Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
उदयमेत्थ वासाइएहिं ति आवका (आयात्युदकमत्र वर्षादिभिरित्यावका) - पुष्करिणी, तामेव विशेषयति- मधुरमुदकं यस्यां सा मधुरोदका, सेव । अयं भावः, यथा ह्युक्तविशेषणविशिष्टा पुष्करिण्यापातमात्रमधुरा, तत्सक्तस्य ग्राहगणसकाशान्मरणान्तप्रत्यपायसम्भवात्, एवं स्त्रीष्वपि ज्ञेयम्, तदुक्तम् - दुट्ठगाहा इव वावी अणवगाहाओ - इति', तदवगाहने प्रत्यपायध्रौव्यात्, ताडकं सस्पृहं तस्याः, पश्यन्मूढः परे भवे । नरो नरकपालेभ्यस्ताडं कं न सहिष्यते इति ।
-
-
२२७
उपमान्तरमाह - फुल्ला - विकचिता, रम्या - मनोज्ञा, पद्मिनीव । सा यथा सूर्यास्तानन्तरं मुकुलिता भवति, अतः प्राग् रुचिराऽपि पश्चादसुन्दरा स्यात् एवं चञ्चलेक्षणाऽपि व्यतिक्रान्तयौवनाऽतिबीभत्सभावं भजते, उक्तं च - पीणत्थणनमियंगी जा पुव्वं नयणमणहरा आसि । स च्चेव जरघुणजज्जर बीभच्छा होइ दुप्पिच्छा ।। जा सव्वसुंदरंगी सविलासा पढमजुव्वणक्कंता । सच्चेव जराजुण्णा अमणुण्णा होइ लोयस्स - इति । नगनदीस्यदोपमत्वाद्यौवनस्य तद्व्यतिक्रान्तिरप्यचिरादेवेति नोपमानवैषम्यम् ।
यद्वा यौवनस्थैव तथास्वभावतोऽरम्यतां प्रतिपद्यते, क्षणिकचित्तानुभावेन विरक्तत्वमुपगम्यामनोज्ञा भवतीति हृदयम्, यदाह - विषं विरक्ता स्त्री - इति ।
स्यादेतत्, तदनुरागकाले तु सुखसम्भव एवेति नैकान्तहेयता
१. तन्दूलवैचारिके । । १५५ ।। २. शृङ्गारवैराग्यतरङ्गिण्याम् ।।१४।। ३. आराधनापताकायाम् ।।६२०-६२१ ।। ४. यौवनं नगनदीस्वदोपमम् श्रावकाचारे । ।१४-१ ।।
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् -
पक्ष्मलदृशामिति चेत् ? न, क्षणिकचित्तत्वादेव, यदुक्तम् - क्षणं रुष्टाः क्षणं तुष्टास्तुष्टरुष्टाः क्षणे क्षणे । अनवस्थितचित्तानां, प्रसादोऽपि भयङ्करः इति । को हि बुधो विज्ञाय विषमाधुर्यमास्वादयेदिति ।
उपमान्तरमाह - व्यालाः - दन्दशूकाः, तैराक्रान्ता समन्ताद्व्याप्ता, मालतीव जातिपुष्पगुच्छवत्, अवयवेऽवयव्युपचारात्। यथा ह्यस्य सौरभमार्दवादयो गुणा भुजङ्गदंशादिदोषाक्रान्ततया हेया एव, तथा प्रकृतेऽपि बोध्यम्, यतः - स्मरक्रीडावाप्यां वदनकमले पक्ष्मलदृशां, दृढासक्तिर्येषामधरमधुपानं विदधताम्। अदूरस्था बन्धव्यसनघटना क्लेशमहती, विमुग्धानां तेषामिह मधुकराणामिव नृणाम् इति । व्यसनहेतुतामेवास्या निदर्शयति -
२२८
-
-
-
हेमा गुहा ससीहा वा, माला वा वज्झकप्पिता । सविसा गंधजुत्ती वा, अंतो दुट्ठा व वाहिणी ।। २२-५ ।। हैमी - सुवर्णघटिता, गुहा - कन्दरा, ससिंहेव, सा यथा काञ्चनाकृष्टानामप्यनभिगम्यैव भवति । मालेव वध्यकल्पिता, पुरा हि वध्यस्थाने नेतव्यानानां चौरादीनां मालादिमण्डनं कृत्वा नयन्ति स्मेति प्रसिद्धम्, तद्यथा मण्डनमप्यस्पृहणीयमेव । सविषा गन्धयुक्तिरिव कालागरुप्रमुखसुगन्धिद्रव्याणां योजनमिव गन्धविषभावितम्, यज्जिघ्रतोऽपि विषानुभावेन मृतिः सञ्जायते, सा यथा सुगन्ध्यप्यनुपभोग्यैव, अन्तर्दुष्टा - उपरितनभागे प्रशान्ततया १. शृङ्गारवैराग्यतरङ्गिण्याम् ।। ३६ ।। २. परिधापिता ।

Page Navigation
1 ... 134 135 136 137 138 139 140 141