Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 35
________________ 770 ऋषिभाषितानि विषविशेषो वा, तं यथा प्राप्य दुग्धं विनाशमुपगच्छति माधुर्य- पुष्टिकृत्त्वदर्शनीयत्वादिपर्यायाद् भ्रश्यति, एवं रागश्च द्वेषश्च ब्रह्मचर्यविनाशकाः । ब्रह्म-कुशलानुष्ठानम्, तच्च तच्चर्यं च ब्रह्मचर्यम् - जिनाज्ञाऽऽराधनमेव । यद्वा ब्रह्मचर्यम् - मैथुन - विरमणम्, अत्र मुख्यग्रहणेन शेषनिःशेषव्रतग्रहणं द्रष्टव्यम्, तन्मुख्यता च - वयाण बंभवयं पवरमित्यादिना सिद्धा । न चैवमा वीतरागताप्तिं ब्रह्मचर्यं दुर्लभमिति वाच्यम्, प्रशस्तरागादेस्तदुपष्टम्भकत्वात्, अप्रशस्तयोः कषायरूपयोस्तदर्वागपि निग्रहसम्भवात्, तथा चार्षम् अहो ते निज्जिओ कोहो अहो माणो पराजिओ । अहो निरक्किया माया अहो लोहो वसीकओइति ।। नन्वेतदप्युदयविफलीकरणापेक्षया सत्तापेक्षया तु तदाप सद्भाव एवेति चेत् ? सत्यम्, किन्त्वर्थक्रियामकुर्वतोऽसत्कल्पत्वेन स्वजन्यविकारमजनयन्तस्तेऽसत्कल्पा एव, व्यवहारतोऽपि श्रमणः सञ्ज्ञादशकविप्रमुक्त इत्यागमविदः । यावदंशेनोदयः तावदंशविनाशस्त्वभ्युपगम्यत एवेति सूक्तम् एवं रागो य दोसो य बम्भचेरविणासगा इति । एतदेव स्पष्टयति जहा खीरं पधाणं तु मुच्छणा जायते दधिं । एवं गेहिप्पदोसेणं पावकम्मं पवडती ।।३ - ९।। यथा क्षीरं प्रधानं पाकादिविशेषावाप्तोत्तमभावं तु मूर्च्छनात् - अम्लादिद्रव्यसंयोगेन पूर्वोक्तस्वभावाऽपनयनात् जायते दधि । एवं गृद्धिप्रद्वेषेण - तीव्ररागगर्भितद्वेषप्रकर्षेण, द्वेषस्य रागाविना १. पुष्पमाला । । १५४ ।। २. उत्तराध्ययने ।।९-५६ ।। ३ जीवाभिगमवृत्तौ श्रीमलयगिरिचरणाः । २५ आर्षोपनिषद् भावित्वात्, पापकर्म - मोहनीयलक्षणं प्रवर्द्धते, जे वेयइ ते बंधइ – इति वचनात्, बीजाङ्कुरन्यायेनान्योऽन्यजनकत्वात्, तथा च पारमर्षम् - एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति - इति । अत्रेदमवधेयम्, द्विविधो रागः- माया लोभश्चं, द्वेषोऽपि द्विविधः - क्रोधो मानश्च । तदेवं कषाय-चतुष्टये रागद्वेषपर्यवसानमिति तद्दारुणत्वोपदर्शनायाद्यविपाकमाह २६ रण्णे दवग्गिणा दड्डा रोहंते वणपादवा । कोहग्गिणा तु दड्डाणं दुक्खा दुक्खाण णिव्वुती ।। ।।३-१०।। अरण्ये दवाग्निना दग्धा रोहन्ते वनपादपाः, सुरक्षितमूलत्वेन जलादिसामग्रीसमवधानेन पुनरपि संरोहणसम्भवात् । क्रोध एवाग्निः क्रोधाग्निः, साधर्म्यात्, तथा च वाचकमुख्य:- क्रोधः परितापकरः - इति । तेन तु दग्धानाम् तदुदयसमुषितात्मगुणानाम्, दुःखात् - कृच्छ्रेण, दुःखानाम्- तदुदयार्जितसानुबन्धदुष्कर्मविपाकानाम्, निवृत्तिः, असङ्ख्येनापि कालेन निष्ठाविरहात् । श्रूयते चाग्निशर्मतापसक्रोधदुर्विपाकः - बीयस्स अणंतसंसारो इति । उपलक्षणमेतच्छेषकषायविपाकानाम्। कस्मात्तर्हि ततो नोपरम्यत इत्याह १. उत्तराध्ययने ।। ३२-६ ।। २ प्रज्ञापनायाम् ।।२३ पदम् ।। ३ घ-च-झ-ण-तदड्ढाणं । ४. प्रशमरतौ ।। २६ ।। ५. समरादित्यकथायाम् ।। पीठिका ।।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141