Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 131
________________ लऋषिभाषितानि - २१७ सरन् - तत्राविरतं भ्राम्यन्, दुःखजालकम् - दुःखसमूहमवाप, उक्तं च - दुःखं जन्म जरा दुःखं, दुःखं मृत्युः पुनः पुनः। संसारमण्डलं दुःखं, पच्यन्ते यत्र जन्तवः - इति । अज्ञानविजृम्भितान्येव निदर्शयति - दीवे पातो पयंगस्स, कोसियारिस्स बंधणं। किंपाकभक्खणं चेव, अण्णाणस्स णिदसणं।। ॥२१-७॥ पतङ्गस्य - शलभस्य, दीपे पातः - स्वरसेन तत्र पतनम्, परिप्लोषेण मरणं च, यथोक्तम् - कनकच्छेदसङ्काशशिखालोकविमोहितः। रभसेन पतन् दीपे, शलभो लभते मृतिम् - इति । अन्यदाह - कोशिकारिणः - कीटविशेषस्य बन्धनम्स्वरचिततन्तुजाल एवात्मनः सुदृढं वेष्टनम्, एतदपि विपाकविरसमिति नाप्रसिद्धम्। चैव - तथा किम्पाकम् - आपातमात्रमधुरं विषफलम्। तस्य भक्षणम् - निर्नष्टविवेकप्रज्ञकृताभ्यवहरणम्। तदेतत्रितयमज्ञानस्य निदर्शनम्, न ह्यज्ञानमन्तरेणैतादृश्यात्मघातिनी प्रवृत्तिः सम्भवति, तदाह - अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः। अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः - इति । निदर्शनान्तरमाह बितियं जरो दुपाणत्थं, दिट्ठो अण्णाणमोहितो। संभग्गगातलट्ठी उ, मिगारी णिधणं गओ।।२१-८।। २१८ - आर्षोपनिषद् - जरन् - जराजीर्णशरीरः सिंहः दुःपानम् - विषमशिलाग्राहाद्यपायदोषैर्दुष्टं कासारादिजलपानस्थानम्, तत्र स्थितम् - दुःपानस्थम्, द्वितीयम् - स्वप्रतिबिम्बलक्षणमपरं सिंहम्, दृष्टः अन्तर्भावितक्तवत्वर्थतया दृष्टवान्, अज्ञानम् - न मत्प्रतिबिम्बमात्रमेतत्, अपि त्वपरो मत्प्रतिपक्षः सिंह इत्यज्ञता, तेन मोहितः - सञ्जातमोहोद्रेकः। अत एव स्वप्रतिबिम्बेनैव सह कृतयुद्धाभियोगो विषमशिलासङ्घट्टनेन प्रतिपक्षप्रयुक्तप्रहारं मन्वानोऽधिकतरमभियुक्तो वार्धक्याभिभूतवपुष्ट्वेन, सुतरां भग्ना-चूर्णीभूता गात्रमेव लष्टिः - गात्रयष्टिः, कार्यत्वसाधर्म्यात्, यस्य सः - सम्भग्नगात्रयष्टिः, मृगारिः - कण्ठीरवः, निधनम् - मृत्युम्, गतः - प्राप्नोत्। किञ्च - मिगारी य भुयंगो य, अण्णाणेण विमोहिता। गाहादसणिवातेणं, विणासं दो वि ते गता।।२१-९।। मृगारिश्च - केशरी, भुजङ्गश्च - सर्पः, द्वावप्येतावज्ञानेन विमोहितौ, ग्राहाः - मकराः, तेषामासमन्तादंशः - क्रकचकल्पैर्दशनैः प्रहरणम्, तेषां निपातः, सहसाऽऽत्मनि निपतनम्, तेन द्वावपि तौ विनाशं गतौ। इदमुक्तं भवति- सिंहो हि वनराजत्वेनातीव निर्भयः सर्वेषामप्यधृष्योऽहमितिगर्वगर्वितः सन् - पानीये तु मकरा एव बलिष्ठाः - इति विसस्मार। एवं विषधरोऽप्युग्रविषवत्त्वेन स्तब्धः मकरोपेक्षां विदधे। ततश्च स्वपरबलानभिज्ञौ द्वावपि तौ मकरैर्विनाशं प्रापिताविति। १. इतिहासोपनिषदि । ।३-२ ।। २. योगशास्त्रे।।४-३१।। ३. कोशेटो - इति गुर्जर।। ४. आचाराङ्गे।। १-२-२ ।।७०।। वृत्तावृद्धतम् । Ashopnisad 2.p65 2nd Proof

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141