________________
परिच्छदः ]
रुचिराख्यया व्याख्यया समेतः ।
लकण्ठोऽयं विराजति शिखावल:' 'स्तनावद्रिसमानौ ते ।' 'दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेsपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव ॥ ३४ ॥' एवमादिषूत्प्रेक्षितार्थस्यासम्भूततयैव प्रतिभासनं स्वरूपमित्यनुचितमेव समर्थनम् । . यमकस्य पादत्रयगतत्वेऽप्रयुक्तत्वं दोषः । यथा
'सहसाऽभिजनैः स्निग्धैः सहसा कुञ्जमन्दिरम् । उदिते रजनीनाथे सहसा याति सुन्दरि ॥ ३५॥' उत्प्रेक्षायां यथाशब्दस्योत्प्रेक्षाद्योतकत्वेऽवाचकत्वम् । यथा'एष मूर्ती यथा धर्मः क्षितिपो रक्षति क्षितिम् ।'
जायाः ॥' इति शेषः । अत्रायम्भावः - उपमेयचन्द्रभानुप्रमाणापेक्षयोपमानकर्पूरस्फुलिङ्ग प्रमाणन्यूनत्वं क्षुद्रत्वं व्यञ्जयतीत्यनुचितार्थत्वम् । इति । 'हरवन्महादेवतुल्यम् | नीलकण्ठः । भयम् । शिखावलो मयूरः । विराजति । 'पक्षिणोऽन्ये तथा भान्ति यथा देवर्षिपुङ्गवाः ॥ ' इति शेषः ।' अत्रायम्भावः -- हरत्वजात्योपमानमधिकम्, तच्च प्रतिपाद्यमर्थं कदर्थयतीत्यनुचितार्थत्वम् । हरस्यैकादशात्मकव्यूहतया हरत्वं जातिः । नित्यमेकमनकानुगतं सामान्यम्' इति लक्षणस्य तथा सम्भवात् । इति । 'ते तव । स्तनौ । अद्रिसमानावद्विभ्यां समानौ तुल्यौ तद्वद् विपुलाविति यावत् । 'नाभिः पातालसन्निभः । कबरी यमुनादीर्घा तन्वि त्वं विधिशक्तिवत् ॥' इति शेषः ।' अत्रायम्भावः - परिमाणतोऽद्रयाद्युपमानमधिकमित्यनुचितार्थत्वम् । 'यो हिमालयः । दिवा दिने । दिवाकरात् सूर्यात् । 'भीत्रार्थानां भयहेतुः ।’१।४।२५ इति पञ्चमी । भीतमिव । गुहासु । लीनं परोक्षतां प्राप्य स्थितम् । अन्धकारम् । रक्षति । उक्तमर्थ समर्थयते क्षुद्रे । अपि । शरणम् । प्रपन्ने । उच्चैश्शिरखामुन्नतशिरोधराणामिति भावः । अतीव । ममत्वम् | 'मे' त्यव्ययात्त्वप्रत्यये रूपमेतत् । नूनं निश्चितम् । अत्र दिवाकरादित्यादिनोक्तस्यार्थस्य क्षुद्रेऽपीत्यादिना समर्थनादर्थान्तरन्यासः । उपजातिश्छन्दः । लक्षणं चोक्तं प्राक् । कुमारसम्भवस्य चेदं पद्यम् ॥ ३४॥ एवमादिषूदाहृतसदृशेषु । उत्प्रक्षितार्थस्य । असम्भूततया । प्रतिभासनं प्रतीतिः । एव । स्वरूपम् । इतीत्यतः। अनुचितम् । एव । समर्थनम् । अत्रायम्भावः - उत्प्रेक्षितार्थोऽन्धकारत्रासः, स चाचेतनसम्बन्धितया न सम्भवति, कुतः पुनस्तस्याद्रिणा त्राणम्, अस्यापि तथाभूतत्वादिति सर्वमनुचितार्थत्वकृते । इति ।
' यमकालङ्कारस्य पादत्रयवृत्तित्वे ऽप्रयुक्तत्वेऽन्तर्भावमाह - यमकस्येत्यादिना ।
1
यमकस्य तदाख्यस्य शब्दालङ्कारस्य । पादत्रयगतत्वे सतिसप्तमीयम् । अप्रयुक्तत्वम् । दोषः । यथा'रजनीनाथे चन्द्रे । उदिते । खा । सहसा हसेन हास्येन सहिता स्मयमानेति भावः । सुन्दरी । स्निग्धैः । अभिजनैः स्वकुलालङ्कारैः | 'भवेदभिजनः ख्यातौ जन्मभूम्यां कुलध्वजे । ' इति मेदिनी । सह । सहसाऽविचार्य्यं । कुञ्जम न्दिरम् । याति गच्छति । अत्रायम्भावः - यमकं तु विधातव्यं न कदाचिदपि त्रिपात् ।' इत्युक्तनयेने यमकस्य पादत्रयवृत्तित्वे प्रयोगानर्हत्वादप्रयुक्तत्वं दोषः । इति ॥ ३५ ॥
• उत्प्रेक्षणबोधकेनापि यथाशब्देन यद्युत्प्रेक्षणं तदाऽवाचकत्वस्यैव सम्भव इत्याह-उत्प्रेक्षायां तदाख्येऽलङ्कारे । यथाशब्दस्य सादृश्यमात्रद्योतकस्य यथेति निपातशब्दस्येत्यर्थः । उत्प्रेक्षायोतकत्वे 'स्वीकृते' इति शेषः । अवाचकत्वं 'दोष:' इति शेषः । यथा - 'एषः । क्षितिपो राजा । क्षितिं पृथिवीम् । रक्षति । 'इति' इति शेषः । मूर्त्तो धृतशरीरः । यथा नूनम् । धर्मः । 'प्रजाः स्वा इति मन्वानः सर्वत्र समदर्शनः ॥' इति शेषः । अन्त्रायम्भावः - 'ध्रुवमिव नूनमवैमि शक्के मन्ये जाने' इत्यादीनामेव सम्भावनबोधकत्वम्, न तु यथाशब्दस्य अस्य' बा यथा तथैवैवं साम्ये' इति सादृश्यमात्र बोधकत्वात् । इति यथाशब्देन सम्भावनेऽवाचकत्वं निर्बाधम् । उक्तं च'सम्भावनं ध्रुवेवादय एव शब्दा वक्तु सहन्ते, नतु यथाशब्दोऽपि केवलस्यास्य साधर्म्यमेव प्रतिपादयितुं पर्याप्तत्वात् । ' इति ।
१ एष दोषः पद्य एव सम्भवति तत्रैव पादकल्पनायाः सम्भवात् । इति केचित् ।
९