Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
यो रज्जूदृष्टान्तेन समुदयमात्रप्रज्ञापनया पञ्चमहाभूतस्कन्धमात्राभिधानानि कुर्वन् संसारसंसृतिः -भवाद् भवान्तरे संसरणम्, तस्या व्युच्छेदं वदति, यथा हि तन्तुसमुदयव्यतिरिक्ता रज्जूर्नैव विद्यते तथा भूतसमुदयभिन्न आत्माऽपीति भावः । शेषं प्राग्वत् । नवरं पञ्चमभूतमाकाशम् । उक्तं च संति पंचमहब्भूया, इहमेगेसिमाहिया। पुढवी आउ तेऊ वा, वाउ आगासपंचमा। एए पंचमहब्भूया, तेब्भो एगोत्ति आहिया । अह तेसिं विणासेणं, विणासो होइ देहिणो - इति ।। सोऽयं रज्जूत्कटः । तृतीयमाह
से किं तं तेणुक्कले ? तेणुक्कले णामं जे णं अण्णसत्यदिट्टंतगाहेहिं सपक्खुब्भावणाणिरए "मम तेत " मिति परकरणच्छेदं वदति, से तं तेणुक्कले
-
-
२०१
३।।२०-४।।
अथ किं तत् स्तेनोत्कटः ? स्तेनोत्कटो नाम योऽन्यशास्त्रदृष्टान्तग्राहैः स्वपक्षोद्भावनानिरतः, अयमाशयः, स्तेन इति चौरः, तत्त्वं ' च न परस्वादानमात्रम्, दानधर्मव्यवच्छेदप्रसङ्गात्, किन्त्वदत्तादानम् । तदाह- अदत्तादानं स्तेयम् इति । एवमत्रापि स्तेन इति यः परपक्षसिद्धान्तेष्वभिहितानां दृष्टान्तानां तदनभिमतार्थोद्भावनेन तथाग्रहणं कुरुते तदननुमतादानं कुरुते, यथा स्वपक्षस्य पुष्टिरुपजायते ।
अत्र निदर्शनम्, यथा कश्चिज्जैनसिद्धान्तात् - स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं,
१. सूत्रकृताङ्गे ।।१-१-१।। ७८ ।। २. चौरत्वम् । ३. तत्त्वार्थसूत्रे । ।७-१० ।।
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् -
तदावरणमभ्रवदिति' दृष्टान्तमुपादाय गुणगुणिभेदैकान्तं स्वपक्षाभीष्टं साधयति, यथा चन्द्रचन्द्रिकयोरेकान्तभेद एवं जीवतज्ज्ञानयोरपीति । न च दृष्टान्त एव विप्रतिपत्तिः, चन्द्रचन्द्रिकयोरभेदादिति वाच्यम्, चन्द्रिकायाः पुद्गलरूपतया पृथग्द्रव्यत्वसिद्धेः । तदाह - संबंधयारउज्जो अपभाछायातवेहि य । वण्णगंधरसा फासा, पुग्गलाणं तु लक्खणं - इति । तस्माद्यथैतयोर्भेदस्तथा जीवतज्ज्ञानयोरपीति ।
२०२
न चालोचयति तात्पर्यम्, यच्छाखाचन्द्रन्यायेन प्रतिपाद्यानुरोधान्निदर्शनमात्रमेतत् । वस्तुतस्तु तद्भेदभावेऽपि जीवतज्ज्ञानयोरभेद एव कथञ्चिन्मन्तव्यः, अतस्तन्निदर्शकेनैवोक्तमन्यत्र - यच्च चन्द्रप्रभाद्यत्र, ज्ञातं तज्ज्ञातमात्रकम् । प्रभा पुद्गलरूपा यत्तद्धर्मो नोपपद्यते - इति । एकान्तभेदाभ्युपगमे तु जीवस्याजीवत्वप्रसङ्गः, ज्ञानशून्यत्वाविशेषादिति सूक्ष्ममीक्षणीयम्, समवायस्य निरस्तत्वादन्यत्र ।
एवं प्रज्ञाप्यमानोऽप्यसौ वदति मम त्वेतदेव मदभिमतार्थविशिष्टमेव दृष्टान्तमस्तु, इति परेण स्वाभिमतसिद्धये प्रयुक्तं करणम् - साधनं हेतुरिति यावत् परकरणम्, तस्य छेदं वदति, असदर्थोद्भावनेन तत्खण्डनं तनुते, तद् हेत्वाभासयतीत्यर्थः। सोऽयं स्तेनोत्कटः । तुर्यमाह
-
से किं तं देसुक्कले ? देसुक्कले णामं जे णं " अस्थि नेस' इति सिद्धे जीवस्स अकत्तादिएहिं गाहेहिं
१. योगदृष्टिसमुच्चये । ।१८३ ।। २. नवतत्त्वे । 199 ।। उत्तराध्ययने ।। २८-१२ ।। ३. अष्टकप्रकरणे । ।३०-६ ।। ४. दृश्यतां स्याद्वादमञ्जर्याम् ।। सप्तमवृत्तवृत्तिः ।। ५. क-ख-ज-थ- परकरणच्छेदं । झ-ग- परकरुणच्छेदं ।

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141