Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 133
________________ ऋषिभाषितानि २२१ जीवात् पृथग्भवनस्वभावत्वात् । यद्वा क्रियते - सम्पाद्यते सञ्जातविषयतृष्णैरिति कर्म - स्पर्शादिविषयविसरः, स च भिदुर एव स्वभावतः, अपरिशाटिन: - ज्ञानगर्भवैराग्ये निश्चल - प्रकृतयः, बुद्धाः ज्ञानानन्दात्मकस्वभावबोधसम्पन्नाः । तस्मात् खल्वपरिशाटिनो बुद्धा नोपलिप्यन्ते रजसा कर्मणा, विषयानुपभोगात्, उपलेपबीजरागादिविरहाद्वा, यथोक्तम् - उवलेवो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भमइ संसारे, अभोगी विप्पमुच्चई । । उल्लो सुक्को य दो छूढा, गोलया मट्टियामया । दो वि आवडिया कुड्डे, जो उल्लो सोऽत्थ लग्गई । एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहा से सुक्कगोलए इति । अत्रार्थे दृष्टान्तमाह- पुष्करपत्रमिव कमलदलमिव, वारिणा - जलेन, यथोक्तम् - पुक्खरपत्तं व मुक्कतोये इति । भावब्राह्मणतामनुप्राप्त इति तात्पर्यम्, यथोक्तम् - जहा पोम्मं जले जायं, नोवलिप्पइ वारिणा। एवमलित्तं कामेहिं, तं वयं बूम माहणं इति । - - - - - किमुपज्ञमिदमित्याह - दगभाले (गर्दभे) नार्हतर्षिणोदितमिति। प्रत्येकबुद्धेनानेन बुद्धनिदर्शनं लेपोपरतय उपन्यस्तम्, लेपस्य परम-निमित्तं च ललनैव, यदागमः - नेयारिसं दुत्तरमत्थि लोए, जहित्थीओ बालमणोहराओ इति । अत एव तन्नामापि विकारजननसमर्थम्, तदाह नामापि स्त्रीति संहलादि, विकरोत्येव १. उत्तराध्ययने ।। २५/३९-४१ ।। २. कल्पसूत्रे । ३. उत्तराध्ययने ।। २५-२७ ।। ४. उत्तराध्ययने ।।३२-१७।। Ashopnisad_2.p65 2nd Proof २२२ • आर्षोपनिषद् - मानसम्। किं पुनर्दर्शनं तासां विलासोल्लालितभ्रुवः - इति । तदवदामान्यत्र यच्चित्रमपि चारित्रचीरचौरम्, तासु किं चित्रम् ? - इति । अतस्तद्विरक्तिप्रतिपत्तये पुरुषमाहात्म्यमाह - पुरिसादीया धम्मा पुरिसप्पवरा पुरिसजेट्ठा पुरिस - कप्पिया पुरिसपज्जोविता पुरिससमण्णागता पुरिसमेव अभिउंजियाणं चिट्ठति । से जहाणामते अरती सिया सरीरंसि जाता सरीरंसि वड्ढिया सरीरसमण्णागता सरीरं चेव अभिउंजियाण चिट्ठति, एवामेव धम्मा वि पुरिसादीया जाव चिट्ठति । एवं गंडे वम्मीके थूभे रुक्खे वणसंडे पुक्खरिणी, णवरं पुढवीय जाता भाणियव्वा, उदगपुक्खले उदगंतव्वं । से जहाणामते अगणिकाए सिया अरणीय जाते जाव अरणं चेव अहिभूय चिट्ठति, एवमेव धम्मा वि पुरिसादीया, तं चेव । । २२ - २।। धर्माः - दानादिलक्षणाः, श्रुतचारित्ररूपौ वा, देशसर्वविरत्यात्मकौ वा, क्षायिकक्षायोपशमिकलक्षणौ वा, पुरुषेणादिः प्रारम्भः, येषां ते पुरुषादिकाः, तीर्थकरप्रवर्तितत्वात्, आइगराणं - धम्मदयाणं - इत्युक्तेः। अन्यत्रापि पुरिसादीया धम्मा - इति । माहात्म्यख्यापनाय धर्मादिकारकतोक्तिस्त्रैलोक्यसारत्वाद्धर्मस्य, उक्तं च धर्मश्चिन्तामणिः श्रेष्ठो, धर्मः कल्याणमुत्तमम्। हित एकान्ततो धर्मः, धर्म एवामृतं परम् - इत्यादि । - - १. सत्त्वोपनिषदि ।।१५।। २ शक्रस्तवे । ३. वृहत्कल्पे ||३५३ ।। ४. धर्मविन्दी ||४१ ।।

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141