Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 124
________________ २०४ नल-ऋषिभाषितानि - २०३ देसुच्छेदं वदति, से तं देसुक्कले ४।।२०-५।। अथ किं तत् देशोत्कटः ? इत्यत्राह- देशोत्कटो नाम योऽस्ति न्वेष आत्मा इति सिद्धे सति जीवस्याकर्तृत्वादिकैाहैः - जीवोऽकर्ता - इत्यादिलक्षणैः कदाग्रहैः, देशोच्छेदं वदति - कर्तृत्वाद्यमुकधर्ममपलपति, प्राच्यैस्त्वात्मद्रव्यमेवापलपितमनेन तु तद्देश एवेति देशोच्छेदवाद्ययम्, सोऽयं देशोत्कटः। यथोक्तम् - अन्यस्त्वकर्ता विगुणस्तु भोक्ता - इति । तथा - तस्माद्विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य। कैवल्यं माध्यस्थ्यं द्रष्टुत्वमकर्तृभावश्च - इति । एतदभ्युपगमे कृतनाशादिबहुदोषानुषङ्गः, अनुभवसिद्धस्य कृतिचैतन्यसामानाधिकरण्यस्यापलापश्चेति भावनीयम्। आदिना जीवस्य सर्वगतत्वैकान्तनित्यानित्यत्वोपचारभोक्तृत्वबहुदेहसाधारणत्वादिधर्माऽऽग्रहप्रयुक्तदेशोच्छेदवादग्रहः। एषामपि यथागमं निरासः कर्तव्यः। यथा - यत्रैव यो दृष्टगुणः स तत्र, कुम्भादिवन्निष्प्रतिपक्षमेतत्। तथापि देहाबहिरात्मतत्त्व - मतत्त्ववादोपहताः पठन्ति ।। आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः। एकान्तानित्यरूपेऽपि न भोगः सुखदुःखयोः - इत्यादि। पञ्चममाह - से किं तं सबुक्कले ? सबुक्कले णामं जे णं सव्वतो सव्वसंभवाभावा णो तच्चं, 'सव्वतो - आर्षोपनिषद्सव्वहा सव्वकालं च णस्थि' त्ति सव्वच्छेदं वदति, से तं सबुक्कले ५।।२०-६।। अथ किं तत् सर्वोत्कटः ? सर्वोत्कटो नाम यः सर्वतः सर्वसम्भवाभावान्नो तथ्यम् वास्तविक किञ्चिज्जगत्यस्ति। तस्मात् सर्वतः सर्वथा सर्वकालं च नास्तीति सर्वच्छेदं वदति। अयमस्याशयः - भावानामुत्पादस्यैवाभावात् सर्वशून्यता। उत्पादो हि परैः कल्प्यमानः स्वतो वा परिकल्प्येत, परतो वा, उभयतो वा, अनुभयतो वा ? सर्वतः सर्वथाऽप्युत्पाद एव नोपपद्यते। यत्किमपि भावजातमस्ति तेन सर्वेणापि कार्येण वा भवितव्यम्, कारणेन वा। तत्र कार्य कारणेन क्रियत इति कारणायत्त एव तस्य कार्यत्वव्यपदेशः, न तु कार्यस्य कार्यत्वं स्वतः सिद्धं किमप्यस्ति। एवं कारणमपि कार्यं करोतीति कार्यायत्त एव तस्य कारणत्वव्यपदेशः। न तु तस्य कारणत्वं स्वतः सिद्धं किमप्यस्ति, तदुक्तम् - पटः कारणतः सिद्धः,सिद्धं कारणमन्यतः। सिद्धिर्यस्य स्वतो नास्ति, तदन्यज्जनयेत् कथम् ? - इति । तथा - यो न विद्यते स्वभावतः क्वचित् स न जातु परहेतुमेष्यति - इति । तदेवं कार्यादिभावः स्वतो न सिध्यति, यच्च स्वतोऽसिद्धमस्य परतोऽप्यसिद्धिः, यथा खरविषाणस्य। नाप्युभयतः, व्यस्तादुभयतस्तत्सिद्धेरभावात् तत्समुदायेऽपि तदयोगात्, सिकतासु तैलवत्, इतरेतराश्रयदोषश्चेति भावनीयम्। नाप्यनुभयतः, स्वपरोभयव्यतिरेकेणान्यस्य वस्तुनोऽसत्त्वेन निर्हेतुकत्वप्रसङ्गात्। अतः - न १. शून्यतासप्ततौ ।।१५।। २. आर्यरत्नाकरसूत्रे । १. षड्दर्शनसमुच्चये ।।४१।। २. त्रिगुणविपर्यासादित्यर्थः । ३. साङ्ख्यकारिकायाम् ।।१९।। ४. अन्ययोगव्यवच्छेदद्वात्रिंशिकायाम् ।।९।। ५. वीतरागस्तोत्रे ।।८-२।।। Ashopnisad 2.p65 2nd Proof

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141