Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पाता
न-ऋषिभाषितानि
-२२३ तथा पुरुष एव प्रवरः - उत्कृष्टो येषु ते पुरुषप्रवराः, परम-पुरुषदेशितत्वात्। न चैवं स्त्रीतीर्थस्यापि सम्भवात् स्त्रीणामप्युत्कृष्टता स्यादिति वाच्यम्, तस्याश्चर्यभूतत्वेन कदाचिदेव सम्भवात्, सामान्यविचारस्य च प्रकृतत्वात्।
तथा पुरुष एव ज्येष्ठो येषु ते पुरुषज्येष्ठाः, उक्तहेतोः, अन्वाह च - धम्मो पुरिसप्पभवो, पुरिसवरदेसिओ पुरिसजिट्ठो। लोए वि पहु पुरिसो, किं पुण लोगुत्तमे धम्मे - इति ।
तथा पुरुषेणैव कल्पिताः - अधिकृताः, पुरुषकल्पिताः, एतच्च प्रव्रज्यादानादिविषयमवगन्तव्यम्, तत्र स्त्रियामनधिकारात्। एवं पुरुषेण - तीर्थकरेण, प्रद्योतिताः - प्रकाशिताः, पुरुषप्रद्योतिताः। पुरुषसकाशात् सम् - सम्यक्, अनु - केवलज्ञानोत्पत्त्यनन्तरम्, आगताः - सम्प्राप्ताः, भव्यजनैरधिगता इत्यर्थः, एतेनैषां केवलिप्रज्ञप्ततया प्रामाण्यमुक्तम्। अतः पुरुषमेवाभियुज्य - तत्सापेक्षतया तिष्ठन्ति।
स यथा नामाऽरतिः - व्याध्यादिजनिता व्यथा स्यात्, सा शरीरे जाता - उत्पन्ना, शरीर एव वृद्धा, शरीर एव सुतरामनु - अजीर्णाद्यनन्तरमागता - प्रकोपं प्राप्ता, शरीरमेवाभियुज्य तदाश्रिततया तिष्ठति, तदेकसम्बन्धिनीत्वात्तस्याः। एवमेव धर्मा अपि पुरुषादिका यावत्तिष्ठन्ति। एवं गण्डः, वल्मीकः, स्तूपः, वृक्षः, वनखण्डः, पुष्करिणी - इत्येषामपि पूर्ववदालापको बोध्यः। तत्र विशेषमाह- नवरं पृथव्यां जाता
२२४
-आर्थोपनिषद्भणितव्याः । तत्रापवादमाह- उदकपुष्करे - जलपूर्णे सरसि, उदकम् - जलम्, नेतव्यम् - प्राग्वदनुसन्धेयम्। स यथा नामकोऽग्निकायः स्यात्, ऋच्छति प्रापयत्यग्निम् - अरणिः - निर्मन्थदारु, ऋ गतौ प्रापणे च, तस्मिन् जातः, यावदरणिमेवाभिभूय - तमभिभावितं कृत्वा - तं व्याप्येति यावत् तिष्ठति, एवमेव धर्मा अपि पुरुषादिका इत्यादि तदेव, पूर्वालापक ऊह्यः।
अत एव वर्षशतदीक्षिताया अप्यार्याया अद्यदीक्षितः साधुः पूज्यः, तदार्षम् - वरिससयदीक्खियाए, अज्जाए अज्जदीक्खिओ साहु। अभिगमणवंदणनमंसणेण विणएण सो पुज्जो - इति । इतश्च पुरुषप्राधान्यम्, निसर्गतो गुणसम्भवास्पदत्वात्, न च तुल्यमपरयेति वाच्यम्, तुच्छा गारवबहुला इत्यागमबाधात्। अतस्तदप्राधान्यमेव तत्कल्याणनिबन्धनम्, प्राधान्यप्राप्त्या दोषोद्रेकयोगेनानल्पानर्थसम्भवात्। अत एव स्त्रीणां दृष्टिवादाध्ययननिषेधः, अहो ! ऽहम्, या दृष्टिवादमपि पठामि - इत्यादिदर्पादिनाऽनर्थयोगात्।।
न चैष पुरुषपक्षपात इति वाच्यम्, लौकिकेऽप्यस्यैव न्यायस्य दृष्टत्वात्, तथा चाभिहितम् - नातीव स्त्रियो व्युत्पादनीयाः - इति । यत एवं ततः प्राप्तप्राधान्यायां स्त्रियां व्यतिपात एव, यदाह - स्त्री पुंवच्च प्रभवति तदा तद्धि गेहं विनष्टम् - इति ।
१. धर्मेषु । २. उपदेशमालायाम् ।।१६।।
Ashopnisad_2.p65
2nd Proof
१. उपदेशमालायाम् ।।१५।। २. नीतिवाक्यामृते ।।२४-४५||

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141