Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 130
________________ ऋषिभाषितानि -२१५ नाणेण विणा करणं, करणेण विणा न तारयं नाणं। भवसंसारसमुई, नाणी करणट्ठिओ तरइ - इति । अन्यत्रापि - योगहीनं कथं ज्ञानं, मोक्षदं भवति ध्रुवम्। योगोऽपि ज्ञानहीनस्तु, न क्षमो मोक्षकर्मणि - इति । एवं च ज्ञानमूलकमित्यत्रापि तत्समुच्चय एव बोध्यः। पश्चाद्वक्तव्यतामाह - सर्वदुःखानामन्तं कृत्वा शिवमचलं यावच्छाश्वतमभ्युपगतः स्थास्यामीति प्राग्वत्। तत्रावस्थानस्योपायश्चाज्ञाताज्ञानापायानां दुरनुष्ठेय इति तानेवाह अण्णाणं परमं दुक्खं, अण्णाणा जायते भयं। अण्णाणमूलो संसारो, विविधो सव्वदेहिणं।।२१-३।। अज्ञानम् - मिथ्यात्वावृतात्मपरिणामः, परमम् - उत्कृष्टम्, दुःखम्, सर्वदुःखातिशायित्वात्। उक्तं च - अज्ञानसदृशं दुःखं नास्ति किञ्चिज्जगत्त्रये - इति। अतोऽज्ञानादेव भयम् - ऐहिकादिसप्तविधसाध्वसात्मकम्, जायते। सर्वदेहिनाम्- अशेषशरीरिणाम्, अज्ञानमूलो विविधः - अनन्तजन्मादिसङ्कुलतयाऽपर्यवसितप्रकार: संसार:-नारकादिपर्यायेषु संसरणम्, मिथ्यात्वक्षयेऽवश्यं तन्निस्तरणात्। साध्वसतामेवाज्ञानस्य निदर्शयति - मिगा बझंति पासेहिं, विहंगा मत्तवारणा। मच्छा गलेहिं सासंति, अण्णाणं सुमहब्भयं ।।२१-४।। मृगाः - मुग्धहरिणाः, विहङ्गाः - पक्षिणः, मत्तवारणा: - मदोद्रेकमापन्ना हस्तिनः। एते यथासङ्ख्यं शब्द-रस१. चन्द्रवेध्यके ।।७३ ।। २. योगशिखोपनिषदि ।।१-१३ ।। ३. अध्यात्मगीतायाम् ।।३५।। २१६ - आर्षोपनिषद्स्पर्शमोहितमतितया हिताहितानभिज्ञत्वात् पाशैः - बन्धनग्रन्थिभिर्बध्यन्ते। तथा मत्स्या गलैः - बडिशैः शास्यन्ते शिक्ष्यन्ते, आमिषगृद्धिकृतापराधतया दण्ड्यन्त इति यावत्। इत्थं चाज्ञानं सुतरां महद् भयम् - सुमहद्भयम्, भयापरिज्ञानस्यैव प्रतिबन्धकतया तन्मोक्षप्रत्यूहत्वात्, तदाह - भयमेव यदा न बुध्यते स कथं नाम भयाद्विमोक्ष्यते ? - इति । ततः - जम्मं जरा य मच्चू य, सोको माणोऽवमाणणा। अण्णाणमूलं जीवाणं, संसारस्स य संतती।।२१-५।। जन्म जरा च मृत्युश्च शोको मानोऽपमानना, संसारस्य सन्ततिश्च - चतुरशीतिलक्षयोनिषु संसरणपरम्परा, एतत्सर्वं जीवानामज्ञानमूलम्, जन्मादेः कर्महेतुकत्वात्, तस्य चाज्ञाननिमित्तकत्वात्, यदाह - अण्णाणमओ जीवो कम्माणं कारगो होदि - इति । तस्मात् - अण्णाणेण अहं पुव्वं, दीहं संसारसागरं। जम्म-जोणिभयावत्तं, सरिन्तो दुक्खजालकं।।२१-६।। पूर्वम् - सज्ज्ञानाधिगमात् प्राक्तनकाले, अहमज्ञानेन - मिथ्यात्वमोहानुभावेन, दीर्घम्, अनन्तैरपि पुद्गलपरावत्तैर्निष्ठाविरहात्, जन्म - निःशेषदुःखसन्दोहनिबन्धनोत्पत्तिः, योनयः - समासतश्चतुरशीतिलक्षसङ्ख्याकान्युत्पत्तिस्थानानि, द्वयमेवैतद् भयम् - सर्वभयातिशायित्वात्तदावहत्वाच्च, तदेवावर्त्तः पयसां भ्रमो यत्रेति- जन्मयोनिभयावर्त्तम्, कमित्याह - संसारसागरम्, १. सिद्धसेनी द्वात्रिंशिका ।।४-९ ।। २. समयसारे ।।९२ ।। Ashopnisad_2.p65 2nd Proof

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141