप्तनक्षत्रलक्षं क्षिप्त नक्षत्राणां लक्ष येन तादृशम् । उर्द्ध...उर्दू न्यस्तः प्रक्षिप्तो योऽङ्घ्रिदण्डश्चरणरूपो दण्डस्तस्य भ्रमिभरो भ्रमणातिशयस्तेन यो रभसो वेगस्तस्मादुद्यन् उत्तिष्ठन् यो नभस्वान् वातस्तस्य प्रवेशस्तेन भ्रान्तं कुलालचक्रवद्रमणविषयतामापन्नं ब्रह्माण्डखण्डं यत्र तादृशम् । शाम्भवं शम्भुसम्बन्धि । ताण्डवं नृत्यम् (कर्त)। शिवं शुभम् (कर्म)। वो युष्मभ्यम् । प्रवितरतु वितरतु । शार्दूलविक्रीडितं वृत्तम्॥४४॥" नन्वत्र कथं दुःश्रवत्वं गुण इत्याशङ्कयाह-इत्यत्रेत्यादि । स्पष्टम् । ताण्डवस्य लोकसंहार. हेतुभूतत्वादुद्धतत्वम् ।
ननु रौद्रादौ दुःश्रवत्वस्य कुत्र गुणत्वातिशयः ? इत्याशङ्कयाह-रौद्रादीत्यादि ।
रौद्रादिरसे रौद्रबीभत्सादौ रसे। तु । एतद्वितयापेक्षया एतयोः कुपितस्य वक्तरुद्धतस्य वाच्यस्य घ द्वितयं तस्यापेक्षा तया । अपि । दुःश्रवत्वम् । अत्यन्तम् । गुणः । 'क्रोधादेः स्थायित्वेन रसोत्कर्षात्' इति शेषः । यथा । 'उत्कृत्योत्कृत्य...इति व्याख्यानपूर्व पद्यम् । अत्र । बीभत्सः। रसः । अतोऽस्य जुगुप्सास्थायिकत्वादोजोगुणान्विताया रचनाया रसोत्कर्षकत्वात् दुःश्रवत्वस्य गुणत्वातिशय इति भावः । अत्र तर्कवागीशा:-"रौद्रे दुःश्रवत्वं यथा मम--"क्षिप्तोग्रक्षत्रपक्षे मयि सति सुतरां क्षत्रडिम्भेन शम्भोश्चापाचार्य्यस्य चण्डध्वनि धनुरधुना ध्वंसितं धिक् तितिक्षाम् । सङ्घटयाकुण्ठधारं कठिनमतितरां तस्य कण्ठे कुठारं ब्रीडापीडाम्बुराशेः परिभवसरितश्चाद्य पारं प्रपद्ये ॥" इत्यत्र क्रोधस्याखाद्यमानतया भार्गवस्य वक्तुः क्रुद्धतया च सुतरां दुःश्रवत्वस्य गुणत्वम् । सर्वथा-आखादरहिते काव्याभासे दुःश्रवत्वादीनां न दोषत्वम्, न वा गुणत्वम्; काव्यधर्माणां दोषगुणानां तत्राप्रवेशात् ।' इत्याहुः । तथा च-"शीर्णघ्राणाघ्रिपाणीन् व्रणिभिरपघनैर्घर्घराव्यक्तघोषान् दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लासयन् यः । घम्मीशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिम्ननिर्विघ्नवृत्तेर्दत्तार्घाः सिद्धसबैर्विदधतु घृणयः शीघ्रमहोविघातम् ॥” इत्यादी काव्यत्वाभासादेव दोषगुणत्वाभाव इति बोध्यम् ।
अश्लीलत्वस्य गुणत्वमाह-९ सुरतारम्भेत्यादिना।
९ तथा । सुरतारम्भगोष्ठयादौ सुरतस्यारम्भ उद्योगस्तदर्थ या गोष्ठी वार्ता साऽऽदौ यत्र तत्र । आदिनाशमकथाबीभत्सादेग्रहणम् । “गोष्ठी सभासंलापयोः स्त्रियाम् ।" इति मेदिनी। पुनः । अश्लीलत्वम् । 'गुण' इति पूर्वतोऽनुवृत्तम् ।