________________
[सप्तमः
साहित्यदर्पणः । एवमनुपासस्य वृत्तिविरुद्धत्वे प्रतिकूलवर्णत्वम् । यथा-'ओवट्टइ उल्लट्टई' इत्यादौ । उपमायां च साधारणधर्मस्याधिकत्वन्यनत्वयोरधिकपदत्वं न्यूनपदत्वं च । क्रमेणोदाहरणम्- ' . 'नयनज्योतिषा भाति शम्भुभूतिसितयुतिः। विद्युतेवशरन्मेषो नीलवारिदखण्डधृ०॥३६॥' अत्र भगवतो नीलकण्ठत्वाप्रतिपादनाचतुर्थपादोऽधिकः। 'कमलाऽऽलिङ्गितस्तारहारहारी मुरं द्विषन् । विद्युद्धिभूषितो नीलजीमूत इव राजते ॥३७॥' अत्रोपमानस्थ सबलाकत्वं वाच्यम् । अस्यामेवोपमानोपमेययोलिङ्गवचनभेदस्य कालपुरुषविध्यादिभेदस्य च भग्नप्रक्रमत्वम् । क्रमेणोदाहरणम्-'सुधेव विमलश्चन्द्रः' 'ज्योत्स्ना इव सिता कीतिः।'
अनुप्राप्तस्य वृत्तिविरुद्धस्य प्रतिकूलवर्णत्वेऽन्तर्भावमाह-एवम् । अनुप्रासस्य तन्नाम्नोऽलङ्कारस्य । अत्तिविरुद्धत्वे वृत्ते रीते रचनाया इति यावत, विरुद्धत्वं तत्रेति तथोक्ते । प्रतिकूलवर्णत्वं तदाख्यो दोष इलर्थः यथा-'ओवर उल्लोइ' इत्यादौ । अत्रायम्भाव:-'ओवटइ' इति व्यागातपूर्वः श्लोकः, तत्र पुनर्निदर्शितः प्रतिकूलवर्णत्वं नाम दोषः, असावेवानुप्रासस्य वृत्तिविरुद्धत्वम्, तथा हि-टकारानैक्येन सम्भवतोऽनुप्रासस्य प्रकृतशृङ्गाररसविरुद्धत्वं, तत एव वृत्तिविरुद्धत्वं; महि रसप्रतिकूला युज्यते रीतिः । इति ।
उपमायां साधारणधर्मस्याधिक्य न्यूनत्वाभ्यामधिकन्यूनपदत्वे एवेत्याह-उपमायाम् । साधारणधर्मस्य अधिकत्मन्यूनत्वयोः 'सतोरि'ति शेषः । अधिकपदत्वम् । च । न्यूनपदत्वम् । क्रमेण 'तयोरिति शेषः। उदाहरणम । यथेति शेषः । 'भूतिसितद्यति त्या भस्मना सिता विमला तिर्यस्य सः । शम्भः। नयनज्योतिषा । ( करणेन ) । नीलवारिदखण्डधृक् नीलमेघांशधारी । शरम्मेघः शरत्कालिकोमेघः । विद्युतेव ।' भाति॥३६॥अत्रोदाहृते पद्ये । भगवतः । नीलकण्ठत्वाप्रतिपादनात् । चतुर्थपादः 'नीलवारिदखण्डधृक्' इति चतुर्थः पादः । अधिकः। अत्रायम्भाव:-उपमायां खलूपमानोपमेययोः सादृश्यमभिप्रेतम् , तचात्र नैकान्तं सम्भवतितथाहि-उपमेयो भगवान् उपमानभूतः शरन्मेषः, अथ यथोपमान वारिदखण्डसम्बन्धेन मनाङ् नीलिमा निर्दिष्टस्तथा नोपमेये एतस्य भूतिसितत्वातिरिक्तनीलकण्ठत्वाप्रतिपादनात् स्फुटं चतुर्थपादाधिक्यम् । यदि त्वभविष्यत् 'नीलकण्ठः सितद्युतिः' इति द्वितीयः पादः, तर्हि नाभविष्यदधिकपदत्वं दोषः । इति । 'कमलाऽऽलिङ्गितः कमलया लक्ष्म्याssलिङ्गित इत्यर्थः । तारहारहारी तारः केवलं मुक्ताभिस्सुन्दरोऽसौ हारस्तेन हारी हारवान्मनोहरश्चेति वा । मुरं तदाख्यं दैत्यम् । द्विषन शत्रुः ('न लोकाव्ययनिष्ठाखलर्थतनाम् ।' २।३ । ५९ इति षष्ठीनिषेधः ) । श्रीकृष्ण इतियावत् । विद्युद्विभूषितो विद्युता विभूषितस्तडिद्वानिति भावः । नीलजीमूतो नीलवर्णविशिष्टोऽसौ जीमतो मेघ इति तथोक्तः । इव । राजते॥ ३८॥' अत्रोदाहृते पथे । उपमानस्य जीमूतस्य । सबलाकत्वं बलाका वकपङ्क्तिस्तया सहित इति तस्य भावस्तत्त्वम् । वाच्यम् । “किन्तु नोक्तमिति न्यूनपदत्वम्' इति । शेषः । अत्रेदमुक्तम्-उपमानस्य तारस्थानापन्नो न कोऽपि केनापि पदेन धर्मः प्रतिपादित इति सबलाकत्वं वाच्यम् , अन्यथा न्यूनपदत्वम् । इति ।
उपमायामपमानोपमेययोभिन्नलिङ्गवचनकालविध्यादित्वदोषा न भग्नप्रक्रमत्वातिरिक्ता इत्याह-अस्यामित्यादिना।
भस्यामुपमायाम् । एव । उपमानोपमेययोः । लिङ्गवचनभेदस्य। च । कालपुरुषविध्याविभेदय कालपुरुषाभीष्टशंसनादिपार्थक्यस्य । भग्नप्रक्रमत्वं तदाख्यो दोषः । कथमित्याह-क्रमेण नुपूर्व्या । उदाहरणम् । यथा-'सुधेव । विमलः । चन्द्रः । 'क्षमेवानन्ददायकः । श्रीरिव श्रेयसः कारी दीक्षेव द्विजसेवितः ॥' इति शेषः ।' अत्रायम्भाव:-'विमल इति साधारणो धर्मः, स च केवलमुपमेये न तपमानेऽस्य पुंस्त्वविशेषात्; विशेष्यविशेषणभावान्वये समानलिङ्गवचनयोस्तन्त्रत्वादिति वाच्यधर्मविशिष्टप्रतीपधर्मविशियोरुपमेयोपमानत्वप्रतिभासश्च भमप्रक्रमत्वम् । यथा वा-'कुलमिव विमला विद्या विद्येव गुणस्तथा सतां गेयः। गुण इव सत्कृतिरनघा सत्कृतिरिव ते मतं चरितम् ॥ इति ।' 'ज्योत्स्नाश्चन्द्रकान्तयः । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्य