________________
साहित्यदर्पणः ।
एवमनुप्रासे प्रसिद्धयभावस्य ख्यातविरुद्धत्वम् । यथा"चत्राधिष्ठिततां चक्री गोत्रं गोत्रभिदुच्छ्रितम् । वृषं वृषभकेतुश्च प्रायच्छन्नस्य भूभुजः॥४२॥” उक्तदोषाणां च क्वचिददोषत्वं क्वचिद गुणत्वमित्याह
७०
८ वक्तरि क्रोधसंयुक्ते तथा वाच्ये समुद्धते । रौद्रादौ तु रसेऽत्यन्तं दुःश्रवत्वं गुणो भवेत् ॥ १६ ॥
[ सप्तम:
एषु च आस्वादस्वरूपविशेषात्मकतया मुख्यगुणप्रकर्षोपकारित्वाद्गुण इति व्यपदेशो भाक्तः । क्रमेण यथा
" तद्भिच्छेदकृशस्य कण्डलुठितप्राणस्य मे निर्दयं करः पञ्चशरः शरैरतिशितैर्भिन्दन्मनो निर्भरम् । शम्भोर्भूतदया विधेयमनसः प्रोद्दामनेत्रानलज्वालाजालकरालितः पुनरसावास्तां समस्तात्मना ॥ ४३ ॥ "
अनुप्रासे प्रसिद्धयभावस्य ख्यातविरुद्धतायामन्तर्भावमाह - एवम्। अनुप्रासे प्रसिद्ध्यभावस्य प्रसिद्धेरनुप्रासितयोः पदार्थयोर्विवक्षितेऽन्वये लोकतः शास्त्रतो वा ख्यातेरभावो विरहस्तस्य । ख्यातविरुद्धत्वम् । यथा'चक्राधिष्ठितता' मित्यादौ ।
"चक्री चक्रं सुदर्शनमस्यास्तीति तथोक्तः, विष्णुरित्यर्थः । चक्राधिष्ठिततां चक्रे राज्यचक्रेऽधिष्ठितस्तस्य भावस्तत्ता ताम् । गोत्रभिगोत्र पर्वतं भिनत्ति कुलिशेनेति तथोक्तः । इन्द्र इत्यर्थः । ' गोत्र : शैले गोत्रं कुलाख्ययो' रिति मेदिनी । उच्छ्रितमुन्नतम् । गोत्रं वंशम् । वृषभकेतुर्वृषभः केतुर्ध्वजो यस्य तथोक्तः । शङ्कर इत्यर्थ: । 'केतुर्ना रुक् पताका विग्रहोत्पातेषु लक्षणे ।' इति मेदिनी । च । वृषं धर्मम् । अस्य । भूभुजो राज्ञः । प्रायच्छन् ददुः । अत्र कर्तृकर्मनियमेन स्तुतिरनुप्रासानुरोधेनैव प्रतिपादिता, न पुनर्लोके शास्त्रे वा तथा प्रसिद्धा ॥ ४२ ॥ "
निरुक्तानां दोषाणां कचित् प्रतिप्रसवं दर्शयति-उक्तदोषाणां दुःश्रवत्वादीनामित्यर्थः । च । क्वचित् कमि चित्रादिवैशिष्टये इत्यर्थः । अदोषत्वम् । क्वचित् । गुणत्वम् । इति । आह-८ वक्तरीत्यादिना ।
८ क्रोधसंयुक्ते कुपिते । वक्तार । तथा । समुद्धते । वाच्ये प्रतिपाद्येऽर्थे सति । दुःश्रवत्वम् । गुणः 1 भवेत् । रौद्रादौ । आदिना वीरबीभत्सभयानकानां ग्रहणम् । तु । रसे । 'सती'ति शेषः । अत्यन्तम् । दुःश्रवत्वं गुणो भवेदिति भावः ॥ १६ ॥
ननु गुणानां रसधर्म्मत्वादुःश्रवत्वादीनां च तदभावात् कथं गुणत्वमित्यत आह- एषु दुःश्रवत्वादिषु दोषेषु । च । आस्वादस्वरूप विशेषात्मकतयाऽऽस्वादानां तदात्मकानां रसानां स्वरूपविशेषः साधर्म्यविशेष आत्मा येषां (मुख्यगुणानाम् ) तेषां भावस्तत्ता तया । मुख्यगुणप्रकर्षोपकारित्वात् मुख्यगुणा माधुर्य्यादयस्तैः कृतो यः प्रकर्षो रसाद्युत्कर्षस्तमुपकरोतीति तस्य भावस्तत्त्वं तस्मात् । गुणः । इति । व्यपदेशः । भाक्तो गौणो ननु मुख्य इति भावः । इदमभिहितम् काव्यस्यात्मा रसस्तस्यापकर्षकत्वाभावे दुःश्रवत्वादेरदुष्टत्वमात्रम्, अनपकर्षकत्वे सति प्रकर्षकत्वे पुनर्गुणत्वम् । एतच्च भाक्तम्, साक्षाद्गुणत्वस्य रसधर्म्मभूतेषु माधुर्यादिष्वेव सद्भावात् । माधुर्य्यादयो हि साक्षाद्रसधर्मभूता दुःश्रवत्वादयः पुनस्तदुपकारितया परम्परासम्बन्धेनेति दिक् । यथा - उदाहृत्य स्पष्टयितुमाह- क्रमेण । यथा" तद्विच्छेदकृशस्य तस्याः प्राणप्रियाया विच्छेदो विरहस्तेन कृशस्तथाभूतस्य । अत एव - कण्ठलुठितप्रा. rt कण्ठे लुठिता निरुद्धाः प्राणा यस्य तादृशस्य । मे मम । मनः (कम्मं ) । निर्भरमत्यन्तम् । निर्दयं निर्गता दया यस्मिन् कर्मणि तद् यथा भवेत्तथा । अतिशितैरन्यन्तं तीक्ष्णैः । ' तीक्ष्णे क्षीणे च शातं च शितमिति गोपालः । शरैः । भिन्दन् विध्यन् न तु निन्नन् । निहननोत्तरं तादृशस्य क्लेशस्यासम्भवात् । अत एव - करो नृशंसस्वभावः । अौ । पञ्चशरः कामदेवः । भूतदया विधेयमनसो भूतेष्वस्मादृशेषु प्राणिषु दया तस्या विधेयं वशवर्त्ति मनो यस्य तादृशस्य । 'विधेयो विनयग्राही वचनेस्थित आश्रवः' इत्यमरः । शम्भोर्महादेवस्य । प्रोद्दामनेवानलज्वालाजाल