________________
६७
परिच्छेदः ]
हचिराख्यया व्याख्यया समेतः। 'काऽप्यभिख्या तयोगसीद्धजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोर्योगे चिनाचन्द्रमसोरिव॥३८॥' अत्र तथाभूतचित्राचन्द्रमसोः शोभा न खल्वातीत, अपि तु सर्वदा भवति । 'लतेव राजसे तन्वि'अब लता राजते, त्वं तु राजसे। 'चिरं जीवतु ते सूनुर्मार्कण्डेयमुनिर्यथा ।' अब मार्कण्डेयमुनिर्जीवत्येव, न खल्वेतदस्य 'जीवत्वि'त्यनेन विधेयम् । इह हि यत्र लिङ्गवचनभेदेऽपि न साधारणधर्मस्यान्यथाभावस्तव न दोषः । यथा-'मुखं चन्द्रइवाभाति' 'तदेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः। दधते स्म परां शोभां तदीया विभ्रमा इव॥३९॥'
पूर्वोदाहरणेषु तूपमानोपमेययोरेकस्यैव साधारणधर्मेणान्वयसिद्धेः प्रक्रान्तस्यार्थस्य स्फुटोऽनिर्वाहः ।
मरः । इव । सिता स्वच्छा । कीर्तिः । 'ज्योत्स्नाः कीर्तिरिवोदिताः । भवांश्चन्द्रा इव महान् यस्मादासां विनिर्गमः ॥ इति शेषः ।' अत्रायम्भावः-उपमानोपमेययोर्वचनव्यत्यये धर्मगतवचनस्य विपरिणामकल्पनदुरापत्तिः । एकत्वविशिष्टो हि सितत्वरूपः साधारणो धर्म एकत्वविशिष्टायामुपमेयरूपायां की वेवान्वेति, न तूपमानरूपासु बहुत्वविशिष्टासु चन्द्रातिषु । इति । यथा वा-'हृद्यानि सुमनांसीव सुस्मितं तव सुन्दरि । त्वं च स्फीता बेल्ल्य इव प्रोद्यतेति विभाव्यसे ॥' इति । अत्र हि पूर्ववाक्ये उपमानमेवान्वेति, उत्तरवाक्ये पुनरुभयमन्वेति नान्वेति चेति वैचित्र्यम् । इति । 'हिमनिमुक्तयोहिमानिमुक्तौ तयोः । चित्राचन्द्रमसोः। योगे सङ्गे पर्वणीति यावत् । इवव्रजतोगच्छतोः । शुद्धवेषयोः पवित्रपरिधानयोः । तयोः सुदक्षिणादिलीपयोः । काऽप्यनिर्वधनीया। अभिख्या शोभा। 'अभिख्या नामशोभयोः । इत्यमरः । आसीत् । इदं पद्यं रघुवंशस्य॥३८॥'अत्र । तथाभूतचित्राचन्द्रमसोः । तथाभूतौ हिमनिर्मुक्तौ । शोभा । न । खल । आसीत् 'किन्तु भवतीति कालभेद' इति शेषः । 'हे तन्विलतेव। राजले । 'कुसुमस्मितमञ्जला । स्वात्मकशरणान्वेषिभमरभ्रमणापहृत् ॥' इति शेषः । अत्र 'लता। राजते । त्वम् । तु राजसे । इति पुरुषव्यत्यय' इति शेषः । 'यथा । मार्कण्डेयमुनिः । तथेति शेषः । ते तव । सूनुः पुत्रः । चिरम्।जीवतु । 'यदयं शाश्वतं धर्म
न्वेतुमुद्यत इति शेषः । अत्र । मार्कण्डेय मुनिः। जीवति । एव । अस्य मार्कण्डेयमुनेः। जीवत्वित्यनेन । पतत् जीवनम् । न । खलु । विधेयम् । इति विधेर्भेदः' इति शेषः । यथा वा-'चमूरियं दूरविमुक्तभङ्गा गङ्गेव मे योधमनुप्रयातु । ययाऽरिसज्जा विभटाः प्रकामं नश्यन्त्यधर्मा इव खेदसाध्याः ॥' इत्यत्र गङ्गा प्रयाति, चमूः प्रयातु इति प्रक्रान्तविधेः स्फुटम्भङ्गः ।
अस्य प्रतिप्रसवमाह-इहास्यामुपमायाम् । ह्येव । तत्र यस्मिन्नुदाहरणे । लिङ्गवचनभेदे लि. च वचन चेति तयोर्भेदस्तस्मिन् 'सती'ति शेषः।अपि । साधारणधर्मस्योपमानोपमेयोभयवतिधर्मस्य । न अन्यथाभावः । तत्र। न। दोषःप्रक्रमभङ्ग इत्यर्थः ।
उदाहरति-यथा। 'मुखम् । चन्द्रः । इवाथाभाति । 'चन्द्रिका तव स्मितम् । पीयूषमिव वाणीयं न तथाऽ. पि वियोगिनाम् ॥' इति शेषः ।' 'मधुरताभृतो मधुरता विभ्रति पारयन्तीति ते तथोक्ताः, मधुरया भृत इति वा । अन्याभिः। स्त्रीभिर्नायिकाभिरिति भावः । असदृशोऽसमाना असमानो वा । तदीयास्तस्याः प्रकृतनायिकाया इमे इति तथोक्ताः । विभ्रमाविलासाः। इव तद्वेषस्तस्याः प्रकृतनायिकाया वेषोभूषणाऽम्बरादिधारणपरिपाटी। परामनिर्वचनीयाम् । शोभाम् । दधते दधति धत्त इति वा । स्म ॥' 'एवम् 'ब्रह्मणेव जगदद्य मयेदं सृज्यते ननु नवं किमनेन ।' इत्यादौ पुरुषभेदे 'आसीत् । 'गङ्गाप्रवाह इव भगीरथपथप्रवृत्तः' इत्यादौ गङ्गाप्रवाहः साम्प्रतमपि भगीरथपथप्रवृत्तः, स त्वासीदेवेति कालभेदे वा अनुगमस्योभयथाऽप्युपपत्तेदोषाभावः । इति बोध्यम्।' इति शेषः । - ननु पूर्वोदाहरणापेक्षयाऽत्र किं वैलक्षण्यम् ? इत्याशङ्कयाह-पूर्वोदाहरणेषु 'नयनज्योतिषा...' इत्यारभ्य मार्कण्डेयमुनिर्यथा ।' इत्यन्तेषूदाहरणेष्वित्यर्थः । तु। उपमानोपमेययो मधे' इति शेषः । एकस्यैकतरस्योपमानस्योपमेयस्य