Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 128
________________ २१२ नर-ऋषिभाषितानि २११ केसग्गमत्थका एस आयाप(ज्जवे) क(सिणे) तयपरितंते एस जीवे, एस मडे, णो एतंतं (जीवितं भवति)। से जहाणामते दड्डेसु बीएसु एवामेव दट्टे सरीरे। तम्हा पुण्णपावऽग्गहणा सुह-दुक्खसंभवाभावा सरीरदाहे पावकम्माभावा सरीरं डहेत्ता णो पुणो सरीरुप्पत्ती भवति।।२०-८॥ तस्मात् - वक्ष्यमाणापेक्षासकाशात्, एतत् - देहात्मवाद्यभिहितम्, सम्यक् - समीचीनम्, इति ब्रवीमि। ऊर्ध्वमित्यादि प्राग्वत्। एष आत्मपर्यायः - त्रिकालभाविनोऽन्वय्यात्मद्रव्यस्यैहिकभवावस्थाविशेषः। कृत्स्न: - सम्पूर्णः, प्रदेशमात्रस्यापि ततः पृथग्भावासम्भवात्। त्वक्पर्यन्त एष जीवः, स्वदेहपरिमाण इत्यर्थः, निर्गुणावस्थानासम्भवेन तद्विभुत्वायोगात्, उक्तं च- यत्रैव यो दृष्टगुणः स तत्र, कुम्भादिवन्निष्प्रतिपक्षमेतत् । तथापि देहाबहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति - इति । एतेनास्याणुमात्रतापि निरस्ता, अन्यत्र तद्गुणाननुभवप्रसङ्गात्। एष - शरीरावस्थाविशेषः, मृतः - परासुः, निःसृतजीवत्वात्। अत्रेदं त्ववधेयम् - नो - नैव, एतदन्तम् - शरीरमृतिपर्यवसितम्, जीवितम् - प्राणधारणं भवति, अजीवत् - जीवतिजीविष्यतीति जीवपदार्थत्वात्, न चैवं मुक्तौ शून्यताप्रसङ्गः, श्वासोच्छ्वासादिविरहादिति वाच्यम्, तत्रापि ज्ञानादिभावप्राणैर्जीवनाभ्युपगमात्। ___ कदा तर्हि द्रव्यप्राणात्यन्तिकवियोग इति चेत् ? मुक्त्य१. अन्ययोगव्यवच्छेदद्वात्रिंशिकायाम् ।।९।। आर्षोपनिषद् - वस्थायामिति गृहाण। कथमिति चेत् ? शरीरस्यैवाभावादिति निदर्शयति-स यथा नामको दग्धेषु बीजेषु तेभ्योऽङ्कुरोत्पत्तिर्न सम्भवति, एवमेव दग्धे शरीरे - कार्मणलक्षणे, नैव पुनः शरीरोत्पत्तिर्भवति। तदुक्तम् - दग्धे बीजे यथात्यन्तं, प्रादुर्भवति नाङ्कुरः। कर्मबीजे तथा दग्धे, नारोहति भवाङ्कुरः - इति । तस्मात् - एकान्तिकात्यन्तिककर्मबन्धहेतुविच्छेदात्, पुण्यपापयोरग्रहणम्, तस्माच्च तज्जन्ययोः सुखदुःखयोः सम्भवः - जन्म, तस्याभावः, हेतौ विलीने न फलस्य भाव इतिनीत्या। तस्माच्छरीरदाहे - शुक्लध्यानानलेन कार्मणशरीरप्लोषे कृते सति, पापकर्म - मुक्तिप्रतिबन्धकयत्किञ्चित्कर्म, तस्याभावात्, शरीरम् - कार्मणकायम्, दग्ध्वा - क्षपकश्रेणि-समुद्धातशैलेषीकरणैर्भस्मसात्कृत्य, न - नैव, पुनः शरीरोत्पत्तिर्भवतीत्युक्तार्थम्। कार्मणशरीरक्षयोऽपि प्रायस्तत्क्षयोपशमक्रमेण सम्भवतीत्याहएवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।। एवमित्यादि प्राग्वत्। इति विंशतितम उत्कटाध्ययन आर्षोपनिषद् । ॥ अथैकविंशतितमोऽध्यायः ।। अनन्तराध्ययने नास्तिकपञ्चकोपन्यासः कृतः। तैर्निभृते जगत्यज्ञानसाम्राज्यमिति स्वचरितानुवादेनैवाऽऽह Ashopnisad_2.p65 2nd Proof १. तत्त्वार्थभाष्यसम्बन्धकारिकायाम् ।।२-८।।

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141