SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ - [सप्तमः साहित्यदर्पणः। एवमनुप्रासे वैकल्यस्यापुष्टार्थत्वम् । यथा'अनणुरणन्मणिमेखलमविरलशिक्षानमन्जुमञ्जीरम् । परिसरणमरुणचरणे ! रणरणकमकारणं कुरुते ॥ १० ॥ एवं समासोक्तौ साधारणविशेषणवशात् पदार्थस्य प्रतीतावपि पुनस्तस्य शब्देनोपादानस्य, अप्रस्तुतप्रशंसायां व्यञ्जनयैव प्रस्तुतस्थार्थस्यावगतौ शब्देन तदभिधानस्य च पुनरुक्तत्वम् । क्रमेणोदाहरणम् "अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । वेति भावः । एव । साधारणधर्मग । अन्वयसिद्धेन्वयसिद्धिरित्यस्माद्धेतोरित्यर्थः । प्रक्रान्तस्य । अर्थस्य । अनिर्वाहो निर्वाहाभावः । स्फुटः प्रत्यक्षसिद्धः, 'न चानन्तरमुदाहृतेषु, यदिहापि दोष आपतेत् ।' इति शेषः । अत्रायम्भावः-'उपमानोपमेययोरेकतरानुसारिलिङ्गादिसत्त्वे तदन्यतरानुसारिलिङ्गाद्यसत्त्वे प्रक्रमभङ्गः । लिङ्गव्यत्ययादिना योग्यसामान्याधिकरण्योपपादने प्रथमोत्थापिताकाइक्षाऽऽविषयीकृतेन प्रकारेण पुनरनभिधानात् प्रक्रमभङ्ग इति भग्नग्रक्रमत्वस्य तादवस्थ्यमिति । एवम् 'मुखं चन्द्र इवाभाती त्यादौ 'सुरतेव मन्थ जलधीशानं रत्नानि तान्ययं लुण्ठ । हनुमानिव दह रावणनगर राजन् कुमारस्ते ॥ रावण इव परदारान् स्पृष्ट्वा मा भूच्छगालभक्ष्योऽयम् । दुर्योधन इव मा वा परसम्पदमात्मसात् कार्षीत् ॥' इत्यादौ वा लिङ्गादिव्यत्ययेऽपि सामान्याभिधायिनां पदानां स्वरूपभेदकत्वानुपपत्तेर्दोषाभावः । इति फलितम् । ___ अथानुप्रासस्य वैकल्यमपुष्टार्थत्वेऽन्तर्भावयति-एवम् अनुमासे तदाख्ये शब्दालङ्कारे । वैकल्यस्य विकलत्वस्य प्रकृतरसायुत्कर्षानाधायकत्वेनाशक्तत्वस्य 'अन्तर्भावकम्' इति शेषः । अपुष्टार्थत्वम । यथा-'हे अरुणचरणेऽरुणे रक्तेऽलक्तकरजिततया खभावेन वा कोकनदसदृशे चरणे पादौ यस्यास्तत्सम्बुद्धौ तथोक्ते । 'तवे'ति दोषः । अनणुरणमणिमेखलमनणु नितान्तं रणन्ती शब्दं कुर्वन्तो मणिमेखला मणीनां मेखला (काची ) यत्र तत् । नाणुरल्या यस्मिन् कर्मणि तत् । यद्वा-अनणु रणन्तो मणयो रत्नानि यत्र तादृशी मेखला यत्र तत् । अविरलशिलानमजुमञ्जीरमविरलं घनं यथा भवेत्तथा शिलानौ शब्दं कुर्वन्तौ मञ्जू मनोरमौ मन्त्रीरौ नपुरौ यत्र तत् । 'शिजि'अव्यक्त शब्दे । तस्माच्छानच् । 'मनोज्ञं मजु मजुलम् ।' इत्यमरः । 'मन्त्रीरोऽस्त्री स नपुरः ।' इति रभसः । परिसरणं परितो भ्रमणम् । अकारणम् । रणरणकं चिन्ताम् । कुरुते। अत्रार्याछन्दः।लक्षणं च प्रोक्तं प्राक्॥४०॥अत्रेदं तत्त्वम्-'भण तरुणि ! रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ! यदि सल्लीलोल्लापिनि गच्छसि तत् किं त्वदीयं मे ॥' इति तत्पूर्वपद्यम् । अथ समासोक्त्यप्रस्तुतप्रशंसयोः सम्भवतो दोषस्य पुनरुक्ततायामन्तर्भाव दर्शयति-एवम् । समालोक्तौ । साधारणविशेषणवशात् साधारणमुपमानानुयोगि यद्विशेषणं तस्य वश इच्छाऽऽनुकूल्यमिति यावत् तस्मात् । परार्थस्य संयोगाद्यनियन्त्रितस्यार्थस्य । प्रतीतौ। अपि । पुनः। तस्य प्रतीयमानस्य पदार्थस्येत्यर्थः । शन्देन तदभिधायकेन पदेन । उपादानस्य । च । अप्रस्तुतप्रशंसायाम् । व्यञ्जनया । एव नतु तदितरया वृत्त्या । प्रस्तुतस्योपमेयस्य । अर्थस्य वस्तुनः । अवगतो बोधे तामनाहत्येति यावत् । 'षष्ठी चानादरे ।'२ । ३ । ३८ इति सप्तमी । शब्देन प्रस्तुतार्थे गृहीतशक्तिकेन पदेन । तदभिधानस्य तस्य प्रस्तुतार्थस्याभिधानं तस्य । पुनरक्तत्वम् । अयम्भावः-समासोक्तावलङ्कारे प्रस्तुताप्रस्तुतयोः साधारण्येन सङ्गच्छमानस्य विशेषणस्य वलादेवाप्रस्तुतस्यार्थस्य प्रतीतौ तस्य शब्देन साक्षादभिधानं व्यर्थम् । एवम्-अप्रस्तुतप्रशंसायां प्रस्तुतस्यार्थस्य प्रतीतत्वेऽपि शब्देन तस्याभिधानं पुनरुक्तमेवेत्यनयोः पुनरुक्तत्वे एवान्तर्भाव्यत्वम् । इति । उदाहर्तुकामाह-क्रमेण । उदाहरणम् । यथा-"अपरदिग्गणिकाऽपरा पश्चिमाऽसौ दिक् सैव गणिकेति तथोक्ता । अनुरागवन्तमनुरागो रक्तिमा प्रेम च सोऽस्यास्तीति तं तथोक्तम् रक्तवर्णम्, अथ च-अनुरक्तम् इत्यर्थः अपि । लोचयोः। सुखं सुखयतीति तत्तथोक्तम्, शान्तत्वाद्रमणीयत्वाद्वा सुखजनकमिति भावः । वपुः। दधतं
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy