Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि -
२३३
समुच्चये । व्यालात् - सर्पात् दशनम् - दंशः, भयम् - दरः । सर्वमप्येतन्मरणान्तविपत्तया प्रसिद्धम् । उपनयति
संकणीयं च जं वत्युं, अप्पडीकारमेव य। तं वत्युं सुट्टु जाणेज्जा, जुंज्जंते जेऽणुजोइता।।
।।२२-१२ ।। यद् वस्तु शङ्कनीयम् हुताशादिसङ्काशतया यत्सकाशाद् भेतव्यम्, वर्जनीयं च यत्। अत्रैव बीजमाह अप्रतिकारमेव यत् यदापादितविकारस्य प्रतिक्रिया नैव विद्यते, तद्वस्तु सुष्ठु जानीयात् तद्वर्जनानुगुणतया तल्लक्षणादीनि सम्यगवगच्छेत्। अवगमफलमेवाह- योऽनुयोजयिता - उक्तसञ्ज्ञानेन कारितात्मयोगः, तेन युज्यन्ते सर्वसम्पदः स्वयंवरा इव संसृज्यन्ते । सञ्ज्ञानस्य कुर्वद्रूपतया क्रियाद्वारेण फलावहत्वनियमात्। सञ्ज्ञानमेव स्पष्टयति -
जत्थत्थी जे समारंभा, जे वा जे साणुबंधिणो । ते वत्थु सुटु जाणेज्जा, यो सव्वविणिच्छये ।।
-
-
-
।।२२-१३।। यत्र - अनुष्ठानविशेषे, ये समारम्भाः - सम्यक्क्रियाभेदाः, सन्ति विद्यन्ते । ये वा ये, वीप्सा समयपरिभाषया, प्राधान्यप्रदर्शनार्थं वा, सानुबन्धिनः - पारम्पर्येणापि सत्फलानामवन्ध्यबीजभूताः, तानि वस्तुनि सुष्ठु जानीयात्, इतरेषां
१. क ण णेयो सव्वविणिच्छए। ढ-न-प- च्छये ख-ज-ठ-थ-ध- णेया सच्चविणिच्छये । ण-ट- णेय सव्वविणिच्छये गट- णेय सव्वविणिच्छये घ-झ-त- णेव सव्वविणिच्छये। चणेय सव्वविणिच्छए।
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - कथञ्चित् फलदत्वेऽपि विपाकविरसत्वात् । एवमितरेषामज्ञानमेव श्रेय इत्यर्थादापन्नमिति चेत् ? न प्रतिपक्षावगममन्तरेण प्रस्तुतसञ्ज्ञानस्यैवासम्भवात्, हेयहानौ तदुपयोगाच्चेत्याह - ज्ञेयः सर्वविनिश्चयः - हेयोपादेयानां निःशेषानां विनिर्णयः कर्तव्य इति । विनिर्णयोपायमाह
जेसिं जहिं सुहुप्पत्ती, जे वा जे साऽऽणुगामिणो । विणासी अविणासी वा, जाणेज्जा कालवेयवी ।। ।।२२-१४।।
येषाम् – अनुष्ठानानाम् यत्र - देशकाले सुखोत्पत्तिः शक्यसाधनम्, एतेनाशक्यारम्भः प्रतिक्रुष्टः, तस्योत्तरकालमावश्यकपरिहाणिशरीरग्लान्यादिजनकत्वेनोत्तरशुभानुबन्धानुवृत्त्यनुपपत्तेः, आज्ञाशुद्धं प्रेक्षापूर्वकं स्वसाध्यानुष्ठानं हि सुवर्णघटसदृशम्, तद्विपरीतं च मृन्मयघटसदृशम्, निरनुबन्धत्वात्, अत एवोक्तं चारित्रिलक्षणे - जो सक्कं आरभइ - इति । शक्यारम्भोक्तेर्नाशक्यमारभते, न च शक्ये प्रमाद्यतीत्युभयार्थे तात्पर्यमित्यवधेयम् ।
शक्यारम्भमेव प्रकारान्तरेणाह - ये वा ये सानुगामिनः उक्तरीत्या सुवर्णघटसन्निभत्वेन कदापि स्वभावान्वयममुञ्चन्तः, सानुबन्धिन इति हृदयम्, वीप्सा प्राग्वत् ।
एतदेव प्रकारान्तरेणाऽऽह विनाशी नश्वरप्रकृतिरयं योगः, सकृत्फलदानमात्रावसान इत्यर्थः, अविनाशी वा सन्ततं सिद्ध्यन्तरानुसन्धानेनाक्षयनिधिनिभो वा । तदेतत् सर्वं कालः
१. उपदेशरहस्ये ।।१०।।
२३४
-
-

Page Navigation
1 ... 137 138 139 140 141