Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 25
________________ Re-ऋषिभाषितानि - कारवे। चतुत्थं सोयवलक्खणं ४॥१-२।। प्राणातिपातं त्रिविधं त्रिविधेन नैव कुर्यात् न कारयेत्, इति प्रथम श्रोतव्यलक्षणम्। लक्ष्यतेऽनेन श्रोतव्यमिति श्रोतव्यलक्षणम्। यस्मिञ् शासन एतादृश्यतिसूक्ष्माऽहिंसा वर्ण्यते तदेव श्रोतव्यम्। अन्यत्राभासमात्रत्वादिति हृदयम्। आह च - इदृग्भङ्गशतोपेता हिंसा यत्रोपवर्ण्यते। सर्वांशपरिशुद्धं तन् न्याय्यं हि जिनशासनम्।। अत्र हि - पदमवधारणार्थं भिन्नक्रमं च, तस्माज्जिनशासनमेव न्याय्यमित्यर्थः, ततश्च व्यक्ताऽस्यैव श्रोतव्यता। अथ द्वितीयलक्षणं लक्षयति- मृषावादं त्रिविधं त्रिविधेन नैव ब्रूयात् न भाषेत, इति द्वितीयं श्रोतव्यलक्षणम्। यथोक्तं - सुहुमं वा बायरं वा नेव सयं मुसं वएज्जा- इत्यादि। न चैवमन्यत्र, पञ्चानृतान्याहुरपातकानि - इत्यादिकलुषितत्वात् । अथ तृतीयम् - अदत्तादानं त्रिविधं त्रिविधेन नैव कुर्यात्, न कारयेत्, इति तृतीय श्रोतव्यलक्षणम्। यथा - दंतसोहणमित्तं १. व्याख्यास्यानेकसिद्धान्तप्रसिद्धत्वेनोपेक्षिता । २. अभयं सर्वभूतेभ्यः (प्राणाग्निहोत्रोपनिषदि ।।१-१।।) अहिंसा परमो धर्मः (विष्णुधर्मोत्तरपुराणे ।।३-२६८-१२ ।।) इत्यादिनाऽभ्युपगतत्वेऽपि हेतु-स्वरूपा-ऽनुबन्धशुद्धिविरहात्, षट्कायविज्ञानाभावात्, त्रिविधत्रिविधादिनियमविरहाच्च जनेतरशासनाभिमताऽहिंसाऽऽभासमात्रमेवेति भावः । उपलक्षणमेतत्, तेन नित्यायेकान्तपक्षे हिंसाया एवासम्भवादहिंसोपदेशोपन्यासस्य व्यर्थतेत्याद्यपि द्रष्टव्यम् । ३. अध्यात्मसारे ।।१२-५६।। ४. महाभारते, आदिपर्वणि ।।८२१६।। न नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन् न विवाहकाले। प्राणात्यये सर्वधनात्यये च, पञ्चानृतान्याहुरपातकानि - इति पूर्णवृत्तम्। आर्षोपनिषद् - पि - इत्यादि। न तु स्वमेवादत्ते ब्राह्मण इत्याद्यदत्तादानप्रवर्तनदूषितम्। तुर्यमाह- अब्रह्मपरिग्रहं त्रिविधं त्रिविधेन नैव कुर्यात् न कारयेत्, इति चतुर्थं श्रोतव्यलक्षणम्। चातुर्यामतया श्रीनेमिनाथशासनस्यापरिग्रह एव ब्रह्मान्तर्भावः। नन्वत एवाऽस्य साक्षादभिधानमसङ्गतमिति चेत् ? सत्यम्, तथापि प्रतिपाद्यानुरोधेनादोषः । यद्वा ब्रह्म-शुद्धात्मस्वरूपम्, तत्साधनार्थः परिग्रहो ब्रह्मपरिग्रहः, धर्मोपकरणमित्यर्थः, तदन्यः- अब्रह्मपरिग्रहः, तं न कुर्यात्- धातूनामनेकार्थत्वान्न धारयेदित्यर्थः। एतेन तत्त्वतो मूर्छापरित्यागो विहितः, मूर्छाविषयस्य धर्मोपकारित्वविरहादिति निपुणमालोचनीयम्। ब्रह्मचर्यमपि जिनशासन एव पारमार्थिकम्। नवगुप्तिशुद्धस्यास्य प्रतिपादनात्। परत्रापुत्रस्य गतिर्नास्ति - न स्त्री दूष्यति जारेण-इत्यादिवचोभिरब्रह्मव्यभिचारादिविधानाच्च। अत एवापरिग्रहोऽप्यत्रैव मुख्यः, शुद्धाहिंसादिप्रतिपादनेन विनिश्चितसार्वज्ञ्यस्य वचोऽनुवृत्त्यैव रागादिप्रहाणसम्भवेन तत्त्वतो मूर्छात्यागसम्भवादिति दिक्। साम्प्रतमस्यैव प्राणातिपातविरमणादिकलक्षणचतुष्टयस्य विषयादि स्पष्टयति१. सर्व ब्राह्मणस्येदं यत्किञ्चिज्जगति गतम् । श्रेष्ठेनाभिजनेनेदं सर्व ब्राह्मणोऽर्हति । स्वमेव ब्राह्मणो भुङ्क्ते, सर्वस्येदं ददाति च। यच्छेषं स्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः- इति मानवे धर्मशास्त्रे प्रथमाध्याये सृष्टिवादसमुद्देशे । २. मज्झिमा उज्जपन्ना हु - इत्याद्यभिधानस्य (उत्तराध्ययने ।।२३-२६।।) प्रायिकत्वात् । ज्ञापकं चात्र पुष्पिकोपाङ्गे काल्यादिवृत्तं चतुर्थारकालीनम्, दुःपमाकालीनं च श्रीवज्रस्वाम्यादिवृत्तम् ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141