Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 127
________________ लऋषिभाषितानि -२०९ तथाहि - अहमिति प्रत्ययः सर्वजीवानां प्रत्यक्षसिद्धः। 'न चायमवस्तुकः सन्दिग्धवस्तुको वा, अशाब्दत्वादप्रतिक्षेपाच्च। न च लैङ्गिकः, अननुसंहितलिङ्गस्यापि स्वप्रत्ययात्। न च स्मृतिरियम्, अननुभूते तदनुपपत्तेः। इतश्चात्मसिद्धिः, सुखादिसंवेदनात्। भवति हि "सुख्यहम्” - “दुःख्यहम्' इत्यादिप्रतीतिः सर्वेषाम्। न चेदं प्रत्यक्षं न यथोदितात्मतत्त्वग्राहकम्, अन्तर्मुखाकारतया परिस्फुरणात्, नाप्यस्येत्थं परिस्फुरतः शरीरादिगोचरान्तरपरिकल्पनं न्याय्यम्, नीरादिप्रतिभासिनोऽप्यवभासस्य विश्वम्भरागोचरत्वापत्तेः, अरूपाद्यात्मकतत्त्वपरिच्छेदकत्वाच्च। न च स्थूलोऽहमित्याद्यहंप्रत्ययेन देहालम्बनेन व्यभिचारः, तस्यात्यन्तोपकारके भृत्येऽहमेवायमिति स्वामिप्रत्ययवदत्यन्तोपकारके शरीर उपचारतो जायमानस्याऽरूपाद्यात्मकतत्त्वपरिच्छेदकत्वासिद्धेः, बहिःकारणनिरपेक्षत्वे सत्यहङ्कारास्पदत्वाच्च। अन्यथा तु नेत्रादिभिरहम्प्रत्ययप्रसङ्गः, न चेदं दृष्टमिष्टं वा। उक्तं च - न चाहम्प्रत्ययादीनां शरीरस्यैव धर्मता। नेत्रादिग्राह्यतापत्तेर्नियतं गौरवादिवत् - इति । इत्थं चात्मद्रव्यसिद्धौ परलोकपुण्यपापादिसिद्धिरप्यवगन्तव्या। परलोकसिद्धावयं तर्क:- तत्रैव वासरे जातः, पूर्वकेणात्मना विना। अशिक्षितः कथं बालो, मुखमर्पयति स्तने ? इति । तस्मादत्रानाहतमामुष्किकानुभवहेतुत्वम्, न च तदनुभव ऐहिकशरीरस्य, २१० आर्षोपनिषद्असम्भवादिति। ___पुण्यपापविरहे समानेऽपि रसायनाडुपयोगे यमलकयोः कस्यचित् क्वापि प्रज्ञामेधादिकमिति प्रतिनियमो न स्यात्, रसायनाडुपयोगस्य साधारणत्वात्, तदाह - दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनोः। विशेषो वीर्यविज्ञानवैराग्यारोग्यसम्पदाम् - इति । इतश्च पुण्यादिसिद्धिः, संवित्तिविशेषात्, तदाह- राजरङ्कादिवैचित्र्यमप्यात्मकृतकर्मजम्। सुखदुःखादिसंवित्तिविशेषो नान्यथा भवेत् - इति । न च निर्हेतुकोऽसौ, कार्यत्वात्, घटवत्, योऽसौ हेतुः, स एव कर्म, दृष्टस्य व्यभिचारपरास्तत्वात्, तदुक्तम्अस्थि सुहदुक्खहेऊ कज्जाओ बीयमंकुरस्सेव। सो दिट्ठो चेव मई वभिचाराओ न तं जुत्तं ।। जो तुल्लसाहणाणं फले विसेसो न सो विणा हेउं। कज्जत्तणओ गोयम ! घडो ब्व, हेऊ य सो कम्मं - इति । अत एवाहुः परेऽपि-कर्मजं लोकवैचित्र्यम् - इति । तदेवं स्थिते देहात्मवादोऽसम्यक्तया व्यवस्थितः, तथाऽपि मा भूत्तत्र प्रद्वेषात् समताविघात इति तद्विषयो मृग्यः, तत्रापि कथञ्चिन्निहितसद्वचनस्य दृष्टिवादमूलत्वात्, यदाह- तत्रापि च न द्वेषः कार्यः, विषयस्तु यत्नतो मृग्यः। तस्यापि न सद्वचनं सर्वं यत् प्रवचनादन्यत् - इति । अत आह तम्हा एतं सम्मं ति बेमि - उडू पायतला अहे Ashopnisad 2.p65 2nd Proof १. न्यायमञ्जम् ।।५-४७१ ।। २. अध्यात्मसारे ।।१३-२४ ।। ३. विशेषावश्यकभाष्ये ।।१६१२-१६१३ ।। ४. अभिधर्मकोपे ।।४-१।। ५. पोडशके ।।१६-१३ ।। १. आत्मतत्त्वविवेके । २. अध्यात्मसारे ।।१३-१७।। ३. स्याद्वादरहस्यबृहद्वृत्तौ ।

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141