Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नल-ऋषिभाषितानि
-२३५ कलनं ज्ञानमिति यावत्, तस्य, विदन्ति येनार्थविशेषान् - वेदः - ज्ञानाधिगमसाधनम्, तस्य वेत्ता- कालवेदवित् - अधिकृतज्ञानोपायज्ञः, अनीदृशस्य तदसम्भवात्। जानीयात् - संवित्तिविषयीकुर्यात्।
न च वर्तमानपर्यायमात्रावगमेन तत्तद्वस्तुसज्ञानमित्याह - सीसच्छेदे धुवो मच्चू, मूलच्छेदे हतो दुमो। मूलं फलं च सव्वं च, जाणेजा सव्ववत्थुसु।।२२-१५।।
शीर्षच्छेदे - मस्तकनिकर्त्तने कृते सति ध्रुवः - निश्चितः, मृत्युः - मरणम्, मूलच्छेदे - पादोन्मूलने विहिते सति द्रुमः - वृक्षः, हतः - विनष्ट एव। यत एव जीवितार्थिना सर्वप्रयत्नेन मस्तकं संरक्षणीयम्, वृक्षपालनार्थिभिः सर्वाभियोगेन मूलं पालनीयम्, अज्ञातोपायस्यायासमात्रफलत्वादभियोगस्य। तस्मात् सर्ववस्तुषु - निःशेषपदार्थसार्थेषु, मूलम् - उद्गमम्, फलम् - पर्यवसानम्, चः - समुच्चये, सर्वम्-शक्यावगममशेषतत्पर्यायप्रकरम्, चः - समुच्चये, जानीयात्, इत्थमेव सदुपायप्रवृत्तिद्वारेण साध्यसिद्धिसम्भवात्। एतदेव प्रकृते योजयति -
सीसं जहा सरीरस्स, जहा मूलं दुमस्स य। सव्वस्स साधुधम्मस्स, तहा झाणं विधीयते।।२२-१६।।
यथा शरीरस्य शीर्षम्, यथा च द्रुमस्य मूलम्, सर्वस्वमिति गम्यते, तथा सर्वस्य साधुधर्मस्य, ध्यानं सर्वस्वम्, इति विधीयते - तीर्थकरादिभिः प्रतिपाद्यते। एतच्चात्र प्रशस्तचित्तपरिणामरूपं १. विशेषावश्यकभाष्ये ।।२०५८।। २. दशवकालिके ।।९-४-२ ।। चूर्णां ।।
आर्षोपनिषद्गृह्यते। एवं च कदाचित्पुष्टालम्बनेनानाभोगेन वा प्राणातिपातादिभावेऽपि श्रामण्यतादवस्थ्यम्, उच्चालियंमि पाए, ईरियासमियस्स संकमट्ठाए। वावज्जेज्ज कुलिंगी, मरिज्ज तं जोगमासज्ज।। न य तस्स तन्निमित्तो, बंधो सुहुमो वि देसिओ समए। अणवज्जो उ पओगेण, सव्वभावेण सो जम्हा।। जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स। सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स।। परमरहस्समिसीणं, समत्तगणिपिडगझरितसाराणं। परिणामियं पमाणं, निच्छयमवलंबमाणाणं - इत्याधुक्तेः। __ यथाश्रुतार्थाऽऽग्रहे तु शेषक्रियोपयोगे तद्विच्छेदाच्छ्रामण्योच्छेदप्रसङ्ग इति भावनीयम्, यद्वा निर्मलबोधसद्भावरूपं ध्यानमत्र ज्ञातव्यम्। तस्य सर्वदावस्थानसम्भवात्, तदाह - ध्यानं च निर्मले बोधे, सदैव हि महात्मनाम्। क्षीणप्रायमलं हेम, सदा कल्याणमेव हि - इति।
यद्वा - जं थिरमज्झवसाए तं झाणं - इति यथाश्रुत एवार्थः, तथापि न पूर्वोक्तदोषानुषङ्गः, प्राधान्येन तद्व्यपदेशात्, यदाह - संवरविणिज्जराओ, मुक्खस्स पहो तवो तासिं। झाणं च पहाणंगं, तवस्स तो मुक्खहेऊ तं - इति । दृष्टश्चान्यानपलापेऽपि प्रधानाद्व्यपदेशः, यथा सहस्रवाह्यशिबिकारूढे राज्ञि राजा यातीति व्यपदेशः, न चात्र नृसहस्रगमनापलाप इति। एवं च मोक्षस्य परमहेतौ ध्याने श्रामण्यसर्वस्वोक्तियुक्तैव। एतदनुपालनेन यत्पर्यवसति तदाह - १. आवश्यकनियुक्ती । १७४८,७४९,७५९,७६० ।। २. योगदृष्टिसमुच्चये ।।१७४ ।। २. ध्यानशतके ।।१८।।
Ashopnisad 2.p65
2nd Proof

Page Navigation
1 ... 138 139 140 141