Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
२०७
कृत्स्नः
अधोभागे, केशाग्रमस्तकाः वालाग्राणि मस्तकं च । एष आत्मपर्यायः, देहात्मवादेऽयमेव जीवस्य सर्वाद्यवस्थाविशेषः, गर्भावस्थायां ऊर्ध्वपादाधोमस्तकसंस्थानेन संस्थितत्वाज्जीवस्य । ननु - सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं । अब्बुया जायए पेसी, पेसीओ विघणं भवे' इत्युक्तेर्देहात्मवादेऽपि पूर्वतनपर्याया घटत एवेति चेत् ? न तद्देशमात्रत्वादित्याह बुद्धिकर्मेन्द्रियास्थिशिरादिसहिततयाऽऽद्यः सम्पूर्णः पर्यायोऽयमेवेति । त्वक्पर्यन्तः - चर्मावसानो जीवः, ततः एतेनास्य सर्वगतताऽपास्ता । एष जीवो जीवति, न तदर्वाक् कदापि प्राणधारणमभूदिति भावः । किमुक्तं भवति - एतदेव तत् - जीवसम्बन्धि जीवितं भवति, नानेकधोपकल्पिते परलोके कस्यचिज्जीवनमस्तीत्याशयः ।
परस्तात्तदभावात्,
-
-
स्यादेतत्, गर्भावस्थायाः प्राग् जीवनासम्भवेऽपि मरणानन्तरमवश्यं तत्सम्भवः, शुभाशुभकृत्यानां वन्ध्यत्वविरहात्, अतोऽवश्यमेतदनुरोधेन परलोकोऽकामेनाप्यभ्युपेय इति चेत् ? सोऽयं देवानांप्रिय आम्रेडितमपि नावबुध्यत इति दृष्टान्तेन स्फुटीक्रियते स यथा नामकः, बीजेषु दग्धेषु सत्सु न - नैव, पुनस्तत्सकाशात्, अङ्कुरोत्पत्तिर्भवति, अङ्कुरजननसामर्थ्यस्यात्यन्तिकतयोच्छिन्नत्वात् । एवमेव दग्धे शरीरे न पुनः शरीरोत्पत्तिर्भवति । तदवदाम - भस्मीभूतस्य देहस्य, पुनरागमनं कुतः ? - इति ।
१. तन्दूलवैचारिके । ।सु. २ ।।
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - तस्मादिदमेव जीवितम्, न शठोपकल्पितातीतानागतभवसन्ततिरिति भावः, एतदेवाह - नास्ति परलोकः, परलोकिन एवाभावात् । नास्ति सुकृतदुष्कृतानाम् - शुभाशुभानाम्, कर्मणाम् - मनोवाक्काययोगानां फलवृत्तिविशेष: दानेन
स्वर्गः, हिंसया नरकः - इत्यादिपरिकल्पितपरिणामस्य परमार्थसद्भावः । यतः नो - नैव, प्रत्यायान्ति - पुनर्भव उद्भवन्ति जीवाः, देहविनाशेन विनष्टत्वात्, तद् ब्रूमः नत्थि पुणे व पावे वा, नत्थि लोए इतोऽवरे। सरीरस्स विणासेणं, विणासो होइ देहिणो इति । अतः प्रतिजानीमः - तं जीवो तं सरीरं, नो अन्नो जीवो अन्नं सरीरं - इति ।
अतो नो स्पृशन्ति पुण्यपापे भवत्परिकल्पितप्रक्रियया शुभाशुभकर्मबन्ध एव न भवति, यतः अफले कल्याणपापके दानहिंसादिशुभाशुभकृत्ये निष्फले, परलोकाभावादेवाऽभिमतस्वर्गादिफलाभावात्। तदेतद्देहात्मवादिवक्तव्यम्।
२०८
-
-
अत्र प्रतिविधीयते - यत्तावद्भूतसमुदयमात्रोक्तेरात्मनिराकरणमुक्तम्, तत्तत्त्वान्तराभावे सिद्धे सिद्ध्येत्, इत्थमेव समुदयमात्रमिदं कलेवरम् - इत्यस्य सिद्धियोगात् । तदभावश्वासिद्धः, सुखदुःखेच्छाद्वेषप्रयत्नसंस्कारादेस्तत्त्वान्तरत्वेनावस्थितत्वात् । पृथिव्यादिभिरेव तदभिव्यक्तेर्न तत्त्वान्तरमिति चेत् ? न, घटप्रदीपानां व्यङ्ग्यव्यञ्जकभावेऽपि तत्त्वान्तरत्वानपायात्, प्रत्यक्षादिप्रमाणप्रसिद्धस्यात्मनश्च तत्त्वान्तरत्वमनिवार्यम् ।
9. सूत्रकृताङ्गे । 19-9-9 ।।१२।। २ औपपातिके । ।१६९ ।।

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141