Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
- १४९
Re-ऋषिभाषितानि -
अस्थि मे तेण देति, नस्थि से तेण देइ मे। जड़ से होज्ज ण मे देज्जा, णस्थि से तेण देति मे ।।
॥१३-८॥ अस्ति मया प्राक्कृतं कर्म विद्यते, मे - मत्सम्बन्ध्येव, अन्यथा कृतनाशादिदोषानुषङ्गात्। तेन - अनन्तरोक्तहेतुना, ददाति - स्वप्रकृत्यनुसारेण मत्प्रति फलप्रदं भवति। व्यतिरेकेणाह
तस्य - मदन्यस्य कस्यचिदपि, नास्ति अनन्तरोक्तं कर्म न विद्यते, मत्कृतत्वेन मदेकसम्बन्धित्वात्तस्य, तेन हेतुना मे - मह्यम्, फलं ददाति। पुनर्व्यतिरेकः - यदि तस्य - मद्भिन्नस्य सम्बन्धि भवेत्, तर्हि न मह्यं फलं दद्यात्, कāकानुयायित्वात् कर्मणः, तथा च पारमर्षम् - कत्तारमेव अणुजाइ कम्मं - इति । अनूदितं च - यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्। तथा पूर्वकृतं कर्म, कर्तारमधिगच्छति इति । तदाह- एकः करोति कर्माणि, एकस्तत्फलमश्नुते - इति ।
इत्थं च नास्ति तस्य मद्भिन्नस्य, तेन हेतुना मह्यमेव फलं ददाति। तस्मात्तन्निस्तरणमेव कर्मक्षयसाधनमित्यात्मानं तद्द्वारेणान्यं प्रति चोपदेशः। एतत्तत्त्वपरिणतिफलमाह
एवं से सिद्ध बुद्धे विरए विपावे दंते दविए अलंताई
णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।। एवमित्यादि प्राग्वत्। इति त्रयोदशभयालिनामाध्ययन आर्षोपनिषद्।
- आर्षोपनिषद् - ॥ अथ चतुर्दशोऽध्यायः।। __ अनन्तरोक्ताध्ययनपरिभावनेन कर्मक्षयाय प्रयततोऽपि कस्यचिद्विफलायासमात्रं स्यात्, अनादिकुवासनावशेन मनोविसंवादादित्याह
"जुत्तं अजुत्तजोगं ण पमाण"मिति बाहुकेण अरहता इसिणा बुइतं।।१४-१॥
युक्तम्- योगतया प्रसिद्धं यत्किञ्चिदनुष्ठानम्, न युक्ता मनोवाक्काय- लक्षणसर्वयोगा यत्रेत्ययुक्तयोगम्, यद्वा अयुक्तो योगः - मोक्षयोजनसमर्थव्यापारः, यत्र तत्- अयुक्तयोगम्, द्रव्यानुष्ठानमित्यर्थः, तन्न प्रमाणम् न सर्वज्ञाभिप्रायेण मोक्षसाधकतया सम्मतम्, परिणामियं पमाणं - इत्युक्तेः । उक्तं च- भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु - इति ।
केनैवमुक्तमित्याह- इति बाहुकेनाहतर्षिणोदितम्। एष च प्रत्येकबुद्धतया द्वितीयाङ्गेऽप्यभिहितः, यथा - आहंसु महापुरिसा पुल्विं तत्ततवोधणा। भोच्चा सीतोदगं सिद्धा तत्थ मंदे विसीदति।।
अभुंजिय णमी वेदेही रामाउत्ते य भुंजिया। बाहुए उदयं भोच्चा तधा नारायणे रिसी।। आसिले देविले चेव दीवायण महारिसी। पारासरे दगं भोच्चा तधा बीताणि हरिताणि य - इति । अत्र नमिराजर्षिरुत्तराध्ययनेषु नवमाध्ययने, शेषाश्चात्रैव
१. ओघनिर्युक्तौ ।।५६० ।। २. स्कन्दपुराणे ।।४२-६२ ।। ३. सूत्रकृताङ्गे ।।१-३४।। १-३।।
१. उत्तराध्ययने ।।१३-२३ ।। २. इतिहासे ।। ३. पद्मपुराणे ।।

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141