________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः। निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥४०॥" 'इत्यत्र अपरदिगि'त्येतावतैव तस्या गणिकात्वं प्रतीयते ।
"आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्य्यते मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥ ४१ ॥' इत्यत्र अचेतसः प्रभोरभिधातमनुचितम् ।
दधानमपि । अतापकरं अतापस्य शान्तेः करस्तम् । अपि रविं सूर्य्य कामिनं वा । वियदालयाद्वियदाकाशमेवालयस्तस्मात्, यद्वा-वियद्दाकाशवत् (शून्यो जनसञ्चाररहितः अत एव-सुरतार्हः ) आलयस्तस्मात् । अपेतवसुमपेत नष्टा वसवो रझ्मयो यस्य, अपेतं वसु धनं यस्य वा तम् निर्धनं वेत्यर्थः । 'देवभेदे नले रश्मौ वसू, रत्ने धने वसु ।' इत्यमरः । निरकासयत् निष्कासितवती । धनलुब्धा वेश्या निर्गुणमपि धनिनं भजन्ति, धनं गृहीत्वा तमेव त्यजन्ति, बलाच्च गृहान्निष्काशयन्तीति दर्शितम् । अत्र सूर्यास्तवर्णनम् । शिशुपालवधस्येदं पद्यम् । प्रमिताक्षरा वृत्तम् 'प्रमिताक्षरा सजससैरुदिता ।' इति च तल्लक्षणम् ॥ ४० ॥” इत्यत्र । 'अपरदिक' इत्येतावता पदन्यासेने'ति शेषः । एव । तस्या अपरदिश इत्यर्थः । गणिकात्वं वेश्यास्वरूपत्वम् । प्रतीयते । अतः-तस्य प्रतीयमानत्वमुच्छिद्य 'गणिके' त्यनेन वाच्यत्वविधानं राज्ञस्तुच्छत्वविधानायितमिति दुष्टम् इति भावः । इदं चोपलक्षणं वियदालयस्य, तेन 'वियद'इत्येव बाच्यम् । अयम्भावः-सदृश (श्लेषमूलक ) विशेषणवशात् लिङ्गविशेषवशाच रवेर्नायकत्वं, वियदश्चालयत्व,मपरदिशश्च गणिकात्वं व्यज्यते, तथा च-यथा, 'रवि'मित्येतावदभिधाय रवेर्नायकत्वं सूचितं, तथा वियद आलयत्वम्, अपरदिशश्च गणिकात्वं 'वियद' इति, 'अपरदिक्' इत्येतावदभिधाय सूचनीयम् , नतु अभिधेयम् । अतोऽनान्यथाऽऽचरणमर्थगतां पुनरुक्ततामवगमयतीति दिक् ।
“विहङ्गमेषु पक्षिषु । आहतेषु कृताहानेषु सत्स्वित्यर्थः। यत्रे'ति शेषः।पुर'स्तेषा'मिति शेषः।मायानागच्छन् । मशको मक्षिकाऽपेक्षयाऽप्यतिक्षुद्रः कीटविशेषः । न । वार्यते निषेध्यते । तथा-मध्ये रत्नानां गणनायाः सति प्रस्तावे तेषामन्तर्न तु. तेभ्यः पृथगिति भावः । वा । धुरि यानमुखे लक्षणया तेषां गणनाप्रारम्भे इति भावः । 'धूर्यानमुखभारयोः।' इति हैमः । वसन । वा यथा तथा । 'व वा यथा तथैवैवं साम्य' इत्यमरः । 'उपलभ्यमान' इति शेषः । तृणमणिस्तृणप्रायो मणिः, तृणानां वा मणिराकर्षकतया रत्नभूतः प्रस्तरविशेषः । यथा लोहस्याकर्षको लोहमणिरित्युच्यते, तथा तृणानामाकर्षकस्तृणमणिरिति बोध्यम् । मणीनाम् । धुरं भारम् । 'यत्र सामान्य' इति पूर्ववत् । धत्ते । यस्मिन्-खद्योतो ज्योतिरिङ्गणनामा कीटविशेषः। अपि । तेजस्विनां प्रतापशालिना ‘मग्निसूर्य्यादीना'मिति तु न युक्तोऽर्थः । सूर्यप्रकाशे तत्प्रकाशस्य प्रत्यक्षविरोधात् । मध्ये। प्रचलितुं गुन्तुम् । न । कम्पते त्रस्यतीति भावः । तेजस्वित्वेन भेदाभावात् किं पुनस्तन्मध्ये गमने भयमिति निदशकं तथा प्रतिपद्यते इति भावः । 'त'दिति शेपः । सामान्यं समानधर्मत्वम् । अनामृष्टतत्त्वान्तरं नामृष्टमालोचितं तत्त्वान्तरं स्वरूपतारतम्यं येन तादृशम् । अचेतनं न चेतनं विवेको यत्र तादृशम् । प्रभुमिव । धिक । अत्र शार्दलविक्रीडितं वृतम्, लक्षणं चोक्तं प्राक्॥४१॥'.
उदाहरणसङ्गतये दोषं निर्दिशति-इत्यत्र । अचेतसोऽचेतनस्य । प्रभोः। अभिधानमचेतनत्वेन कीर्तनम् । अनुचितम् । अयम्भाव:-तादृशं सामान्यं धिगित्येतावतैव अविवेकिनः प्रभोः प्रतीतिरिति पुनः शब्देन तदभिधान पुनरुक्तम् । तथाऽऽहु:-'अत्राचेतसः प्रभोरुपमेयस्याप्रस्तुतनिष्ठसामान्यद्वारेणाभिव्यक्तिसम्भवादयुक्तमेव शब्देन कथनम् ।' इति ।