Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 138
________________ 7- ऋषिभाषितानि अविकानां च एतच्च द्रव्यभावोभयप्रकारेण ज्ञेयम्, एतदेव व्याचष्टे - गेहं वेराण गंभीरं, विग्घो सद्धम्मचारिणं । - २३१ रक्षितानाम्, निष्ठानम् - समापनम्, दुट्ठासो अखलीणं व, लोके सूता किमंगणा ।। २२-८।। यतो वैराणाम् - विद्वेषाणाम्, गम्भीरम् - अलक्ष्यमाणपर्यवसानतयाऽगाधम्, गृहम् निवासः, तन्निमित्तकत्वान्महायुद्धानाम्, तदाह - सुव्वंति य महिलऽत्थे लोए जुज्झाई बहुपयाराई । भयजणणाई जणाणं भारह - रामायणाई इति । स्त्रियः कलहादिनिमित्तता तु प्रायः प्रतिगृहं प्रसिद्धा, एतेन द्रव्यरक्षानिष्ठाऽभिहिता । आभ्यन्तररक्षाविनाशमाह - सद्धर्मचारिणाम् - शिवपुरपथिकानाम्, विघ्नः - प्रत्यूहः, यदागमःमोक्खाभिकंखिस्स उ माणवस्स, संसारभीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमत्थि लोए, जहित्थीओ बालमणोरमाओ - इति । तथा दुष्टाश्वः - अविनीततुरङ्गः, अकुलीनत्वाद्दुः शिक्षितत्वाद्वा, स इव, अखलिनम् - मुखयन्त्रराहित्यं यथा स्यात्तथा, एतेनास्य द्विगुणितोच्छृंखलतोक्ता, तत्सदृशा किमङ्गना कुत्सितवनिता, लोके - भुवने, सूता विधात्रा विहिता । तस्मात् - - १. देश्यशब्दोऽयम् । २. उत्तराध्ययने । । ३२-१७ ।। ३. क-ढण-द-ध-न- पुट्ठासोगलीणंव । ख- पुट्ठासोसासोग्गलीणंव। च-झ-घ-ग-त- दुट्टासो अखलीणं व ज-ठ- पुडासोसोगलीणं वट पुट्टोसोसोगलीणं च ड पुट्ठीसोसोगलीणं व थ पुट्टासोसासोगलीणंव । प- पुट्ठासोगलीणं च । ४. यथोक्तम् स किंसखा साधु न शास्ति यो नृपम् इति । ५. स्वमते च कर्म नियत्यादिपञ्चक वा विधातृ । Ashopnisad_2.p65 2nd Proof • आर्षोपनिषद् - इत्थी उ बलवं जत्थ, गामेसु णगरेसु वा । अणस्सयस्स हेसं तं, अपव्वेस्सु य मुंडणं । । २२ - ९।। स्त्री- सीमन्तिनी, बलवती - प्रभुताकलिता, तुः - आश्चर्ये तच्चाबलानां बलोक्तेः, यत्र ग्रामेषु नगरेषु वा । अनश्वकस्य - वाजिवर्जितस्यैव हेषं घोटकगर्जितम्, तत् - स्त्रीणामाधिपत्यम्, अपर्वसु च विशिष्टावसरं विनैव यत्किञ्चिद्दिनेषु मुण्डनम् - भद्राकरणम् । हेषितं ह्यश्वानामेव शोभां बिभर्ति न तु मनुजकृतम्, एवं मुण्डनमप्यनुरूपक्षणेष्वेव कृतं गौरवाय भवति, अन्यथा तु लाघवैकबीजमेव स्यादित्येवं योषास्वामित्वमप्यत्यसमञ्जसम् स्वपराभिर्व्याभिघातायैव तदि २३२ त्याशयः । अतः - धत्तेसिं गामणगराणं सिलोगो । । २२ - १० ।। धिगित्यादि प्राग्वत्। तदेतादृगसमञ्जसं तत्तद्भयहेतुत्वापरिज्ञानत इति निदर्शनैस्तज्ज्ञानावाप्तिं प्रत्येवोत्साहयति - हो भयं हुतासातो, विसातो मरणं भयं । छेदो भयं च सत्यातो, वालातो दसणं भयं । । २२ - ११ ।। हुतमश्नातीति हुताशः अग्निः, तत्सकाशाद्दाहः देहादिप्लोषः, भयम् - साध्वसम् । विषात् क्ष्वेडात्, मरणम् - मृतिः, तल्लक्षणं भयम् - भीतिः । शस्त्रात् - खड्गप्रभृति - प्रहरणात्, छेदः - शरीरावयवकर्त्तनम्, भयम् - आतङ्कः । चः १. अभिख्या शोभा । काप्यभिख्या तयोरासीद् व्रजतोः शुद्धवेशयोः रघुवंशे ।। २. ऋषिभाषिते । ।२२-३ ।। -

Loading...

Page Navigation
1 ... 136 137 138 139 140 141